#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00086 Uniform title: tattvacintāmaṇi chapters 06 thru 10 Author : pūrṇānanda Commentator : bhuvanmohan ṣaṃkhyatirtha Description: Critically edited from original manuscripts with original commentary by bhuvanmohan saṃkhyatirtha and with notes by Chintamani Bhattacharya Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 1: December 11, 2007 Publisher : Publication year : 1936 Publication city : Calcutta Publication country : India #################################################### (तत्र रुद्रमूर्तेरवस्थितिः) ध्यायेन्मेषाधिरूढं नवतपननिभं वेदबाहूज्ज्वलाङ्गं तत्क्रोडे रुद्रमूर्तिर्निवसति सततं शुद्धसिन्दूररागः | भस्माऽलिप्ताङ्गभूषाभरणसितवपुर्वृद्धरूपी त्रिनेत्रो लोकानामिष्टदाताऽभयलसितकरः सृष्टिसंहारकारी || २१ || ______________________________________________________________ प्रकाशे इति विशेषणेन पद्मस्य नीलवर्णता प्रतीयते प्रागुक्तशाक्तानन्दतरङ्गिणीवचनेन तु रक्तवर्णत्वं स्पष्टमुक्तम् | गन्धर्वतन्त्रे पञ्चमपटले तु तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महत् पुरम् | हेमाभं वैद्युताभञ्च बहुतेजोमयं तथा || इत्यनेन हेमाभत्वादिकं पद्मस्य विशेषणत्वेनोपपादितम् | एवञ्च स्थिते स्वरूपभेदे, श्रीनाथस्याज्ञया ध्यानार्थम् एकतरः पक्षः समाश्रयणीय इति तत्त्वम् | मणिपूरपदव्युत्पत्तिमाह गन्धर्वतन्त्रे पञ्चमपटले मणिमद्भिन्नं तं पूरं मणिपूरं ततो विदुः | इति | अयमस्य निष्कर्षः स्वाधिष्ठानोर्द्ध्वे नाभिमूले गाढजलधरप्रभदशदलं मणिपूराख्यं कमलम् | दलानि चोर्द्ध्वनादबिन्दुसहितैर्नीलप्रभाभास्वरैः ड-ढ-ण-त-थ- द-ध-न-प-फ-रूपैर्दशभिर्वर्णैरुपेतानि | पद्मस्य कर्णिकायामरुणारुणप्रभाभास्वरं त्रिकोणं रंबीजगर्भं स्वस्तिकाख्यद्वारत्रययुक्तं वह्निमण्डलमिति | २१ | पूर्वश्लोके तत्र वह्नेः स्वबीजमित्युक्तम्, तदेव वह्निबीजं विशेषयति ध्यायेदित्यादिना | तद् वह्निबीजं कीदृशमित्यत आह मेषाधिरूढं मेषवाहनम्, तथा नवतपननिभं तरुणारुणरागं रक्तवर्णमित्यर्थः, तथा वेदबाहूज्ज्वलाङ्गं वेदैश्चतुर्भिर्बाहुभिरुज्ज्वलं शोभमानमङ्गं यस्य बाहुचतुष्टयेन काञ्चनशोभामावहदित्यर्थः | एवंविधं वह्निबीजं ध्यायेदिति पूर्वेण सम्बन्धः | अत्र रामवल्लभादिभिर्मेषाधिरूढं छागवाहनमिति व्याख्यातम् | तदसत् छागस्थः साक्षसूत्रोऽग्निरित्यादिनाऽन्यत्र तस्य छागवाहनत्वेऽभिहितेऽपि मेषस्थं साक्षसूत्रञ्च शक्तिहस्तं स्मरेत् ततः | इति कालीचरणकृतषट्चक्रटीकाधृतवचनेन प्रकृते वह्निबीजस्य मेषवाहनत्वेनैव ध्यानस्याभिधानात् प्रसिद्धार्थपरित्यागेनार्थान्तरकल्पनस्यानौचित्याच्च मेषवाहनत्वेन ध्यान- (प्. १९७) (अत्र पद्मे लाकिनीशक्तेस्वस्थितिरेतत्पद्मचिन्तनफलञ्च) तत्रास्ते लाकिनी सा सकलशुभकरी वेदबाहूज्ज्वलाङ्गी श्यामा पीताम्बराद्यैर्विविधविरचनालङ्कृता मत्तचित्ता | ध्यात्वैतन्नाभिपद्मं प्रभवति नितरां संहृतौ पालने वा वाणी तस्याननाब्जे विलसति सततं ज्ञानसन्दोहलक्ष्मीः || २२ || (अनाहतपद्मं तत्कर्णिकायां वायुमण्डलञ्च) तस्योर्द्ध्वे हृदि पङ्कजं सुललितं बन्धूककान्त्युज्ज्वलं काद्यैर्द्वादशवर्णकैरुपकृतं सिन्दूररागाञ्चितैः | नाम्नाऽनाहतजीवितं सुरतरुं वाञ्चातिरिक्तंप्रदं वायोर्मण्डलमत्र धूमसदृशं षट्कोणशोभान्वितम् || २३ || ______________________________________________________________ मेव समीचीनमिति पश्यामः | अत्र वह्निबीजस्य स्थितेस्तत्र वह्नेरपि स्थितिरित्यवधेयम्, मन्त्रदेवतयोरभेदस्य सर्वतन्त्रसिद्धत्वेन वह्निबीजस्थितिं वदता ग्रन्थकृता वह्निदेवतास्थितेरप्यभिधानात् | एवं सर्वत्र | तत्र रुद्रावस्थितिमाह तत्क्रोड इति | तस्य वह्निबीजस्य क्रोडे | अत्र लोकानामिष्टदाता वरद इत्यर्थः | तदयमस्य निष्कर्षः प्रागुक्तत्रिकोणस्थितं वह्निबीजं मेषवाहनं तरुणारुणशोणं चतुर्भुजञ्च | वह्निबीजमध्ये तु वृद्धो रुद्रो निरुक्तविशेषणविशिष्टो निवसतीति | २२ | तत्र लाकिनीशक्तेः स्थितिमाह तत्रास्त इति | अत्र पद्मकर्णिकायं सा सर्वतन्त्रप्रसिद्धा लाकिनीशक्तिरास्ते | लाकिनीं विशेषयति सकलेत्यादिना | पीताम्बराद्यैः पीतवस्त्रादिभिरलङ्करणसाधनैरित्यर्थः, या विविधा विचित्रप्रकारा विरचना वेशविन्यासः तया अलङ्कृता | पीताम्बराद्यैरुपलक्षिता तथा विविधविरचनालङ्कृता इति वा | एतन्मणिपूरचक्रचिन्तनफलमाह ध्यात्वैतदिति | २३ | एवं मणिपूरचक्रं निरूप्याऽनाहतचक्रमाह तस्योर्द्ध्व इति | तस्य मणिपूरपद्मस्य ऊर्द्धे हृदि हृदयप्रदेशे नाम्ना अनाहतमीरितम् अनाहतसंज्ञयाभिहितमित्यर्थः पङ्कजं ध्यायेदित्यर्थः | पङ्कजं विशेषयति सुललितमित्यादिना | सुललितं सुस्निग्धं बन्धूक (प्. १९८) (तत्र वायुबीजं तत्रेशस्थितिश्च) तन्मध्ये पवनाक्षरञ्च मधुरं धूमावलीधूसरं ध्यायेत् पाणिचतुष्टयेन लसितं कृष्णाधिरूढं परम् | तन्मध्ये करुणानिधानममलं हंसाभमीशाभिधं पाणिभ्यामभयं वरञ्च दधतं लोकत्रयाणामपि || २४ || __________________________________________________________________ कान्त्युज्ज्वलं बन्धूककुसुमवदरुणवर्णम्, तथा सिन्दूररागाञ्चितैः सिन्दूरवद्रक्तवर्णेः काद्यैः ककारादिभिष्ठकारान्तैः क-ख-ग-घ-ङ-च-छ-ज-झ-ञ-ट-ठ रूपैर्द्वादशवर्णेरुपकृतम् उपकरणविशिष्टं युक्तमित्यर्थः | अत्र उपहितमिति कालीचरणटीकायां उपहृतमिति च रामवल्लभटीकायां पाठो दृश्यते तयोरपि तत्र तत्र युक्तमित्येवार्थः, तथा वाञ्छातिरिक्तप्रदं सुरतरुम् अन्यः कल्पवृक्षो वाञ्छितमेव वस्तु प्रार्थिनेऽर्पयति एतत्पङ्कजरूपकल्पवृक्षस्तु वाञ्छितादप्यधिकं ददातीति तात्पर्यम् | वायोरिति | अत्र पद्मकर्णिकायां धूमसदृशंधूम्रवर्णं वायोर्मण्डलं ध्यायेत् | किम्भूतम् ? षट्कोणशोभान्वितम् | एतेन वायुमण्डलं षट्कोणमिति दर्शितम् | व्यक्तमाह निर्वाणतन्त्रे सप्तमपटले एतत्पद्मस्योर्द्ध्वदेशे विमलं पद्मसुन्दरम् | शोभितं द्वदशैः पत्रैः शोणवर्णसमन्वितम् | पद्ममध्ये बीजकोषे षट्कोणमण्डलं शुभम् | मण्डलस्य मध्यदेशे वायुबीजं मनोहरम् || इति | एवञ्च बीजकोषान्तःषट्कोणे वायुबीजस्थितिरिति गम्यते | अनाहतपदव्युत्पत्तिमाह तन्त्रसारे शब्दब्रह्ममयं शब्दोऽनाहतस्तत्र दृश्यते | अनाहताख्यं पद्मं तन्मुनिभिः परिकीर्त्यते || इति | अत्र शब्दब्रह्ममयमिति प्रक्रान्तपद्मविशेषणम् | अयमस्य निष्कर्षः मणिपूरोर्द्ध्वे हृदये बन्धूककुसुमशोणं सुस्निग्धं द्वादशदलं चतुर्थमनाहताख्यं पद्मम्, तस्य च दलेषु एकैकशः सिन्दूरसवर्णाः क- ख-ग-घ-ङ-च-च-छ-ज-झ-ञ-ट-ठ-रूपान् द्वादश वर्णान् कर्णिकायां धूमधूम्रं षट्कोणं वायुमण्डलं ध्यायेदिति | २४ | तन्मध्य इति | तस्य वायुमण्डलस्य मध्ये पवनाक्षरं यम् इति वायुबीजं (प्. १९९) (एतत्पद्मकर्णिकायां काकिनीशक्तेरवस्थितिः) अत्रास्ते खलु काकिनी नवतडित्पीता त्रिनेत्रा शुभा सर्वालङ्करणान्विता हितकरी सम्यग् जनानां मुदा | हस्तैः पाशकपालशोभनवरान् संबिभ्रती चाभयं मत्ता पूर्णसुधारसार्द्रहृदया कङ्कालमालाधरा || २५ || _________________________________________________________________ ध्यायेदिति शेषः | वायुबीजं विशेषयति मधुरमित्यादिना | मधुरं माधुर्यविशिष्टम् आनन्दमयमित्यर्थः | अनाहताख्यं पद्मं तन्मुनिभिः परिकीर्त्यते | आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् || इति तन्त्रसारवचनात् | धूमावलीधूसरमिति धूमपुञ्जधूसरवर्णं पाणिचतुष्टयेन लसितं चतुर्बाहुं कृष्णाधिरूढं कृष्णसारवाहनं परं श्रेष्ठमिति विशेषणचतुष्टयं वायुबीजस्य | अत्र वायुबीजस्थित्या समानवर्णवाहनवायुदैवतस्थितिरपि पूर्ववदुन्नेया | एवं वायुबीजस्य स्वरूपं निरूप्य तदन्तरीश्वरावस्थितिमाह-तन्मध्य इति | तन्मध्ये वायुबीजमध्ये ईशाभिधम् ईश्वराख्यं शिवं चिन्तयेदित्यर्थः | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | इत्यादि ईश्वराख्यस्याऽनाहतपद्माधिष्ठातृत्वावधारणात् | ईशं विशेषयति हंसाभमित्यादिना | हंसाभं शुक्लवर्णं तथा पाणिभ्यां लोकत्रयाणामपि अभ्यं वरञ्च दधतं विदधानमित्यर्थः | तथाचायमस्य निष्कर्षः प्रागुक्तवायुमण्डलान्तर्धूमधूम्रं कृष्णसारवाहनं चतुर्भुजं वायुबीजम् | तदन्तर्वराभयकरं शुक्लवर्णं करुणामयम् ईश्वराभिधानं शिवं ध्यायेदिति | २५ | अत्र पद्मे पद्मकर्णिकायामित्यर्थः काकिनीशक्तिरास्ते | अत्राविशेषेणोक्तावपि ईशपार्श्वे काकिन्याः स्थितिरवधेया रुद्रजामलोत्तरखण्डे सप्तपञ्चाशत्तमपटले ईश्वरं योगिनामीशं ध्यायेद् हृत्पद्ममण्डले | इत्यनेनेश्वरध्यानमभिधाय तत्पार्श्वे ध्यानमाकुर्यात् काकिनीं परमेश्वरीम् | इत्यनेन काकिन्या ईश्वरपार्श्ववर्तित्वप्रतिपादनादिति ध्येयम् | सा कीद्र्शीत्याह नवेत्यादि | पूर्णसुधारसार्द्रहृदया पूर्णः पूर्णानन्दकरो यः सुधारसः सहस्रारान्तराल (प्. २००) (एतत्पद्मकर्णिकान्तस्त्रिकोणाकारा शक्तिर्वाणलिङ्गञ्च) एतन्नीरजकर्णिकान्तरलसच्छक्तिस्त्रिकोणाभिधा विद्युत्कोटिसमानकोमलवपुः सास्ते तदन्तर्गता | वाणाख्यः शिवलिङ्गकोऽपि कनकाकाराङ्गरागोज्ज्वलो मौलौ सूक्ष्मविभेदयुङ्मणिरिव प्रोल्लासलक्ष्म्यालयः || २६ || ________________________________________________________________ वर्तिशिवशक्तिसामरस्यगलितामृतरसः तेनार्द्रं हृदयं यस्यास्तथाभूता तदुक्तं रुद्रजामलोत्तरे सप्तपञ्चाशत्तमपटले त्रैगुण्यललितां सूक्ष्मां वराभयकराम्बुजाम् | सुधापानरतां मत्तां परिपूर्णां कुलेश्वरीम् || इति | रहस्यमिदं सहस्रारव्याख्याने विशदीकरिष्यामः | स्पष्टमन्यत् | अयमस्य निष्कर्षः एतत्पद्मकर्णिकायां त्रिनेत्रा चतुर्भुजा पीतवर्णा शुभकारिणी नानालङ्करणकृतवेशविन्यासा आनन्देन साधकानां हितं सम्पादयन्ती पाशकपालवराभयकरा मदमत्ता सहस्रारगलितामृतरसेनार्द्रीकृतहृदया कङ्कालमालिनी काकिनीशक्तिः शोभत इति | २६ | अनाहतपद्मस्यास्य कर्णिकायां त्रिकोणाकारशक्तेर्वाणाख्यलिङ्गस्य चावस्थितिमाह एतदित्यादिना | एतस्य अनाहताख्यस्य नीरजस्य पद्मस्य या कर्णिका तस्या अन्तरे वायुबीजादधस्तात् लसन्ती या शक्तिः सा त्रिकोणाभिधा त्रिकोणाकारतया त्रिकोणेति नाम्ना प्रसिद्धा आस्ते | अत्र शक्तेस्त्रिकोणाकारत्वाभिधानात् त्रिकोणस्य योनिरुपतया तस्याऽधोमुखत्वमिति सूच्यते | शक्ते रूपमाह विद्युदिति | विद्युत्कोटिसमानं कोटिकोटिविद्युत्समानतेजःपुञ्जं कोमलञ्च वपुर्यस्यास्तादृशी | तदन्तर्गता तस्य त्रिकोणस्यान्तर्गता इत्यर्थः | अत्र त्रिकोणशक्त्योरभेदेऽपि तदन्तर्गतेति पदमौपचारिकं तदभिन्नेत्यर्थः | रुद्रजामले सप्तपञ्चाशत्तमपटले तत्पीठध्याननिकरे त्रिकोणां परिचिन्तयेत् | पीठशक्तिं सुवर्णाढ्यां विद्युत्कोटिसमोदयाम् | काकिनीसदृशीं मत्तां पूर्णान्तःकरणोद्यताम् || इत्यनेन त्रिकोणशक्त्योरभेदाभिधानात् | यत्तु कालीचरणेन तदन्तर्गत इति पाठं वाणाख्यः शिवलिङ्गक इत्यस्य विशेषणत्वेनाङ्गीकृत्य (प्. २०१) (एतदनाहतपद्मचिन्तनफलम्) ध्यायेद् यो हृदि पङ्कजं सुरतरुं शर्वस्य पीठालयं देवस्यानिलहीनदीपकलिकाहंसेन संशोभितम् | भानोर्मण्डलमण्डितान्तरलसत्किञ्जल्कशोभाकरं वाचामीश्वर ईश्वरोऽपि जगतां रक्षाविनाशक्षमः || २७ || _________________________________________________________________ तिकोणान्तर्वाणलिङ्गं कनकाभरणैर्युतम् | इत्यादिवचनं स्वमतसमर्थनानुकूलमुदाहृतं तदपि त्रिकोणाकारशक्तिदक्षपार्श्वे वाणाख्यलिङ्गस्थितिपरत्वेन व्याख्येम्, रुद्रयामलोत्तरखण्डे सप्तपञ्चाशत्तमपटले त्रिकोणशक्तिमुपक्रम्य तद्दक्षिणे पार्श्वभागे चिन्तयेद् वाणलिङ्गकम् | सुवर्णशुद्धसङ्काशं निर्मलं चारुतेजसम् | महालक्ष्मीप्रियानन्दं सर्वाकारं निरञ्जनम् | ज्ञानयोगोदयं ब्रह्मरूपिणं बहुरूपिणम् | प्रदीपकलिकाकारं चिन्तयेदीश्वरं शिवम् || इत्यनेन तद्दक्षे वाणलिङ्गस्थितेरभिधानात् | एवञ्च वाणाख्य इत्यादेरयमर्थः निरुक्तत्रिकोणशक्तिदक्षभागे वाणाख्यः शिवलिङ्गकोऽपि आस्ते | स कीदृशः? कनकाकाराङ्गरागोज्ज्वलः कनकवदुज्ज्वलकान्तिः | तथा मौलौ मस्तके सूक्ष्मविभेदयुक् सूक्ष्मच्छिद्रयुक्तो मणिरिव, मणेरुपरि सूक्ष्मं छिद्रमिव वाणशिरसि सूक्ष्मो बिन्दुः प्रकाशत इत्यर्थः | प्रोल्लासेति | प्रकृष्ट उल्लासो यस्यास्तादृशी या लक्ष्मीस्तस्या आश्रयः शोभातिशयविशिष्ट इत्यर्थः | शृङ्गाररसोल्लासवानिति वा | तथा चायमस्य निष्कर्षः निरुक्ताऽनाहतकमलकर्णिकायां वायुबीजादधः कोटिविद्युद्दीप्ता कोमला च त्रिकोणाकारा शक्तिः, तद्दक्षिणपार्श्वे कनकोज्ज्वलकान्तिः सार्द्धचन्द्रबिन्दुशिरस्कः शोभातिशयसम्पन्नो वाणलिङ्गाख्यः शिवो वर्तत इति | २७ | अथाऽनाहतपद्मस्यावशिष्टं स्वरूपं चिन्तनफलञ्चाह ध्यायेदिति | यः साधको हृदि पङ्कजमनाहताख्यं ध्यायेत्, स वाचामीश्वरः बृहस्पतितुल्यः सर्वशास्त्रार्थवेत्ता वाक्पटुश्च भवति | तथा जगतां रक्षाविनाशक्षम ईश्वरोऽपि भवति | अत्रापिशब्देन सृष्टेरपि संग्रहः, ततश्च सृष्टिस्थितिसंहारक्षमो भवतीत्यर्थः | यद्वा (प्. २०२) योगीशो भवति प्रियात् प्रियतमः कान्ताकुलस्यानिशं ज्ञानीशोऽपि कृती जितेन्द्रियगणो ध्यानावधानक्षमः | गद्यैः पद्यपदादिभिश्च सततं काव्याम्बुधारावहो लक्ष्मी रङ्गणदैवतं परपुरे शक्तः प्रवेष्टुं क्षणात् || २८ || _________________________________________________________________ न केवलं वाचामीश्वरः जगतामपि ईश्वरः अधिपतिर्भवति, कीदृशः ? रक्षाविनाशक्षमः | एतत्पद्मध्यानफलभूतमाधिपत्यमधिगम्य भगवत्सृष्टस्य जगतः पालनं विनाशञ्च कर्तुं प्रभवतीत्यर्थः | पद्मं कीदृशमित्यत आह सुरतरुं कल्पवृक्षस्वरूपम् अभीष्टसम्पादकमित्यर्थः | तथा देवस्य द्योतनशीलस्य शर्वस्य पीठालयं निवासस्थानम् | तथा अनिलहीनदीपकलिकाहंसेन अनिलहीना निर्वाता या दीपकलिका वायुसञ्चाररहितनिष्कम्पदीपशिखा तदाकारेण हंसेन जीवात्मना संशोभितम् | निवातनिष्कम्पदीपशिखानिश्चलो जीवात्मा हृत्पद्मेऽस्मिन् वर्तत इत्यर्थः | तथा भानोर्मण्डलेन सूर्यमण्डलेन मण्डितम् अन्तरं येषां तथाभूता अत एव लसन्तः अरुणकिरणसम्पर्केण शोभाविशेषं वहन्तः ये किञ्जल्काः केशराः तेषां या शोभा तस्या आकरम् आधारभूतमित्यर्थः | रुद्रयामलोत्तरखण्डे सप्तप्ञ्चाशत्तमपटले अनाहतपद्मं प्रकृत्य एतेषां ध्यानमाकृत्य वागीशो भवति क्षणात् | राज्यसिद्धिं तत्र नाथ चिन्तयेत्तत्प्रसिद्धये | तत्र भानोर्मण्डलञ्च चिन्तयेत् साधकाग्रणीः || पद्मकिञ्जल्कमध्ये तु चिन्तयेदरुणायुतम् | मासैकसाधनादेव योगी स्याच्छीतलाङ्कधृक् || इत्यादिना पद्मस्य कर्णिकान्तर्भानुमण्डलचिन्तनमुपदिश्य केशरेष्वपि सूर्यायुतचिन्तनाभिधानात् प्रकृतेऽपि केशराणां भानुमण्डलमण्डितत्वमुपपद्यत एव | एवञ्चायमस्य निष्कर्षः प्रागुक्तवाणलिङ्गादधो निरुक्तरूपो जीवात्मा, पद्मस्य कर्णिकान्तः सूर्यमण्डलं किञ्जल्कानामभ्यन्तरप्रदेशाश्च सौरकिरणनिकरपरिशोभिता इति | २८ | श्लोकान्तरेण फलान्तरमाह योगीश इति | यः साधकः पद्ममिदं प्रागुक्तक्रमेण चिन्तयेत् स योगीशः योगिश्रेष्ठो भवति | तथा अनिशं कान्ताकुलस्य प्रियात् (प्. २०३) (विशुद्धपद्मम् तत्कर्णिकायां नभोमण्डलस्थितिश्च) विशुद्धाख्यं कण्ठे सरसिजममलं धूमधूम्रावभासं स्वरैः सर्वैः शोणैर्दलपरिलसितैर्दीपितं दीप्तबुद्धेः | समास्ते पूर्णेन्दुप्रथिततमनभोमण्डलं वृत्तरूपं हिमच्छायानागोपरि लसिततनोः शुक्लवर्णाम्बरस्य || २९ || __________________________________________________________________ प्रियतमः अतिशयेन प्रिय इत्यर्थः | ज्ञानिशः ज्ञानिनां श्रेष्ठः | अत्र योगीश- ज्ञानीशपदद्वयेन कर्मज्ञानोभयाधीशत्वं प्रदर्शितम् | अपिशब्दस्तथार्थे | कृती पण्डितः | जितेन्द्रियगणः जितः इन्द्रियगणो येन, एतेन ज्ञानोदयाद् विषयासक्तिराहित्येन बीजरूपेण स्थितानामपि वासनानां सर्वथापगमादिन्द्रियजयः सुतरामेव भवतीत्युक्तम् | तदुक्तं श्रीमद्भगवद्गीतायाम् विषया विनिवर्तन्ते निराहारस्य देहिनः | रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || इति | तथा ध्यानावधानक्षमः ध्याने ब्रह्मस्वरूपचिन्तने यत् अवधानं सुतरामभिनिवेशस्तत्र क्षमो भवति | काव्याम्बुधारावहः निरन्तरकाव्यामृतरसास्वादनविदग्धः | तथा लक्ष्मी रङ्गणदैवतं लक्ष्म्या रङ्गणस्य क्रीडनस्य दैवतं देवता नारायणस्तत्सदृश इत्यर्थः | वृन्दारका दैवतानि पुंसि वेत्यमरः | दन्त्यनकारवत् पाठे तु तस्य लक्ष्मीः अङ्गनदैवतं भवतीति | स परपुरे परशरीरे क्षणात् प्रवेष्टुं शक्तः | एतच्चिन्तनेन परकायप्रवेशयोग्यतां लभत इत्यर्थः | २९ | एवमनाहतपद्मं निरूप्य विशुद्धाख्यं पद्ममाह-विशुद्धेति | पद्मस्यास्य विशुद्धसंज्ञाहेतुमाह शाक्तानन्दतरङ्गिण्यां चतुर्थोल्लासे विशुद्धिस्तन्यते यस्माज्जीवस्य हंसलोकनात् | विशुद्धपद्ममाख्यातमाकाशाख्यं महाद्भुतम् || इति | कण्ठे कण्ठप्रदेशे विशुद्धाख्यं विशुद्धाभिधानं सरसिजं पद्मं समास्ते | सरसिजं विशेषयति अमलमित्यादिना | अमलं मलरहितम् | तथा धूमधूम्रावभासं धूमवत् धूम्रः अवभासो दीप्तिर्यस्य तथाभूतम् | एतेन धूम्रवर्णमिदं पद्ममित्युक्तं भवति | पत्रेषु वर्णानां संस्थितिं विशेषणप्रदर्शनमुखेनाह स्वरैरिति | दलपरिलसितैः दलेषु (प्. २०४) (तत्र सदाअशिवस्थितिः) भुजैः पाशाभीत्यङ्कुशवरलसितैः शोभिताङ्गस्य तस्य मनोरङ्के नित्यं निवसति गिरिजाभिन्नदेहो हिमाभः | त्रिनेत्रः पञ्चास्यो ललितदशभुजो व्याघ्रचर्माम्बराढ्यः सदापूर्वो देवः शिव इति च समाख्यानसिद्धिप्रसिद्धः || ३० || _________________________________________________________________ षोडशसु परिलसितैः शोभमानैः शोणैः रक्तवर्णैः सर्वैः स्वरैः अकारादिविसर्गान्तषोडशस्वरैरित्यर्थः दीप्तबुद्धेः अनवरतयोगाभ्यासविशुद्धमतेः साधकस्य सम्बन्धे दीपितम् | निरन्तरयोगानुशीलननिरस्तमलाः समुन्मीलितज्ञानप्रकर्षाः साधका एव रहस्यमिदमवगन्तुं प्रभवेयुरित्यर्थः | अत्र दलपरिलसितैरित्येतावन्मात्रेणानुक्तायामपि दलसंख्यायां स्वरैः सर्वैरित्यनेन पत्रेषु षोडशस्वराणां स्थितेरभिधानाद् दलानामपि षोडशसंख्याकत्वमवगम्यते | तेनैकैकस्मिन् दले एकमेकं स्वरं चिन्तयेदित्यर्थः | व्यक्तमाह शाक्तानन्दतरऽऽगिण्यां चतुर्थोल्लासे कण्ठदेशे विशुद्धाख्यं धूम्रवर्णं मनोहरम् | अकारादिस्वरोपेतैर्दलैः षोडशभिर्युतम् || इति | कर्णिकायां नभोमण्डलस्थितिमाह पूर्णेति | पूर्णेन्दुप्रथिततमनभोमण्डलं पूर्णचन्द्रसदृशभास्वरशुक्लवर्णं नभोमण्डलं समास्ते | मण्डलस्याकारमाह वृत्तरूपमिति वृत्ताकारमित्यर्थः | परश्लोके मनोरङ्के इत्यनेनाभिधास्यमानं मनुं विशेषयति हिमेत्यादिना | मनोः कीदृशस्य? हिमच्छायायुक्तो यो नागः श्वेतवर्णहस्ती तस्य उपरि लसिता तनुर्यस्य तादृशस्य, तथा शुक्लाम्बरस्य शुक्लवर्णपरीधानस्येति | ३० | भुजैरिति | पाशाभीत्यङ्कुशवरलसितैर्भुजैः चतुर्भिरिति शेषः | अत्र पाशादीनां चतुर्णामभिधानाद् भुजानामपि चतुःसंख्याकत्वं बोध्यम् | तथाच निरुक्तलक्षणैर्भुजैः शोभितमङ्गं यस्य तादृशस्य मनोः हं इत्यात्मकस्य नभोबीजस्य अङ्के क्रोडे सदापूर्वो देवः शिवः सदाशिवो देवः इत्यस्य समाख्यानस्य या सिद्धिस्तया प्रसिद्धः नित्यं कालाद्यनवच्छिन्नं यथा स्यात्तथा निवसति | अत्र नभोबीजस्थितेरभिधानान्नभसोऽपि स्थितिः पूर्ववदुन्नेया | सदाशिवं विशेषयति त्रिनेत्र इत्यादिना | गिरिजाभिन्नदेहः (प्. २०५) (एतत्पद्मकर्णिकायां शाकिनीशक्तेश्चन्द्रमण्डलस्य चावस्थितिः) सुधासिन्धोः शुद्धा निवसति कमले शाकिनी पीतवस्त्रा शरं चापं पाशं सृणिमपि दधती हस्तपद्मैश्चतुर्भिः | सुधांशोः संपूर्णं शशपरिरहितं मण्डलं कर्णिकायां महामोक्षद्वारं श्रियमभि मतशीलस्य शुद्धेन्द्रियस्य || ३१ || _________________________________________________________________ गिरिजया भिन्नः सम्भिन्नः देहो यस्य सः अर्द्धनारीश्वर इत्यर्थः | सदाशिवस्य दशभुजत्वं वृषवाहनत्वञ्चाह महानिर्वाणतन्त्रे चतुर्दशपटले गङ्गाधरं दशभुजं शशिशोभितमस्तकम् | हिमकुन्देन्दुसङ्काशं वृषासनविराजितम् | इत्यनेन | ३१ | सुधेति | अस्मिन् कमले कर्णिकायां शाकिन्याख्या शक्तिर्निवसति | सा च सुधासिन्धोः सुधासमुद्रादपि शुद्धा शुक्लवर्णा | अनेनामृतादपि साधकानां तृप्तिसम्पादिकेत्यपि सूच्यते | कर्णिकायां चन्द्रमण्डलस्थितिमाह-सुधांशोरिति | कर्णिकायां सुधांशोश्चन्द्रस्य शशपरिरहितं निषकलङ्कं संपूर्णं मण्डलं विलसतीत्यर्थः | एवञ्च कर्णिकायां नभोमण्डलचन्द्रमण्डलयोरुभयोः स्थितेरभिधानात् कर्णिकान्तर्नभोमण्डलमध्ये चन्द्रमण्डलं तत्र नभोबीजं तत्रार्द्धनारीश्वरः सदाशिवः शाकिनीशक्तिश्चेत्यवधेयम् | मण्डलं विशेषयति महेति | श्रियं योगलक्ष्मीमभि लक्षीकृत्य मतं प्रशस्तं शीलं यस्य तादृशस्य योगाभ्यासपरायणस्येत्यर्थः अत एव एव शुद्धेन्द्रियस्य योगाभ्यासविशुद्धमनसः साधकस्य महामोक्षद्वारम् निर्वाणमुक्तिहेतुभूतमित्यर्थः | अत्र पद्मकर्णिकायां वृत्तरूपनभोमण्डलान्तर्गतनभोबीजान्तः सदाशिवस्थितिमाह | निर्वाणतन्त्रेऽष्टमपटले तु पद्ममध्ये वराटे च जनर्लोकं सुसुन्दरम् | महामोहान्ध्यशमनं तद्बाह्ये चन्द्रमण्डलम् | तथा- बीजकोषे मणिद्वीपे षट्कोणचक्रमुत्तमम् | यन्त्रमध्ये च वृत्ताभं महासिंहासनं ततः | (प्. २०६) (एतत्पद्मचिन्तनफलम्) इह स्थाने चित्तं निरवधि विनिधायात्मसंपूर्णयोगः कविर्वाग्मी ज्ञानि स भवति नितरां साधकः शान्तचेताः | त्रिलोकानां दर्शी सकलहितकरो रोगशोकप्रमुक्त- श्चिरञ्जीवी जीवी निरवधिविपदां ध्वंसहंसप्रकाशः || ३२ || (भ्रूमध्ये द्विदलमाज्ञापद्मं तत्कर्णिकायां हाकिनीशक्तेरवस्थितिश्च) आज्ञाख्यानाम्बुजं तद्धिमकरसदृशं ध्यानधामप्रकाशं हक्षाभ्यां वै कलाभ्यां प्रविलसितवपुर्नेत्रपत्रं सुशुभ्रम् | तन्मध्ये हाकिनी सा शशिसमधवला वक्त्रषट्कं दधाना विद्यां मुद्रां कपालं डमरुजपवतीं बिभ्रती शुभ्रचित्ता || ३३ || __________________________________________________________________ तस्योपरि सदा गौरी दक्षभागे सदाशिवः | त्रिनेत्रः पञ्चवक्त्रश्च प्रतिवक्त्रे त्रिलोचनः | विभूतिभूषिताङ्गश्च रजताचलसोदरः | व्याघ्रचर्मधरो देवो मणिमालाविभूषितः | तथा- सर्वानन्दकरो देवो अर्द्धनारीश्वरो विभुः | इत्यादिना बीजकोषबाह्ये चन्द्रमण्डलं बीजकोषान्तः षट्कोणचक्रं तन्मध्ये वृत्तं तदन्तः सिंहासनं तत्रार्द्धनारीश्वरः सदाशिव इति क्रमो दृश्यते | ३२ | इहेति | आत्मसंपूर्णयोगः आत्मनि संपूर्णो योगो यस्य सः | स्पष्टमन्यत् | ३३ | एवं विशुद्धचक्रमभिधायाज्ञाचक्रमाह आज्ञेति | तत् प्रसिद्धमाज्ञेत्याख्यानं यस्य तथाभूतं नेत्रपत्रं द्विदलम् अम्बुजं वर्तत इति शेषः | अस्याज्ञानामबीजमाह शाक्तानन्दतरङ्गिण्यां चतुर्थोल्लासे आज्ञासंक्रमणन्तत्र गुरोराज्ञेति विश्रुतम् | इति | अत्र विशेषतोऽनभिधानेऽपि एतदम्बुजस्यावस्थितिर्भ्रूमध्य इति ज्ञेयम् | तदुक्तं शाक्तानन्दतरङ्गिण्यां चतुर्थोल्लासे आज्ञा नाम भ्रुवोर्मध्ये चक्रञ्च द्विदलं परम् | इति | (प्. २०७) (आज्ञापद्मकर्णिकायां मनसः, कर्णिकान्तस्त्रिकोणे इतराख्यशिवस्य प्रणवस्य च स्थितिः) एतत्पद्मान्तराले निवसति च मनः सूक्ष्मरूपं प्रसिद्धं योनौ तत्कर्णिकायां त्वितरशिवपदं लिङ्गचिह्नप्रकाशम् | विद्युन्मालाविलासं परमकुलपदं ब्रह्मसूत्रप्रबोधं वेदानामादिबीजं स्थिरतरहृदयश्चिन्तयेत्तत् क्रमेण || ३४ || _________________________________________________________________ हिमकरसदृशं शुक्लवर्णम् | तथा ध्यानस्य धाम्ना प्रकाशो यस्य तथाभूतम् | तथाअ कलाभ्यां हक्षाभ्यां कलाशब्देन देवतोच्यते | अत्र कलाया बीजभूते वर्णे कलात्वोपचारः | तथाच तत्तदुपास्यदेवताकारणीभूताभ्यां हकारक्षकारवर्णाभ्यां प्रविलसिते वपुषी ययोस्तथाभूते नेत्रपत्रे यस्य तादृशम् अत एव सुशुभ्रम् अतिशयेन शुभ्रमित्यर्थः | हिमकरसदृशमित्यनेन पद्मस्य स्वतः शुभ्रत्वम्, सुशुभ्रमित्यनेन च शुभ्रवर्णहकारक्षकारसंयोगात् शुभ्रत्वस्यातिशययमिति सूचितम् | एतत्कर्णिकायां हाकिनीशक्तेरवस्थितिमाह तन्मध्य इति | तस्य पद्मस्य मध्ये कर्णिकायां सा प्रसिद्धा हाकिनीशक्तिर्विलसतीत्यर्थः | तां विशेषयति शशीत्यादिना | शशिसमधवला एतेनास्याः शीतलकिरणत्वं धावल्यञ्चोक्तम् | विद्यामिति | हस्ते विद्या मुद्रादिकं दधती | जपवटीं जपमालाम् | तथा शुभ्रचित्ता शुभ्रं चित्तं यस्याः सा | तथाच भ्रुवोर्मध्य आज्ञापद्मं शुक्लवर्णं द्विदलं दलयोर्हक्षरूपवर्णद्वयमतिशुभ्रम् | पद्मस्य कर्णिकायां हाकिनीशक्तिः षड्वक्त्रा शुक्लवर्णा विद्यावराभयकपालडमरुजपवटीसमलङ्कृतषड्भुजा विराजत इति फलितम् | ३४ | एतदिति | एतत्पद्मस्य आज्ञाख्यस्य अन्तराले कर्णिकाले मनो निवसति | मनः कीदृशमित्याह सूक्ष्मरूपमतीन्द्रियम् | अतीन्द्रियञ्चेत्तस्यास्तित्वे किं मानमित्यत आह- प्रसिद्धमिति सर्वशास्त्रपसिद्धमित्यर्थः | एतत् कर्णिकान्तस्त्रिकोणे इतराख्यशिवलिङ्गस्थितिमाह- योनाविति | तत्कर्णिकायां योनौ योन्याकारत्रिकोणे इतरशिवपदं इतराख्यशिवरूपं वस्तु वर्तते इतरशिवस्याकारं निरूपयति लिङ्गेति, लिङ्गाकारमित्यर्थः | अत्र स्थितं प्रणवं निरूपयति विद्युदिति | इतः प्रभृति सर्वाण्येवादिबीजमित्यस्य विशेषणानि | विद्युन्मालाविलापं विद्युच्छ्रेणीसदृशकान्तिविशिष्टं, परमकुलपदम् अत्र (प्. २०८) (एतच्चिन्तनफलम्) ध्यानात्मा साधकेन्द्रो भवति परपुरे शीघ्रगामी मुनीन्द्रः सर्वज्ञः सर्वदर्शी सकलहितकरः सर्वशास्त्रार्थवेत्ता | अद्वैताचारवादी विलसति परमापूर्वसिद्धिप्रसिद्धो दीर्घायुः सोऽपि कर्ता त्रिभुवनभवने संहृतौ पालने च || ३५ || _________________________________________________________________ कुलशब्देन त्रिकोणाकारशक्तिरुच्यते | तथाच परमं कुलं शक्त्यात्मकं त्रिकोणं पदं स्थानं यस्य तथाभूतम् एतेन निरुक्तेतरशिवोर्द्ध्वे त्रिकोणे वेदादिबीजस्य स्थितिरभिहिता | तथा ब्रह्मसूत्रप्रबोधं ब्रह्मसूत्रस्य ब्रह्मनाड्याः प्रबोधो यस्मात् तत् | अस्यैव प्रणवस्य तेजसा ब्रह्मनाड्यन्तःस्थितानां ज्ञानमुपजायत इत्यर्थः | स्थिरतरहृदयः साधकः एवंविधं वेदानामादिबीजं प्रणवं तत् निरुक्तं हाकिन्यादिकं क्रमेण चिन्तयेदित्यर्थः | अत्र यद्यपि तन्मध्ये चित्रिणी सा प्रणवविलसितेत्यादि-तृतीयश्लोके प्रणवविलसितेत्यनेन चित्रिण्या एव प्रणवविलसितत्वमुक्तं तथापि आज्ञाचक्रस्थितेन प्रणवेन चित्रिण्यन्तःस्थिताया ब्रह्मनाड्या अपि प्रणवविलसितत्वमुन्नेयम् अतो ब्रह्मसूत्रप्रबोधमिति सुष्ठूपपद्यते | न च ब्रह्मसूत्रपदमत्र चित्रिणीनाडीबोधकमिति वाच्यं तत्साधकप्रमाणाभावात् | तथाच तस्याज्ञानाम्नः पद्मस्य कर्णिकायां मनः, कर्णिकान्तस्त्रिकोणे इतराख्यं शिवलिङ्गं, तदूर्द्ध्वत्रिकोणे विद्युन्मालासदृशदीप्तिशाली प्रणवो वर्तत इति फलितम् | ३५ | एतच्चिन्तनफलमाह ध्यानामेति | ध्यानात्मा एतत्पद्मध्याननिष्ठः साधकेन्द्रः साधकश्रेष्ठः परपुरे शीघ्रगामी भवति, ध्यानप्रभावेण तूर्णं परकायप्रवेशक्षमो भ्वतीत्यर्थः | तथा मुनीन्द्रो मननशीलानां श्रेष्ठः सर्वज्ञः सर्ववेत्ता सर्वदर्शी एकत्र स्थितोऽपि करतलकलितामलकफलवदखिलजगदवलोकनक्षम, इत्यर्थः, सकलहितकरः कायमनोवाग्भिः सर्वेषां हितसाधकः सर्वशास्त्रार्थवेत्ता च भवतीत्यर्थः | अद्वैताचारवादी सर्वं खल्विदं ब्रह्मेत्यादिश्रुतिप्रतिपाद्यं यद् ब्रह्माद्वैतज्ञानं तत्र य आचारः जीवात्मपरमात्मनोरभेदचिन्तनादिरूपो योगस्तं वदतीति | स्वयं ब्रह्माद्वैतमनुभूय तस्यैव पारमार्थिकतां प्रमाणयतीत्यर्थः | परमा प्रकृष्टा अपूर्वा इतरयोगिभिः पूर्वमनधिगता या सिद्धिस्तया प्रसिद्धः तथा दीर्घायुस्त्रिभुवनभवने त्रिभुवनस्य सृष्टौ संहारे पालने च कर्ता भवतीत्यर्थः | (प्. २०९) (आज्ञाचक्रे प्रणवघटकवर्णानामवस्थितिः) तदन्तश्चक्रेऽस्मिन्निवसति सततं शुद्धबुद्धान्तरात्मा प्रदीपाभज्योतिः प्रणवविरचनारूपवर्णप्रकाशः | तदूर्द्ध्वे चन्द्रार्द्धस्तदुपरि विलसद्बिन्दुरूपी मकार- स्तदाद्ये नादोऽसौ रसधवलसुधाधारसन्तानहासी || ३६ || (आज्ञाचक्रे प्रणवस्वरूपचिन्तनफलम्) इह स्थाने लीने सुसुखसदने चेतसि पुरं निरालम्बां बद्ध्वा परमगुरुसेवासुविदिताम् | सदाऽभ्यासाद् योगी पवनसुहृदां पश्यति कला स्ततस्तन्मध्यान्तः प्रविलसितरूपानपि पदान् || ३७ || _________________________________________________________________ ३६ | पूर्वं वेदानामादिबीजमित्यनेन प्रणवस्य चिन्तनमुपदिष्टम्, तमेव प्रणवं विशेषयति तदन्तरिति | अस्मिन्नाज्ञाचक्रे तदन्तस्तस्य निरुक्तत्रिकोणस्यान्तः प्रणवस्य विरचनारूपेण स्थितो यो वर्णः अकारोकारसङ्खातरूप ओकारस्तस्य प्रकाशो निवसतीति सम्बन्धः तमेव वर्णं विशेषयति | शुद्धबुद्धान्तरात्मस्वरूपः तथा प्रदीपाभज्योतिः प्रदीपाभंज्योतिर्यस्य सः प्रकाशशील इत्यर्थः | तदूर्द्ध्वे चन्द्रार्द्धः अर्द्धचन्द्राकारचिह्नम्, तदुपरि अर्द्धचन्द्रोर्द्ध्वे विलसन् शोभमानो यो बिन्दुस्तद्रूपधारी मकारो निवसति मकार एव बिन्दुरूपेण तत्र वर्तत इत्यर्थः | तदाद्ये निरुक्तबिन्दुरूपिणो मकारस्याद्ये स्थितोऽसौ नादः रसधवलसुधाधारसन्तानहासी रसधवलः पारदश्वेतः तथा सुधाधारश्चन्द्रः तस्य सन्तानो विस्तारः तमुपहसितुं शीलमस्येति तादृशः | ततश्च रसधवलश्चासौ सुधाधारसन्तानहासी चेति कर्मधारयः | एतेन नादस्यातिशयशुक्लत्वमुक्तम् | एवञ्च निरुक्तः प्रणवोऽकारोकारनादबिन्दुमयः अन्तरात्मस्वरूपः प्रदीपशिखोज्ज्वलः श्वेतवर्णश्चेति फलितम् | ३७ | इहेति | सुसुखसदने निरवच्छिन्नानन्दधामनि इह स्थाने आज्ञाचक्रस्थितप्रणवमभितश्चेतसि लीने सति परमगुरुसेवासुविदितां गुरुपरम्परापरिप्राप्तयोगाभ्यास- (प्. २१०) (अत्र वह्निकणावान्तरभेदाः परमशिवस्थितिश्च) ज्वलद्दीपाकारं तदनु च नवीनार्कबहुल- प्रकाशं ज्योतिर्वा गगनधरणीमध्यमिलितम् | इह स्थाने साक्षाद् भवति भगवान् पूर्णविभवो- ऽव्ययः साक्षी वह्नेः शशिमिहिरयोर्मण्डल इव || ३८ || ______________________________________________________________ कुशलो गुरुः परमगुरुस्तस्य सेवया सुविदितां सम्यगधिगतां निरालम्बां निर्नास्ति आलम्बः विषयसंस्पर्शो यत्र तथाभूतां विषयसम्बन्धोच्छेदकारिणीं पुरं योनिमुद्रां खेचरीमुद्रां वा मनःस्थैर्यसम्पादिनीं बद्ध्वा सदाऽभ्यासात् निरन्तरप्रणवानुशीलनाद् योगी जनः पवनसुहृदां वह्नीनां कलाः अंशान् स्फुलिङ्गानित्यर्थः पश्यति | इह योगं विदधतो योगिन इतस्ततो विसृमरवह्निकणायमानं ज्योतिर्मानसप्रत्यक्षतामापद्यत इत्यर्थः | तत इति | निरुक्ताभ्यासानन्तरं तन्मध्यान्तः तन्मध्यं पद्ममध्यस्थितं त्रिकोणं तदन्तः प्रविलसितं प्रकर्षेण शोभमानं रूपं येषां तथाभूतान् पदान् प्रणवघटकवर्णानपि पश्यतीत्यर्थः | ३८ | पूर्वश्लोके पवनसुहृदां पश्यति कला इत्युक्तं तत्र विशेषमाह-ज्वलदिति | तदनु निरुक्तवह्निकणदर्शनसमनन्तरं ज्योतिः पश्यतीति पूर्वेण सम्बन्धः | कीदृशं तज्ज्योतिरित्याकाङ्क्षायामाह ज्वलद्दीपाकारमिति | ज्वलतो दीपस्याकार इव आकारो यस्य तथाभूतं ज्योतिरित्यर्थः | तथा नवीनार्कबहुलप्रकाशं नवीनार्कः प्रातःकालीनसूर्यः तद्वद् बहुलः प्रचुरः प्रकाशो यस्य तादृशं नवोदयमानसूर्यसदृशदीप्तिविशिष्टम्, तथा गगनधरणीमध्यमिलितम्, अत्र गगनशब्देन प्रागुक्तशङ्खिनीनाड्यूर्द्ध्वसहस्राराधःस्थशून्यभागो बोध्यः | धरणीशब्देन च अमुष्मिन् धरायाश्चतुष्कोणबीजम् इत्युक्तमूलाधारस्थधरामण्डलं बोध्यम् | एवञ्च गगनधरण्योर्निरुक्तयोर्मध्ये मिलितं सहस्रारान्मूलाधारपर्यन्तं परिव्याप्तं तज्ज्योतिरित्यर्थः | इहेति | इह स्थाने निरुक्तायामाज्ञाचक्रकर्णिकायां वह्नेः अग्नेः शशिमिहिरयोश्चन्द्रसूर्ययोश्च मण्डले इव भगवान् परमशिवः साक्षाद् भवति स्वयं वर्तते | यथा सहस्रारकमलस्थवह्निचन्द्रसूर्यमण्डलेषु परमशिवो वर्तते तद्वदत्रापीत्यर्थः | परमशिवं विशेषयति पूर्णेति | पूर्णः सर्वव्यापकः विभवः विभुत्वं सृष्टि-स्थिति-संहारकर्तृत्वं (प्. २११) (अत्र प्राणत्यागस्य फलम्) इह स्थाने विष्णोरतुलपरमामोदमधुरे समारोप्य प्राणान् प्रमुदितमनाः प्राणनिधने | परं नित्यं देवं पुरुषमजमाद्यं त्रिजगतां पुराणं योगीन्द्रः प्रविशति च वेदान्तविदितम् || ३९ || _________________________________________________________________ यस्य सः | अयमेव भगवान् परमशिवः सर्वप्रपञ्चानां सृष्टिस्थितिसंहारान् स्वविभवेन निर्वर्तयतीत्यर्थः | तथाऽव्ययः सर्वत्राविकृतरूपः, तथा साक्षी द्रष्टा निर्लेप इत्यर्थः | अत्रेदमवधेयम्, परमार्थतः सृष्ट्यादिकर्तृत्वं शक्त्या एव तस्याः पुनः पुनः सृष्टिर्जायते लीयते सदा | इत्यादि-गन्धर्वतन्त्रतृतीयपटलवचनेन शक्त्या एव सृष्ट्यादिकर्तृत्वाभ्युपगमात् | एवञ्च स्वाभिन्नशक्तिकृतप्रपञ्चसृष्ट्यादिकं कूटस्थरूपेण पश्यतीति साक्षीत्यनेन सूचितम् | आज्ञाचक्रेऽपि परमशिवस्थितिमाह निर्वाणतन्त्रे नवमपटले एवं हंसो मणिद्वीपे तस्य क्रोडे परः शिवः | वामभागे सिद्धकाली सदानन्दस्वरूपिणी || इति | ३९ | अत्र प्राणत्यागस्य फलमाह इहेति | योगीन्द्रः प्राणनिधने प्राणत्यागकाले प्रमुदितमनाः ब्रह्मनिर्वाणं मे भविष्यतीति प्रकर्षेण हृष्टमानसः सन् परमामोदमधुरे निरवच्छिन्नानन्दसन्तानरमणीये इह विष्णोर्व्यापकस्य भगवतः स्थाने आज्ञाचक्रे प्राणान् समारोप्य योगानुशासनक्रमेण प्राणानां लयं विधाय परं पुरुषं प्रविशति निर्वाणमुक्तिं लभते इत्यर्थः | पुरुषं विशेषयति-देवमिति | प्रपञ्चादिरूपेण द्योतनशीलम् | अजं नित्यम्, तथा त्रिजगतामाद्यं कारणभूतमित्यर्थः | पुराणं पुराणपुरुष इत्याख्यया सर्वशास्त्रेषु प्रसिद्धम् | तथा वेदान्तविदितम् यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्यादिश्रुतिभिरवाङ्मनसगोचरत्वनिरूपणात् तदवगमासम्भवेऽपि सर्वं खल्विदं ब्रह्मं ब्रह्मविद् ब्रह्मैव भवति इत्यादिश्रुतिभिर्विदितं ब्रह्मप्रतिपादकश्रुतिमात्रगम्यमित्यर्थः | अत्र विष्णुशब्देन व्यापको भगवान् परमशिव एव बोध्यः | निर्वाणतन्त्रे नवमपटले (प्. २१२) (आज्ञाचक्रोर्द्ध्वे शिवशक्तिरूपो महानादस्तद्दर्शनफलञ्च) लयस्थानं वायोस्तदुपरि च महानादरूपं शिवार्द्धं शिवाकारं शान्तं वरदमभयं शुद्धबुद्धिप्रकाशम् | यदा योगी पश्येद् गुरुचरणयुगाम्भोजसेवासुशील- स्तदा वाचां सिद्धिः करतलकमले तस्य भूयात् सदैव || ४० || _________________________________________________________________ आज्ञाचक्ररूपे तपोलोके परमशिवस्यैव स्थितेरभिधानात् | अस्य निर्वाणमुक्तिदातृत्वमाह तत्रैव- सालोक्यं महर्लोके स्यात् सारूप्यं जनलोकके | सायुज्यं तपोलोकेषु निर्वाणं हि तदूर्द्ध्वके || इति | ४० | एवमाज्ञाचक्रं निरूप्य तदूर्द्ध्वे शिरःस्थितसहस्रदलकमलादधो महानादं निरूपयति लयस्थानमिति | गुरुचरणयुगाम्भोजसेवासुशीलः गुरोर्योगानुशीलनविशुद्धमतेः श्रीगुरुदेवस्य चरणाम्भोजयोः सेवया ततो योगाभ्यासेनेत्यर्थः शुद्धं दृढतरचित्तैकाग्र्यपरिपूर्णं शीलं स्वभावो यस्य तादृशो योगी तदुपरि निरुक्ताज्ञाचक्रस्योर्द्ध्वे यदा महानादरूपं महानादस्य रूपं स्वरूपं पश्येत्, तदा तस्य करतलकमले सदैव वाचां सिद्धिर्भूयादिति सम्बन्धः | महानादरूपं निरूपयति लयस्थानमित्यादिना | वायोर्लयस्थानं महानादादेव वायोरुत्पत्तेः कारणभूते महानाद एव तस्य लयसम्भवादित्यर्थः | तथा शिवार्द्ध्वम् अत्र शिवोऽर्द्धनारीश्वरस्तदर्धं शक्तिस्तद्रूपं शक्तिरूपमित्यर्थः, तथा शिवाकारं शिवरूपम् | एवञ्च शिवार्द्धशिवाकारमित्येताभ्यां शिवशक्तिमयोऽयं नाद इत्युक्तं भवति | तदुक्तं शारदायां प्रथमपटले बिन्दुः शिवात्मको बीजं शक्तिर्नादस्तयोर्मिथः | समवायः समाख्यातः सर्वागमविशारदैः || इति | राघवभट्टेनापि एवमालोक्य सर्गादौ सच्चिदानन्दरूपिणीम् | समस्ततत्त्वसङ्घातस्फूर्त्यधिष्ठानरूपिणीम् | व्यक्तां करोति नित्यां तां प्रकृतिं परमः पुमान् || इति पाञ्चरात्रवचनमुल्लिख्य तस्या एव नादबिन्दू सृष्ट्युपयोगावस्थारूपौ इत्यभिधाय, (प्. २१३) (सहस्रारपद्मम्) तदूर्द्ध्वे शङ्खिन्या निवसति शिखरे शून्यदेशे प्रकाशं विसर्गाधः पद्मं दशशतदलं पूर्णपूर्णेन्दुशुभ्रम् | अधोवक्रं कान्तं तरुणरविकलाकान्तकिञ्जल्कपुञ्जं ललाटाद्यैर्वर्णैः परिलसितवपुःकेवलानन्दरूपम् || ४१ || ________________________________________________________________ नादात्मना प्रबुद्धा सा निरामयपदोन्मुखी | शिवोन्मुखी यदा शक्तिः पुंरूपा सा तदा स्मृता || इत्युक्तम् | सा तत्त्वसंज्ञा चिन्मात्रज्योतिषः सन्निधेस्तदा | विचिकीर्षुर्घनीभूता क्वचिदभ्येति बिन्दुताम् | इति राघवभट्टधृतवचनेनापि शिवशक्त्योरभेद एव प्रतिपद्यते | शान्तं सौम्यमूर्तिम्, तथा शुद्धबुद्धिप्रकाशं शुद्धाया ज्ञानोज्ज्वलाया बुद्धेः प्रकाशो यस्मात् तथाभूतं ब्रह्मज्ञानसम्पादकमित्यर्थः | ४१ | अथ शिरसि स्थितं सहस्रदलकमलं निरूपयति तदूर्द्ध्वे इति | निरुक्तमहानादोर्द्ध्वे शङ्खिन्यास्तन्नामकनाड्याः शिखरे अग्रभागे शून्यदेशे शून्याकारस्थाने तथा विसर्गाधः ब्रह्मरन्ध्रस्थिताद् विसर्गात् प्रकृतेरधःप्रदेशे दशशतदलं सहस्रदलं पद्मं निवसतीति सम्बन्धः | विसर्गस्य ब्रह्मरन्ध्रे स्थितिमाह कङ्कालमालिनीतन्त्रे द्वितीयपटले ततो वायुर्महानादो ब्रह्मरन्ध्रं ततः परम् | तस्मिन् रन्ध्रे विसर्गञ्च नित्यानन्दं निरञ्जनम् || इति | विसर्गस्य प्रकृतिवाचकत्वन्तु बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिः स्मृतः | इत्यनेन पूर्वमेव [१|१|टी०] प्रदर्शितम् | पद्मं विशेषयति-प्रकाशमित्यादिभिः | प्रकाशं प्रकाशस्वरूपम् | शून्यदेशप्रकाशमिति पाठे तु शून्यदेशे प्रकाशो यस्य तथाभूतमित्यर्थः | तथा पूर्णपूर्णेन्दु (प्. २१४) (तत्कर्णिकायां चन्द्रमण्डलं तदन्तस्त्रिकोणं तदन्तः परंबिन्दुश्च) समास्ते तस्यान्तः शशपरिरहितः शुद्धसम्पूर्णचन्द्रः स्फुरज्ज्योत्स्नाजालः परमरसचयस्निग्धसन्तानहासः | त्रिकोणं तस्यान्तः स्फुरति च सततं विद्युदाकाररूपं तदन्तः शून्यं तत् सकलसुरगणैः सेवितञ्चातिगुह्यम् || ४२ || _________________________________________________________________ शुभ्रं परिपूर्णचन्द्रवदतिशयशुक्लवर्णम् | तदुक्तं कङ्कालमालिनीतन्त्रे द्वितीयपटले सहस्रारं नित्यपद्मं शुक्लवर्णमधोमुखम् || इति | निर्वाणतन्त्रे दशमपटले तु सहस्रारं प्रकृत्य शुक्लं रक्तं तथा पीतं कृष्णं हरितमेव च | नानाविचित्ररूपेण नानावर्णेन शोभितम् || शुक्लं क्षणे क्षणे रक्तं क्षणे पीतं सुशोभनम् | कस्मिन् क्षणे कृष्णवर्णं हरितं वर्णमुत्तमम् || चित्ररूपञ्च चार्वङ्गि धत्ते कस्मिन् क्षणे प्रिये | एवं नानाविधैर्देवि तत् पद्मं शोभितं सदा || इत्यादिना तस्य क्षणभेदेन वर्णभेदानाह | अधोवक्त्रमधोमुखम् | कान्तं कमनीयाकृतिम् | तथा तरुणरविकलाकान्तकि~जल्कपुञ्जम्, तरुणस्य रवेर्याः कलाः प्रातःकालीनसूर्यमरीचयः तद्वत् कान्तः कमनीयो रक्तभास्वर इत्यर्थः किञ्जल्कपुञ्जः केशरसमूहो यस्य तथाभूतम्, तथा ललाटाद्यैः ललाटादिषु विन्यस्तैरकारादिक्षकारान्तैः पञ्चाशद्वर्णैः प्रविलसितं वपुर्यस्य तादृशम् | मातृकान्यासे ललाटे अंनम इत्यादिक्रमदर्शनाल्ललाटद्यैरित्यनेनाकाराद्यैरित्यर्थो लभ्यते | व्यक्तमाह कङ्कालमालिनीतन्त्रे द्वितीयपटले सहस्रारं प्रकृत्य अकारादिक्षकारान्तैः स्फुरद्वर्णैर्विराजितम् | इति | तथा शाक्तानन्दतरङ्गिण्यां चतुर्थोल्लासे मातृकाक्षरसम्भूतं सहस्रारं सरोरुहम् | इति | तथा केवलानन्दरूपं निरवच्छिन्नानन्दस्वरूपं तत् पद्ममित्यर्थः | अत्रेदमवधेयम् पद्मेऽस्मिन् पत्राणां विंशतिरावर्तनानि, प्रत्यावर्तनञ्च पञ्चाशत् पत्राणि, तेषु प्रतिपञ्चाशत्पत्रेषु अकारादिक्षकारान्ताः पञ्चाशद्वर्णाः शोभन्त इति | ४२ | एतत्पद्मकर्णिकायां चन्द्रमण्डलावस्थितिमाह-समास्त इति | तस्य (प्. २१५) (परंबिन्दोर्गोप्यत्वं परमशिवस्थितिश्च) सुगोप्यं तद् यत्नादतिशयपरमामोदसन्तानराशेः परं कन्दं सूक्ष्मं सकलशशिकलाशुद्धरूपप्रकाशम् | इह स्थाने देवः परमशिवसमाख्यानसिद्धिप्रसिद्धः स्वरूपी सर्वात्मा रसविरसमितोऽज्ञानमोहान्धहंसः || ४३ || ________________________________________________________________ पद्मस्यान्तर्मध्ये कर्णिकायामित्यर्थः | शशपरिरहितः अत एव शुद्धो निर्मलः संपूर्णचन्द्रः चन्द्रमण्डलं समास्ते | चन्द्रं विशेषयति स्फुरदिति | स्फुरज्ज्योत्स्नाजालः स्फुरन्ति ज्योत्स्नाजालानि यस्मात् तथाभूतः | तथा परमरसचयस्निग्धसन्तानहासः परमरसचयेन परमामृतसमूहेन स्निग्धः सन्तानो विस्तारो यस्य तथाभूतो हासो विकाशो यस्य तादृशः परमरमणीयामृतप्रवाहेणानन्दं जनयन्नित्यर्थः | निरुक्तचन्द्रमण्डलाभ्यन्तरे ध्येयं त्रिकोणमाह-त्रिकोणमिति | तस्यान्तश्चन्द्रमण्डलमध्ये विद्युदाकाररूपं विद्युत्सदृशदीप्तिमत् त्रिकोणं समास्ते | तदन्तरिति तस्य त्रिकोणस्यान्तर्मध्ये अतिगुह्यं यथा स्यात्तथा सकलसुरगुणैः सेवितं शून्यं परंबिन्दुरूपं स्फुरतीति सम्बन्धः | ४३ | सुगोप्यमिति | तन्निरुक्तं शून्यं यत्नात् सुगोप्यं साधकैर्यस्मै कस्मैचिन्न प्रकाशनीयमित्यर्थः | शून्यं विशेषयति अतिशयेति | अतिशयपरमामोदसन्तानराशेः अतिशयः परमामोदसन्तानराशिर्यत्र तस्य महामोक्षस्येत्यर्थः, परं कन्दं प्रधानमूलभूतम् | सूक्ष्मं दुर्लक्ष्यम्, तथा सकलशशिकलाशुद्धरूपप्रकाशम्, अत्र कलाशब्देन वक्ष्यमाणा निर्वाणकला गृह्यते, तथाच कलया निर्वाणकलया सह वर्तमाना या शशिकला तया शुद्धरूपः प्रकाशो यस्य तथाभूतम् | सूक्ष्मतमस्यापि निरुक्तपरंबिन्दुरूपस्य प्रागुक्तत्रिकोणान्तःस्थिताभ्याममाकलानिर्वाणकलाभ्यां प्रकाशो भवतीत्यर्थः | एतत्कर्णिकायां परमशिवस्य स्थितिमाह-इहेति | इह स्थाने एतत्पद्मकर्णिकान्तः स्थितचन्द्रमण्डलमध्यवर्तिनो हंसपीठापरनाम्नोऽन्तरात्मन उपरि इत्यर्थः, परमशिवसमाख्यानसिद्धिप्रसिद्धः परमशिव इति यत् समाख्यानं तस्य या सिद्धिः सर्वतन्त्रेषु निष्पत्तिः तया प्रसिद्धः परमशिव इति नाम्ना ख्यात इत्यर्थः | देवः यतेः स्वात्मज्ञानं दिशतीति परेण सम्बन्धः | परमशिवं विशेषयति स्वरूपीत्यादिना | (प्. २१६) स्वरूपी परब्रह्मरूपः सर्वात्मा सर्वेषामात्मा जीवात्मस्वरूपः | अत्र स्वरूपी सर्वात्मेति पदद्वयेन सर्वजीवात्मस्वरूपोऽपि परमात्मस्वरूपं न जहातीति प्रतिपादितम् | तथा रसविरसमितः रसं परमानन्दरसं विरसं तद्विलक्षणं शिवशक्तिसामरस्यानन्दरसञ्च इतः प्राप्तः | स्वरूपेणावस्थितोऽपि शक्तिसमागमरसमनुभवतीत्यर्थः | अयमेव परशिवः श्रीगुरुस्वरूप इति प्रथमश्लोकव्याख्याने प्रतिपादितं परश्लोके च प्रतिपादयिष्यते | अत्र शाक्तानन्दतरङ्गिण्यां चतुर्थोल्लासे आज्ञाचक्रमभिधाय- तदूर्द्ध्वे तु महेशानि पद्ममूर्द्ध्वमुखं सदा | तस्योपरि महेशानि ध्यायेत् सदाशिवं प्रभुम् | इति वचनमभिधाय ऊर्द्ध्वमुखमिति अधोमुखसहस्रदलपद्मान्तर्गतोर्द्ध्वमुखद्वादशदलपद्मोपरि सदाशिवं ध्यायेदित्युक्तम् | पादुकापञ्चकस्तोत्रेऽपि ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् | इत्यादिना तस्य कन्दलितकर्णिकापुटे कॢप्तरेखमकथादिरेखया | इत्यादिना चाधोमुखसहस्रदलकमलस्याधस्तादूर्द्ध्वमुखद्वादशदल- कमलकर्णिकान्तरकथादित्रिकोणे श्रीगुरुरूपस्य परमशिवस्य स्थितिमाह | परन्तु शाक्तानन्दतरङ्गिण्यां चतुर्थोल्लासेऽन्यत्र सहस्रारं महापद्मं नादबिन्दुत्रयान्वितम् | अकथादित्रिरेखासु हलक्षत्रयकोणके || तन्मध्ये परबिन्दुञ्च सृष्टिस्थितिलयात्मकम् | वामावर्तेन विलिखेदकथादि त्रिकोणकम् || इत्यादिना सहस्रारान्तरे शून्ये दिव्यतोरणशोभिते | इत्यादि-पूर्वोपदर्शितमहाकालीतन्त्रप्रथमपटलवचनेन च सहस्रारपद्म एव परमशिवस्य स्थितिरुक्ता | एवञ्च विभिन्नतन्त्रपर्यालोचनया प्रस्थानद्वयावगतेः स्वस्वगुरुसम्प्रदायानुसारेणैकतरः कल्पः समाश्रयणीय इति सिद्धान्तः | श्रीभगवत्पूर्णानन्दपरमहंसपादानान्तु सहस्रार एव परमशिवस्य स्थितिरभिमता, मूले द्वादशदलकमलस्य लेशतोऽप्यनभिधानादित्यवधेयम् | (प्. २१७) सुधाधारासारं निरवधि विमुञ्चन्नतितरां यतेः स्वात्मज्ञानं दिशति भगवान् निर्मलमतेः | समास्ते सर्वेशः सकलसुखसन्तानलहरी- परीवाहो हंसः परम इति नाम्ना परिचितः || ४४ || ________________________________________________________________ ४४ | सुधाधारासारमिति | निरुक्तः परमशिवः सुधाधारासारं सुधाधारा अमृतप्रवाहः तद्वत् सारं श्रेष्ठं मन्त्रात्मकवाक्यमित्यर्थः | एवञ्च सुधाधारासारम् अमृतवदानन्दविधायकं वाक्यं मन्त्रात्मकं निरवधि सर्वदा अतितरां साधकानां पुरुषार्थलाभाय विमुञ्चन् श्रीगुरुरूपेणोच्चरन् निर्मलमतेः परमानुरक्तिसहकृतश्रीगुरुचरणसेवाविशुद्धचेतसो यतेः साध्यदेवतायां नियतमनसः साधकस्य स्वात्मज्ञानं स्वं जीवात्मा, आत्मा परमात्मा तयोर्ज्ञानं तत्त्वमसीत्यादिश्रुतिसिद्धं जीवात्मपरमात्मनोरभेदज्ञानं दिशति उपदिशतीत्यर्थः | अत्रेदमवधेयम् निरुक्तः परशिव एव श्रीगुरुरूपो दीक्षागुरुरूपेण धरायामवतीर्यामृतमयतत्तदुपास्यदेवतातत्तन्मन्त्रदीक्षया साधकानां परमपुरुषार्थं निर्वर्तयतीति | एतच्च मनुष्यचर्मणा नद्धः साक्षात् परशिवः स्वयम् | इत्यादि-कुलार्णवत्रयोदशपटलोक्तैरन्यैश्च प्रमाणैर्विस्तरतः प्रतिपादितं दशशतदलपद्मप्रोल्लसत्पूर्णचन्द्र इत्यादि-प्रथमप्रकाशप्रथमश्लोकटीयायामस्माभिरिति नेह प्रपञ्च्यते | समास्त इति | परमशिवस्याधस्तात् सर्वेशः सर्वेषामीश्वरः हंसः पुंप्रकृत्यात्मकोऽन्तरात्मा समास्ते | पुंप्रकृत्यात्मकान्तरात्मनो हंसत्वन्तु एतद्ग्रन्थप्रथमश्लोकव्याख्याने हंकारो बिन्दुरित्युक्तो विसर्गः स इति स्मृतः | इत्यादि-प्रपञ्चसारवचनेनोपपादितम् | हंसः कीदृश इत्यत आह- सकलसुखसन्तानलहरीपरीवाहः सकलसुखानां यः सन्तानो विस्तारः तस्य या लहरी श्रेणी तस्याः परीवाहो निःसरणं यस्मात् तथाभूतः निरवच्छिन्नप्रचुरसुखसम्पादक इत्यर्थः | एतेन तत एव विलक्षणसुखपरीवाहस्योदयात्तस्यापि तादृशसुखमयत्वमुन्नेयम्, धनधातुः प्रचुरतरधनशालित्ववत् | तथा परम इति नाम्ना परिचितः | परम इति तस्य नामान्तरं परमहंस इति वा | (प्. २१८) (एतत्पद्मकर्णिकायां सर्वेषां देवानामवस्थितिः) शिवस्थानं शैवाः परमपुरुषं वैष्णवगणा लपन्तीति प्रायो हरिहरपदं केचिदपरे | पदं देव्या देवीचरणयुगलानन्दरसिका मुनीन्द्रा अप्यन्ये प्रकृतिपुरुषस्थानममलम् || ४५ || (एतत्पद्मज्ञानफलम्) इह स्थानं ज्ञात्वा नियतनिजचित्तो नरवरो न भूयात् संसारे पुनरपि न बद्धस्त्रिभुवने | समग्रा शक्तिः स्यान्नियतमनसस्तस्य कृतिनः सदा कर्तुं हर्तुं खगतिरपि वाणी सुविमला || ४६ || ________________________________________________________________ ४५ | एतदेव सर्वदेवतानिवासस्थानमित्याह-शिवस्थानमिति | शैवाः शिवोपासका एतत् शिवस्थानमिति लपन्ति, वैष्णवगणाः परमपुरुषस्य विष्णोः स्थानमिति लपन्ति | अपरे हरिहरोभयोपासका हरिहरपदमेतदिति लपन्ति, देवीचरणयुगलानन्दरसिकाः शाक्ता इत्यर्थः, देव्याः पदं स्थानमिति लपन्ति, अन्ये मुनीन्द्रा योगिश्रेष्ठा अपि एतदमलं प्रकृतिपुरुषस्थानमेतदिति लपन्तीत्यर्थः | एतेन स्वस्वोपास्यानां सर्वेषामेव देवानां स्थानमेतदित्यवगन्तव्यम् | ४६ | एतत्पद्मज्ञानफलमाह इहेति | इह अस्मिन् सहस्रदलकमले स्थानम् इष्टदेवतावस्थितिं ज्ञात्वा, स्वेष्टदेवतावस्थितिरत्रैवेति विदित्वेत्यर्थः | अत्र इदं स्थानं ज्ञात्वेति कालीचरणधृतः पाठः | नियतनिजचित्तः नियतं स्वस्वाभीष्टदेवे नियुक्तं निजचित्तं येन तादृशो नरवरः साधकश्रेष्ठः न भूयात् संसारे पुनर्जन्मपरिग्रहं न करोतीत्यर्थः, तत्र हेतुमाह बद्धस्त्रिभुवने इति स्वर्गे मर्त्ये पाताले वा बद्धो न भवति शुभाशुभसकलकर्मक्षयाद् भोगहेतुभूतकर्मान्तरानुदयाच्चेति भावः | तथा तस्य कृतिनः सदा कर्तुं स्वाभीष्टकार्याणि सम्पादयितुं हर्तुमनभीष्टानि परिहर्तुञ्च समग्रा सकलकार्यसम्पादिका शक्तिः स्यात् | तथा तस्य खगतिराकाशगमनं सुविमला वाणी च स्यादिति सम्बन्धः | (प्. २१९) (एतत्पद्मकर्णिकान्तस्त्रिकोणे चन्द्रकलायाः स्थितिः) अत्रास्ते शिशुसूर्यसोदरकला चन्द्रस्य सा षोडशी शुद्धा नीरजसूक्ष्मतन्तुशतधाभागैकरूपा परा | विद्युद्दामसमानकोमलतनुर्नित्योदिताधोमुखी पूर्णानन्दपरम्परातिविगलत्पीयूषधाराधरा || ४७ || (तच्चन्द्रकलान्तर्निर्वाणकलायाः स्थितिः) निर्वाणाख्यकला परात् परतरा साऽस्ते तदन्तर्गता केशाग्रस्य सहस्रधा विभजितस्यैकांशरूपा सती | भूतानामधिदैवतं भगवती नित्यप्रबोधोदया चन्द्रार्द्धाङ्गसमानभङ्गुरवती सर्वार्कतुल्यप्रभा || ४८ || ________________________________________________________________ ४७ | निरुक्तसहस्रदलकमलान्तर्वर्तित्रिकोणे अमाकलावस्थितिमाह-अत्रास्त इति | अत्र कर्णिकान्तस्त्रिकोणे सा प्रसिद्ध चन्द्रस्य षोडशभागैकभागरूपा शिशुसूर्यसोदरकला प्रातःकालीनसूर्यसदृशी रक्तवर्णेत्यर्थः अमानाम्नी कला आस्ते | अमाकलास्वरूपमाह तिथितत्त्वधृतस्कन्दपुराणीयप्रभासखण्डे- अमा षोडशभागेन देवि प्रोक्ता महाकला | संस्थिता परमा माया देहिनां देहधारिणी || इति | कलां विशेषयति शुद्धेति | शुद्धा कलङ्करहिता | नीरजेति | नीरजसूक्ष्मतन्तोरतिसूक्ष्ममृणालसूत्रस्य शतधाभागैकरूपा शतभागैकभागरूपा तथा परा परशक्तिरूपा | विद्युद्दामसमानकोमलतनुः विद्युन्मालासदृशकोमलोज्ज्वलकान्तिविशिष्टा | नित्योदिता क्षयोदयरहितत्वान्नित्यप्रकाशशालिनीत्यर्थः | अधोमुखी अधोवक्रा | पूर्णा व्यापिनी आनन्दपरम्परा अविच्छिन्नानन्दधारा यस्याः सा | तथा अतिविगलन्तीं पीयुषधारां धरतीति तथाभूता प्रचुरामृतस्राविणीत्यर्थः | एवंभूता अमानाम्नी कला सहस्रदलकमलकर्णिकान्तस्त्रिकोणे वर्तत इत्यर्थः | ४८ | अमाकलान्तर्वर्तिनीं निर्वाणकलामाह निर्वाणेति | तदन्तर्गता तस्या अमाकलाया अन्तर्गता सा मुक्तिदातृत्वेन प्रसिद्धा निर्वाणकला आस्ते | निर्वाण (प्. २२०) (तदन्तर्बिन्दुस्वरूपाया निर्वाणशक्तेरवस्थितिः) एतस्या मध्यदेशे विलसति परमापूर्व निर्वाणशक्तिः कोट्यादित्यप्रकाशा त्रिभुवनजननी कोटिभागैकरूपा | केशाग्रस्यातिगुह्या निरवधिविगलत्प्रेमधाराधरा सा सर्वेषां जीवभूता मुनिमनसि मुदा तत्त्वबोधं वहन्ती || ४९ || ________________________________________________________________ दायिनी कला प्रकृतिरिति निर्वाणकलाशब्दनिरुक्तिः | तां विशेषयति | परादिति, परात् परतरा श्रेष्ठा | परा परतरेति कालीचरणधृतः पाठः | तत्र तु परा अमाकला ततः परतरा निर्वाणकलेत्यर्थः | सहस्रधाविभजितस्य केशाग्रस्य एकांशरूपा केशाग्रसहस्रभागैकभागरूपा अतिशयसूक्ष्मेत्यर्थः | अत्र विभजितस्येति छन्दोऽनुरोधादाकारलोप आर्षः | सती अतिसूक्ष्मतया दुर्विज्ञेयत्वेऽपि सर्वतन्त्रसिद्धत्वात् सद्रूपा | भूतानां प्राणिनामधिदैवतं चैतन्यस्वरूपा | नित्यप्रबोधोदया नित्यप्रबोधो ब्रह्मज्ञानं तस्य उदयो यस्या ब्रह्मज्ञानदायिनीत्यर्थः | चन्द्रार्द्धाङ्गसमानभङ्गुरवती अर्द्धचन्द्रवत् कुटिलाकारा | तथा सर्वार्कतुल्यप्रभा द्वादशादित्यसदृशप्रकाशशालिनीत्यर्थः | अमाकला-निर्वाणकलयोः स्वरूपमाह कङ्कालमालिनीतन्त्रे द्वितीयपटले अत्र नित्योदिता वृद्धिक्षयहीना अमाकला | तन्मध्ये कुटिला निर्वाणाख्या सप्तदशी कला || इति | ४९ | निर्वाणकलान्तर्निर्वाणशक्तेरवस्थितिमाह एतस्या इति | एतस्या निर्वाणकलाया मध्यदेशे परमा परब्रह्मस्वरूपा तथा अपूर्वा नास्ति पूर्व यस्याः सा निखिलप्रपञ्चसृष्टेरादौ वर्तमानत्वादित्यर्थः निर्वाणशक्तिः विलसतीति सम्बन्धः | निर्वाणशक्तिं विशेषयति कोट्यादित्यप्रकाशा अनन्तादित्यसदृशदीप्तिशालिनी, तथा त्रिभुवनजननी स्वर्गमर्त्त्यपातालरूपभुवनत्रयप्रसविनी | तथा केशाग्रस्य कोटिभागैकरूपा सूक्ष्मतमेत्यर्थः | अत एवातिगुह्या सूक्ष्मतया दुर्विज्ञेया | निरवधिविगलत्प्रेमधाराधरा निरवधि अनवरतं विगलन्ती स्रवन्ती या प्रेमधारा सामरस्यानन्दजनिता परमामृतधारा तां धरतीति तथाभूता | सर्वेषामिति, सर्वेषां प्राणिनां जीवभूता जीवात्मस्वरूपा | तथा मुदा हर्षेण मुनिमनसि योगिनां हृदये तत्त्वबोधं वहन्ती परं बिन्दुरूपा निर्वाणशक्तिर्विलसतीत्यन्वयः | (प्. २२१) (निर्वाणशक्तेरन्तः परब्रह्मस्थानम्) तस्या मध्यान्तराले शिवपदममलं शाश्वतं योगगम्यं नित्यानन्दाभिधानं सकलसुखमयं शुद्धबोधप्रकाशम् | केचिद् ब्रह्माभिधानं पदमिति सुधियो वैष्णवं तल्लपन्ति केचिद्धंसाख्यमेतत् किमपि सुकृतिनो मोक्षवर्त्मप्रबोधम् || ५० || (कुण्डलिन्युत्थापनक्रमः) हूङ्कारेणैव देवीं यमनियमसमभ्यासशीलः सुशीलो ज्ञात्वा श्रीनाथवक्त्रात् क्रममपि च महामोक्षवर्त्मप्रकाशम् | ________________________________________________________________ अत्र एतस्या मध्यदेशे इत्यनेन निर्वाणकलान्तर्निर्वाणशक्तिस्थितेरभिधानेऽपि नादोपरि तस्याः स्थितिरित्यवधेयम् | तदुक्तं कङ्कालमालिनीतन्त्रे द्वितीयपटले निर्वाणाख्यान्तरगता वह्निरूपा निबोधिका | नादोऽव्यक्तस्तदुपरि कोट्यादित्यसमप्रभा | निर्वाणशक्तिः परमा सर्वेषां योनिरूपिणी || इति | ५० | निरुक्तनिर्वाणशक्त्यन्तः शिवस्थानमाह तस्या इति | तस्या निर्वाणशक्त्या मध्यान्तराले अभ्यन्तरस्थशून्ये अमलं निर्मलं मायामलरहितमित्यर्थः, शिवपदं परब्रह्मस्थानं वर्तते | तस्य स्वरूपमाह शाश्वतं नित्यस्वरूपम्, योगिगम्यं योगिभिः स्वनुष्ठितयोगमात्रवेद्यं नित्यानन्दाभिधानं नित्यश्चासावानन्दश्चेति नित्यानन्दः तत्स्वरूपत्वान्नित्यानन्द इत्यभिधानं लोकव्यवहारो यस्य तत्, सच्चिदानन्दं ब्रह्मेत्यादिश्रूतेर्नित्यानन्द इति नाम्नैव साधकास्तं कीर्तयन्तीत्यर्थः | तथा सकलसुखमयं सकलानां सुखमयं सर्वे साधकाः सुखमयत्वेनैव तदनुभवन्तीत्यर्थः | तथा शुद्धबोधप्रकाशं शुद्धबोधस्य तत्त्वज्ञानस्य प्रकाशो यस्मात् तत्, शुद्धं बोधं प्रकाशयतीति शुद्धबोधप्रकाशमिति वा | सम्प्रदाअयभेदेनास्य संज्ञाभेदानाह केचिदिति | केचित् सुधियो वैदान्तिकाः तत् शिवपदं परब्रह्माभिधानं लपन्ति कथयन्ति | अपरे वैष्णवाः तद्वैष्णवं पदं लपन्ति | केचित् योगिनस्तत् हंसाख्यं हंसनामकं लपन्ति | अन्ये तु किमपि अनिर्वचनीयम् आत्मप्रबोधम् आत्मसाक्षात्कारस्थानं मोक्षरूपमालपन्तीत्यर्थः | एवञ्च सम्प्रदायभेदेन संज्ञाभेदेऽपि शैवशाक्तवैष्णवादीनां सर्वेषामेवोपासकानां चरमलक्ष्यभूतं पदमिदमित्यवधेयम् | (प्. २२२) ब्रह्मद्वारस्य मध्ये विरचयति सतां शुद्धबुद्धस्वभावो भित्त्वा तल्लिङ्गरूपं पवनदहनयोराक्रमेणैव तप्ताम् || ५१ || _________________________________________________________________ ५१ | एवं सहस्रदलकमलपर्यन्तमभिधाय सहस्रारे कुण्डलिन्या उत्थापनस्य क्रममुपदिशति हुङ्कारेणेति | यमनियमसमभ्यासशीलः यमानां अहिंसा सत्यास्तेयब्रह्मचर्यापरिग्रहा यमा इत्युक्तलक्षणानां नियमानां शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमा इत्युक्तलक्षणानाञ्च योगाङ्गानां यः समभ्यासः सम्यग् दीर्घकालादरनैरन्तर्यसत्कारपूर्वकमनुष्ठानं तदेव शीलं यस्य तथाभूतः अनवरतकठोरतरयोगाभ्यासपरायण इत्यर्थः सुशीलः योगप्रतिबन्धकीभूतानुष्ठानपरित्यागेन शिष्टतया प्रसिद्धयोगी श्रीनाथवक्त्राद् गुरुमुखान् महामोक्षवर्त्मप्रकाशं महामोक्षवर्त्मनो निर्वाणमुक्तिमार्गस्य प्रकाशो यस्मात् तादृशं क्रमं मुलाधारतः सहस्रारे कुण्डलिन्युत्थापनस्येतिकर्तव्यतां ज्ञात्वा शुद्धबोधस्वभावः शुद्धबोधे केवलज्ञानस्वरूपे परे ब्रह्मणि स्वो भावो यस्य तथाभूतः श्रीगुरुकृपया स्वयं ब्रह्मरूपतामापन्न इत्यर्थः | तां प्रसिद्धां देवीं कुण्डलिनीं पवनदहनयोराक्रमेणैव पवनः पूरकयोगेण देहाभ्यन्तरे समाहृतः कुम्भकयोगेन धृतश्च, दहनः निरुक्तपवनोद्दिप्तो मूलाधारकर्णिकान्तर्गतत्रिकोणस्थः कामाग्निः, तयोराक्रमणेन तप्तां तां प्रसिद्धां देवीं मूलाधारस्थितां कुण्डलिनीं स्वयम्भूलिङ्गं वेष्टयित्वा स्थितां सार्द्धत्रिवलयाकारां प्रसुप्तभुजगरूपिणीं जागरयित्वेत्यर्थः तल्लिङ्गरूपं स्वयम्भूलिङ्गच्छिद्रं भित्त्वा ब्रह्मद्वारस्य ब्रह्मद्वारं तदास्ये प्रविलसति सुधासाररम्यप्रदेशम् इत्येतत्प्रकाशीयतृतीयश्लोकोक्तस्य ब्रह्मनाडीमुखस्थितस्य मध्ये विरचयति स्थापयतीत्यर्थः | ब्रह्मनाडी तु तृतीयश्लोकेऽभिहिता | यत्तु केनचित् टीकाकारेण नड् गतावितिधातोर्नाडीति पदं निष्पाद्य ब्रह्मनाडीशब्दस्य कुण्डलिन्याः परमशिवसन्निधिगमनपथरूपचित्रिणीनाड्यन्तर्गतशून्यभाग इत्यर्थममूलकं कल्पयित्वा न तु चित्रिणीमध्ये नाड्यन्तरमस्तीति निष्कर्ष इत्युक्तम् तन्न ईडा च पिङ्गला चैव सुषुम्णा चित्रिणी तथा | ब्रह्मनाडी च तन्मध्ये पञ्च नाड्यः प्रकीर्तिताः || इति तोडलतन्त्राष्टमोल्लासवचनेन निरुक्तानां पञ्चानामन्यतमत्वेन ब्रह्मनाड्या निरूपणात् | कुण्डलिन्याः स्वरूपन्तु पूर्वमेवोपदर्शितम् | श्लोकेनानेन मूलाधाराद् ब्रह्मद्वारपर्यन्तं कुण्डलिन्या उत्थापनक्रमो दर्शितः | हूङ्कारेण कुण्डलिन्या उत्थापनस्य क्रममाह शाक्तानन्दतरङ्गिण्यां चतुर्थोल्लासे (प्. २२३) (कुण्डलिनीयोगप्रकारः) भित्त्वा लिङ्गत्रयं तत् परमरसशिवे सूक्ष्मधाम्नि प्रदीप्ते सा देवी शुद्धसत्त्वा तडिदिव विलसत्तन्तुरूपा सुसूक्ष्मा | ब्रह्माख्यायाः शिरायाः सकलसरसिजं प्राप्य देदीप्यते तन्- मोक्षाख्यानन्दरूपं घटयति सहसा सूक्ष्मतालक्षणेन || ५२ || _______________________________________________________________ हूङ्कारवर्णसम्भूता कुण्डली परदेवता | विभर्ति कुण्डली देहमात्मानं हंसमन्त्रतः || प्रवृद्धवह्निसंयोगे मनसा मारुतैः सह | ऊर्द्ध्व नयेत् कुण्डलिनीं जीवात्मसहितां पराम् || इति | तथा- षट्चक्रसन्धिमार्गेण सुषुम्णावर्त्मना तथा | हंसेन मनुना देवीं सहस्रारं समानयेत् || इति | अत्र हुङ्कारेणैवेत्यादिपूर्ववचनेन हूङ्कारेण कुण्डलिन्या उत्थपनमभिहितम् | षट्चक्रसन्धिमार्गेणेत्याद्यत्तरवचनेन तु हंसमन्त्रेणेति क्रमभेदो दृश्यते | कङ्कालमालिनीतन्त्रे द्वितीयपटले आकृष्य प्रणवेनैव जीवात्मानं नगेन्द्रजे | कुण्डलिन्या सह प्राणं गन्धमादाय साधकः | सोऽहन्तु मनुना देवीं स्वाधिष्ठानं समानयेत् || इत्यनेन हृदयाज्जीवात्मानं प्रणवेन मूलाधारे नीत्वा हंसमन्त्रेण जीवात्मना सह कुण्डलिन्या उत्थापनमुपदिष्टम् | हृदयाद्धंसमनुना नीत्वा जीवं मुखाम्बुजे | हूङ्कारेण समुत्थाप्य कुण्डलीं परदेवतात् || इति कालीकुलामृतवचनेन तु हंसमनुना जीवात्मनो मूलाधारनयनं हूङ्कारेण जीवात्मसहितायाः कुण्डलिन्या उत्थपनमिति लभ्यते | एवञ्च पूर्वपूर्वप्रमाणपर्यालोचनया प्रणवेन जीवात्मानं कुण्डलिन्यां नीत्वा हंसमन्त्रेणोत्थापनमित्येकः कल्पः, हंसमन्त्रेण जीवात्मानं तत्र नीत्वा हूङ्कारेणोत्थापनमित्यपर इत्यवगम्यते | ग्रन्थकृता तु हूङ्कारेणैवेत्येवकारेण द्वितीय एव कल्पः स्वाभिमतत्वेनोपदर्शित इति सिद्धान्तः | ५२ | अथ सहस्रारे कुण्डलिनीयोजनक्रममाह भित्त्वेति | सा देवी निरुक्त (प्. २२४) (प्रागुक्तबिन्दुमयशिवे कुलकुण्डलीयोजनक्रमः) नीत्वा तां कुलकुण्डलीं लयवशाज्जीवेन सार्द्धं सुधी- र्मोक्षे धामनि शुद्धपद्मसदने शैवे परे स्वामिनि | ध्यायेदिष्टफलप्रदां भगवतीं चैतन्यरूपां परां योगीशो गुरुपादपद्मयुगलालम्बी समाधौ यतः || ५३ || ________________________________________________________________ लक्षणा कुण्डलिनी तल्लिङ्गत्रयं मूलाधारचक्रस्थितं स्वयम्भूलिङ्गम्, अनाहतचक्रस्थं वाणाख्यलिङ्गम्, आज्ञाचक्रस्थम् इतराख्यलिङ्गञ्चेति त्रितयमित्यर्थः, भित्त्वा लिङ्गैरेतैः कृतं सहस्रारगमनपथसंरोधमपाकृत्य ब्रह्माख्यायाः शिराया निरुक्तब्रह्मनाड्याः सम्बन्धि सकलसरसिजं प्राप्य मूलाधारतः स्वाधिष्ठानं ततो मणिपुरं ततोऽनाहतमित्येवंक्रमेण निरुक्तपद्मानि गत्वा शुद्धसत्त्वा तुरीयचैतन्यस्वरूपा तथा तडिदिव विद्युत्सदृशदीप्तिशालिनी सूक्ष्मतालक्षणेन सूक्ष्मतास्वरूपेण विलसत्तन्तुरूपस्वरूपा विलसतः शोभमानस्य तन्तोर्मृणालसूत्रस्य रूपमिव स्वरूपं यस्याः तथाभूता सा देवी कुण्डलिनी प्रदीप्ते प्रकृष्टदीप्तिशालिनि, तथा सूक्ष्मधाम्नि सूक्ष्मं धाम तेजो यस्य तादृशे परमरसशिवे तस्या मध्यान्तराले शिवपदममलं शाश्वतं योगिगम्यम् इत्युक्तपरंबिन्दुरूपे शिवे परमशिवे इति वा | क्रमेण गत्वेत्यर्थः | सहसा मोक्षाख्यानन्दरूपं साधकानां निरवच्छिन्नानन्दरूपां मुक्तिं घटयति निर्वर्तयतीत्यर्थः | ५३ | अथ निरुक्तपरंबिन्दुरूपशिवे कुण्डलिनीयोजनस्य क्रममाह-नीत्वेति | गुरुपादपद्मयुगलालम्बी श्रीगुरुचरणसरोरूहैकशरणः समाधां चित्तवृत्तिनिरोधलक्षणे योगे यतः तदेकनिष्ठ इत्यर्थः, योगीशः योगिश्रेष्ठः तां निरुक्तलक्षणां कुलकुण्डलीं जीवेन सार्द्धं हृदयाद्धंसमनुना नीत्वा जीवं मुखाम्बुजे | इत्यादि पूर्वोपदर्शितकालीकुलामृतवचनानुसारेण अनाहतचक्रात् मूलाधारे नीतेन जीवेन जीवात्मना सार्द्धं शैवे परंबिन्दुरूपे परे श्रेष्ठे स्वामिनि स्वामिसमीपे | यद्वा परे शैवे परशिवरूपे स्वामिनि तत्सन्निधाने लयवशात् लयक्रमेण नीत्वा | स्वामिनः स्थानं विशेषणप्रदर्शनमुखेनाह शुद्धेति | शुद्धं पद्मं सहस्रारपद्मं सदनं यस्य तथाभूते सहस्रारवर्तिनीत्यर्थः, तथा मोक्षे धामनि मुक्तिसम्पादके स्थाने इत्यर्थः | जीवात्मना सह कुण्डलिन्या उन्नयनमाह शाक्तानन्दतरङ्गिण्यां चतुर्थोल्लासे (प्. २२५) प्रवृद्धवह्निसंयोगे मनसा मारुतैः सह | ऊर्द्ध्व नयेत् कुण्डलिनीं जीवात्मसहितां पराम् || इति | एवं सहस्रारे कुण्डलिनीयोगमभिधाय तस्या ध्यानप्रकारमाह ध्यायेदिति | इष्टफलप्रदां स्वाभीष्टफलदायिनीमिष्टदेवतारूपामित्यर्थः परां परंबिन्दुरूपां परशिवरूपां वा, तथा चैतन्यरूपाम्, एतेनास्याः परंबिन्दुरूपत्वचैतन्यरूपत्वयोः तद्रूपेण शिवेनाभिन्नरूपतां चिन्तयेदित्यर्थादुक्तं भवति | व्यक्तमाह शाक्तानन्दतरङ्गिण्यां चतुर्थोल्लासे कुण्डलिनीं प्रकृत्य मूलाधारान्महेशानि सहस्रारे समानयेत् | शम्भुगतां परां शक्तिमेकीभावं विचिन्तयेत् | ध्यायेत् कुण्डलिनीं तत्र इष्टदेवस्वरूपिणीम् || इति | अत्र मूले लयवशादित्युक्तम् | लयक्रमेणोन्नयनप्रकारस्तु मूलाधारकमलकर्णिकान्तर्गतत्रिकोणगह्वरस्थितायां कुण्डलिन्यामनाहतचक्राज्जीवात्मानं हंसमन्त्रेण समानीय निरुक्तत्रिकोणस्थितानामैन्द्रबीजब्रह्मकामदेवादीनां पृथिव्यां पृथिव्याश्च स्वकारणभूते गन्धतत्त्वे विलयं विधाय जीवात्मानं कुण्डलिनीं गन्धतत्त्वञ्च हूङ्कारेण स्वाधिष्ठाने विलापयेत् | तदुक्तं कङ्कालमालिनीतन्त्रे द्वितीयपटले मूलाधारपद्मं प्रकृत्य तत्कर्णिकायां देवेशि त्रिकोणमतिसुन्दरम् | तथा- त्रिकोणाख्ये तु देवेशि लङ्कारं चिन्तयेत्तथा | ब्रह्माणं तत्र सञ्चिन्त्य कामदेवञ्च चिन्तयेत् || इत्याद्यभिधाय एतानि गिरिजे मातः पृथ्वीं नीत्वा गणेश्वरि | तन्मध्ये लिङ्गरूपन्तु कुण्डलीवेष्टितं प्रिये || इत्यादिना स्वयम्भूलिङ्गकुण्डलिन्योः स्वरूपं निर्णीय पूर्वोक्तां पृथिवीं धन्यां गन्धे नीत्वा महेश्वरि | आकृष्य प्रणवेनैव जीवात्मानं नगेन्द्रजे || कुण्डलिन्या सह प्राणं गन्धमादाय साधकः | सोऽहन्तु मनुना देवि स्वाधिष्ठाने प्रवेशयेत् || इति | अत्र वचने यत् प्रणवेनाकर्षणं सोऽहमित्यनेनोत्थापनमुपदिष्टं तन्मतान्तरम्, नेदं पूर्णानन्दसम्मतमिति विस्तरतः प्रतिपादितं हूङ्कारेणैव देवीमित्याद्येकपञ्चाशत्तमश्लोकटीकायाम् | इति कुण्डलिन्याः स्वाधिष्ठानोन्नयनप्रक्रिया | (प्. २२६) ततश्च तत्र कर्णिकान्तःस्थितवारुणबीजविष्णुशक्त्यादीनां जले जलस्य च स्वकारणभूते रसतत्त्वे लयं विधाय तद्रसतत्त्वं जीवात्मानं कुण्डलिनीञ्च हूङ्कारेण मणिपूरे विलापयेत् | तदुक्तं तत्रैव तत्कर्णिकायां वरुणं तत्रापि भावयेद्धरिम् | युवानं राकिणीं शक्तिं चिन्तयित्वा वरानने || रसनेन्द्रियपूपस्थं जलञ्च कामलालसे | एतानि गन्धञ्च शिवे रसे नीत्वा वरानने || जीवात्मानं कुण्डलिनीं रसञ्च मणिपूरके | नीत्वा परमयोगेण तत् पद्मं दिग्भवं प्रिये || इति मणिपूरोन्नयनप्रक्रिया | ततश्च तत्कर्णिकान्तर्विलसद्वह्निबीजरुद्रलाकिनीशक्त्यादीनां तेजसि तेजसश्च स्वकारणभूते रूपतत्त्वे लयं विधाय तद्रूपतत्त्वं जीवात्मानं कुण्डलिनीञ्च अनाहतचक्रे विलापयेत् | तदुक्तं तत्रैवानाहतपद्मं प्रकृत्य तत्कर्णिकायां सुश्रोणि वह्निं सञ्चिन्त्य साधकः | तत्र रुद्रः स्वयं कर्ता संहारे सकलस्य च || लाकिनीशक्तिसंयुक्तं भावयेत्तं मनोहरम् | तत्र चक्षुरिन्द्रियञ्च ध्यात्वा तेजोमयं शिवे || एतद्रसञ्च सुभगे रूपे नीत्वा महाभगे | जीवात्मानं कुण्डलिनीं रूपञ्चानाहते नयेत् || इति | इति अनाहतोन्नयनप्रक्रिया | ततश्चानाहतचक्रकर्णिकान्तरालस्थवायुबीजेश्वरकाकिनी-शक्त्यादीनां वायौ वायोश्च स्पर्शतत्त्वे लयं विधाय तत् स्पर्शतत्त्वं जीवात्मानं कुण्डलिनीञ्च निरुक्तविशुद्धचक्रे विलापयेत् | तदुक्तं तत्रैव अनाहतचक्रं प्रकृत्य तत्कर्णिकायां वायुञ्च जीवस्थाननिवासिनम् | तत्र योनेर्मण्डलञ्च वाणलिङ्गविराजितम् || काकिनीशक्तिसंयुक्तं तत्र वायुं त्वगिन्द्रियम् | एतानि रूपं संयोज्य स्पर्शे त्वमलकारिणि | जीवं कुण्डलिनीं स्पर्शं विशुद्धे स्थापयेत्ततः || इति | इति विशुद्धचक्रोन्नयनप्रक्रिया | ततश्चैतत् षोडशदलकमलकर्णिकान्तरालस्थितानामाकाश-बीजसदाशिवशाकिनी- (प्. २२७) (पुनः कुण्डलिन्या मूलाधारप्रापणममृतधास्या स्वेष्टदैवततर्पणञ्च) लाक्षाभं परमामृतं परशिवात् पीत्वा ततः कुण्डली पूर्णानन्दमहोदयात् कुलपथान्मूले विशेत् सुन्दरी | तद्दिव्यामृतधारया स्थिरमतिः सन्तर्पयेद्दैवतं योगी योगपरम्पराविदितया ब्रह्माण्डभाण्डे स्थितम् || ५४ || ________________________________________________________________ शक्त्यादीनाम् आकाशे आकाशस्य च शब्दतत्त्वे लयं विधाय तच्छब्दतन्मात्रं जीवात्मानं कुण्डलिनीञ्च निरुक्ताज्ञाचक्रे विलापयेत् | तदुक्तं तत्रैव विशुद्धं प्रकृत्य तत्कर्णिकायामाकाशं शिवञ्च शाकिनीयुतम् | वाचं श्रोत्रञ्च आकाशे संस्थाप्य नगनन्दिनि || एतानि स्पर्शं शब्दे वै नीत्वा शङ्करि मत्प्रिये | जीवं कुण्डलिनीं शब्दमाज्ञाचक्रे निधापयेत् || इति | इत्याज्ञाचक्रोन्नयनप्रक्रिया | ततश्चाज्ञाचक्रकर्णिकान्तःस्थितानामितरशिवहाकिनी-शक्त्यादीनां सर्वेषां मनसि लयं विधाय जीवात्मानं कुण्डलिनीं मनश्च सहस्रारे नयेत् | तदुक्तं तत्रैव जीवात्मानं कुण्डलिनीं मनश्चापि महेश्वरि | सहस्रारे महापद्मे मनश्चापि (?) नियोजयेत् || इति | अत्र निरुक्तशब्दतत्त्वस्याहङ्कारेऽहङ्कारस्य महत्तत्वे महत्तत्त्वस्य हिरण्यगर्भाख्य सूक्ष्मप्रकृतौ तस्याश्च परबिन्दौ विलापनं कर्तव्यमिति लयक्रमः | तदुक्तं कालीचरणकृतषट्चक्रटीकाधृतमन्त्रतन्त्रप्रकाशे अहङ्कारे हरेद् व्योम सशब्दं तन्महत्यपि | महच्च सर्वशक्तीनामव्यक्ते कारणे परे || सच्चिदानन्दरूपं यद् वैष्णवं कारणं परम् | पृथिव्यादिक्रमात् सर्वं तत्र लीनं विचिन्तयेत् || इति | एवञ्च सर्वेषामेव पृथिव्यादीनां तदाश्रितानाञ्च स्वस्वकारणे लय इति फलितम् | ५४ | पुनः कुण्डलिन्याः सहस्रारान्मूलाधारप्रापणमाह-लाक्षाभमिति | ततः सा कुण्डलिनी परशिवात् लाक्षाभं लाक्षासदृशवर्णविशिष्टं परमामृतं परशिवसामरस्यामृतं पीत्वा नित्यानन्दमहोदयात् नित्यानन्दस्य महान् उदयो यत्र तथाभूतात् तस्मात्, कुलपथादिति ल्यब्लोपे पञ्चमी | निरुक्तसहस्रारगमनपथं प्राप्य पुनर्मूले मूलाधारचक्र (प्. २२८) रूपस्वावासस्थाने विशेत् प्रविशति | येन क्रमेण पूर्वं सहस्रारं गता तेनैव क्रमेण प्रत्यावृत्य पुनः सार्द्धत्रिवलायाकारेण स्वयम्भूलिङ्गं वेष्टयित्वा तिष्ठतीत्यर्थः | व्यक्तमाह शाक्तानन्दतरङ्गिण्यां चतुर्थपटले सहस्रारं प्रकृत्य सदाशिवो महादेवो यत्रास्ते परमेश्वरि | तत्र गत्वा महादेवी कुण्डली परदेवता || देवीं रूपवतीं कामसमुल्लासविहारिणीम् | मुखारविन्दगन्धेन मोदितं परमं शिवम् || प्रबोध्य परमेशानि तत्रोपरि वसेत् प्रिये | शिवस्य मुखपद्मं हि चुचुम्बे कुण्डली शिवे || सदाशिवेन देवेशि क्षणमात्रं रमेत् प्रिये | अमृतं जायते देवि तत्क्षणात् परमेश्वरि || तदुद्भवामृतं देवि लाक्षारससमोपमम् | तेनामृतेन देवेशि तर्पयेत् परदेवताम् || षट्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया | आनयेत्तेन मार्गेण मूलाधारं पुनः सुधीः || इति | सहस्रारान्मूलाधारे कुण्डलिन्या अवतरणस्य क्रमोऽपि स्फुटं प्रदर्शितस्तत्रैव सदा षोडशवर्षीयां पीनोन्नतपयोधराम् | इत्यादि कुण्डलीध्यानमभिधाय एवं ध्यात्वा जपेन्मन्त्रं शतमष्टोत्तरं शिवे | मातृकामालया जप्त्वा आज्ञाचक्रं समानयेत् || तत्रेतरशिवलिङ्गेन योजयेत् कुण्डलीं पराम् | ध्यात्वा ब्रह्ममयीं तत्र शतमष्टोत्तरं जपेत् || ततो विशुद्धौ तां नीत्वा शिवेन सह योजयेत् | तामिष्टदेवतां ध्यात्वा जपेदष्टशतं प्रिये || हृत्पद्मे तां ततो नीत्वा वाणेन सह योजयेत् | देवीरूपाञ्च तां ध्यात्वा जपेदष्टोत्तरं शतम् || मणिपूरे तु तां नीत्वा शिवेन सह योजयेत् | देवीरूपान्तु तां ध्यात्वा शतमष्टोत्तरं जपेत् || स्वाधिष्ठाने तु तां नीत्वा शिवेन सह योजयेत् | योजयित्वा जपेन्मन्त्रं देवीं ध्यात्वा प्रियंवदे || (प्. २२९) (षट्चक्रक्रमज्ञानफलम्) ज्ञात्वैतत् क्रममुत्तमं यतमना योगी समाधौ युतः श्रीदीक्षागुरुपादपद्मयुगलामोदप्रवाहोदयात् | संसारे न हि जन्यते न हि कदा संक्षीयते संक्षये पूर्णानन्दपरम्पराप्रमुदितः शान्तः सतामग्रणीः || ५५ || (एतत्षट्चक्रप्रकरणाध्ययनफलम्) योऽधीते निशि सन्ध्ययोरथ दिवा योगी स्वभावस्थितो मोक्षद्वारनिदानमेतदमलं शुद्धं सुगुप्तक्रमम् | श्रीमच्छ्रीगुरुपादपद्मयुगलालम्बी यतान्तर्मना- स्तस्यावश्यमभीष्टदैवतपदे चेतो नरीनृत्यते || ५६ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ योगविवरणं नाम षष्ठः प्रकाशः || ६ || _________________________________________________________________ शतमष्टोत्तरं जप्त्वा मूलाधारे तु तां नयेत् | तत्र लिङ्गं स्वयम्भूञ्च ध्यायेत् कुन्दसमप्रभम् || इत्यादि | निरुक्तामृतधाराकरणकेष्टदेवतातर्पणमाह-तदिति | स्थिरमतिर्निरुक्तयोगानुष्ठाने दृढप्रत्ययविशिष्टो योगी योगपरम्पराविदितया निरन्तरयोगाभ्यासानुभूतस्वरूपया तद्दिव्यामृतधारया पूर्वमभिहितयेत्यर्थः | दैवतम् इष्टदेवीं सन्तर्पयेत् | दैवतं विशेषयति-ब्रह्माण्डभाण्डे स्थितमिति | ब्रह्माण्डस्य भाण्डं पात्रं योनिरूपमित्यर्थः कुण्डलिनी तत्र स्थितमित्यर्थः | ५५ | एवं षट्चक्रप्रक्रियामभिधाय तज्ज्ञानफलमाह ज्ञात्वेति | समाधौ युतः समाधिनिष्ठो योगी एतत् श्रीदीक्षागुरोः पादपद्मयुगले य आमोदप्रवाहः तत्सेवयाधिगता ब्रह्मज्ञानानन्दपरम्परा तस्य उदयात् एतत्क्रमं प्रागुक्तप्रक्रियां ज्ञात्वा संसारे न जन्यते नोत्पद्यते, संक्षयेऽपि प्रलयकालेऽपि न संक्षीयते | स नित्यानन्दपरम्परया धारा वाहिकब्रह्मस्वरूपानन्दानुभवेन शान्तः सतामग्रणीश्च भवति | ५६ | एतत्षट्चक्रप्रकरणाध्ययनफलमाह योढीत इति | यः श्रीमत् श्रीगुरु- (प्. २३०) पादपद्मयुगलम् आलम्बितुं शीलमस्य सः तथा यतान्तर्मना यतम् अन्तरात्मनि मना यस्य तथाभूतः योगी स्वभावस्थितः स्वस्मिन् आत्मनि भावो यस्य तादृशः सन्, निशि रात्रौ सन्ध्ययोः प्रातः सायञ्च, अथवा दिवा मोक्षद्वारनिदानमेतद् योगविवरणं अधीते तस्य योगिनः अभीष्टदैवतपदे स्वेष्टदेवताचरणे चेतो नरीनृत्यते | एतद्योगप्रभावेण स्वेष्टदेवतास्वरूपावलोकनात् तत्र चित्तमतिमात्रमुल्लासमधिगच्छतीत्यर्थः | सप्तमः प्रकाशः (कुण्डानां लक्षणानि, भेदाः, मेखलादिस्वरूपम्, वर्णभेदेन कुण्डभेदाः, कुण्डकरणासम्भवे स्थण्डिले होमविधानम्, स्रुक्स्रुवयोर्लक्षणञ्च) (कुण्डस्वरूपनिरूपणप्रतिज्ञा) कुण्डानां लक्षणं वक्ष्ये यथातन्त्रानुसारतः | (चतुरस्रकुण्डम्) हस्तमात्रमितं सूत्रं परितो लाञ्छयेत्ततः || १ || चतुःकोष्ठात्मकं कृत्वा कोणसूत्रे निपातयेत् | चतुरस्रं भवेत् कुण्डं सर्वसिद्धिप्रदायकम् || २ || ________________________________________________________________ १ | पञ्चमप्रकाशे- ततः स्वदक्षिणे मन्त्री कुण्डं विरचयेत् सुध्हिः (५|१०९) इत्यनेन कुण्डस्य निर्माणमुद्दिष्टम्, इदानीं तस्य स्वरूपमाह कुण्डानामित्यादिना | कुण्डशब्दार्थमाह तन्त्रसारधृतविश्वसारे कौ पृथिव्यां विलं देवि दृश्यते सुमनोहरम् | तस्मात् कुण्डं समाख्यातं साधकानां हिताय वै || इति | २ | तत्र कुण्डलक्षणे वक्तव्ये योन्यादिसर्वकुण्डानि चतुरस्राद् भवन्ति हि | इति राघवभट्टधृतसिद्धान्तशेखरवचनेन तन्त्रान्तरे एकोनत्रिंशपटले चतुरस्रकुण्डं प्रक्रम्याभिहितेन तस्मिन्नन्यानि कुण्डानि वदामि तव मानतः | इति वचनेन च कुण्डानामितरेषां चतुरस्रप्रकृतिकत्वाभिधानात् प्रथमं चतुरस्रकुण्डं लक्षयति हस्तमात्रमित्यादिना | परितश्चतुर्दिक्षु | चतुःकोष्ठात्मकमिति | निरुक्त (प्. २३२) (योनिकुण्डम्) क्षेत्रं पञ्चांशकं कृत्वा पूर्वस्यामेकमंशकम् | न्यसेत्तस्या न्यसेत् सूत्रे पार्श्वयोर्मध्यमावधि || ३ || ततः प्रत्यक्पदद्वन्द्वं भ्रामयेत्तत्तदर्द्धतः | पृथक् पृथग् यथा सम्यक् तथा कोणत्रयावधि || ४ || एवं कृते स्थितं कुण्डं भवेदश्वत्थपत्रवत् | उत्तराभिमुखं कुण्डं योन्याख्यं सिद्धिदायकम् || ५ || (त्र्यस्रकुण्डम्) द्वात्रिंशदङ्गुलं सूत्रं पातयेत् परितः सुधीः | त्रिकोणाकाररूपेण पूर्ववक्त्रं यथा भवेत् | त्रिकोणकुण्डमाख्यातं सर्वसिद्धिप्रदायकम् || ६ || (वृत्तकुण्डम्) तत्क्षेत्राष्टादशं भागं कृत्वैकं बाह्यतः क्षिपेत् | भ्रामयेत्तेन मानेन मध्ये सूत्रं निधाय च | तदा वृत्तं भवेत् कुण्डं प्राचीमुखमनुत्तमम् || ७ || ________________________________________________________________ चतुरस्रे मध्यतः पूर्वतः पश्चिमान्तामेकामुत्तरतो दक्षिणान्तामपरां रेखां कृत्वेत्यर्थः | एवं कृते चत्वारि कोष्ठानि सम्पद्यन्ते | कोणसूत्रे इति आग्नेयाद् वायव्यान्तमेकमैशानान्नैर्-ऋतान्तमपरमिति सूत्रद्वयमित्यर्थः | खननन्त्वग्रे वक्ष्यते | ३ | योनिकुण्डमाह क्षेत्रमिति | अत्रापि पूर्ववच्चतुरस्रं सम्पाद्य तत् क्षेत्रं पञ्चांशकं कृत्वेत्यर्थः | तत्र दक्षिणोत्तरपातितसूत्रस्योत्तरभागस्यैव पञ्चधा विभागः कार्यः | तदुक्तं राघवभट्टेन तत्र सर्वस्य क्षेत्रफलस्य विभागे प्रयोजनाभावान्मध्यसूत्रस्यैव विभागः कार्य इति | ७ | तत्क्षेत्रेति | प्रागुक्तचतुरस्रीकृतक्षेत्रमष्टादशधा विभज्य तदष्टादशभागैकभागं बाह्यतः क्षिपेत्, करिष्यमाणवृत्ताद् बहिः परितो न्यसेदित्यर्थः | भ्रामयेदिति मध्ये निरुक्तक्षेत्रसममध्यप्रदेशे सूत्रं निधाय तत्सूत्रं तेन मानेन निरुक्तसप्तदशभागेभ्यो (प्. २३३) (अर्द्धचन्द्रकुण्डम्) क्षेत्रं विभज्य दशधा त्यजेदूर्द्ध्वमधःक्रमात् | एकमेकं ततो दद्याद् वामदक्षिणकोणयोः || ८ || सूत्रद्वयं यथामानं ज्यासूत्रञ्च यथा भवेत् | तन्मध्यादूर्द्ध्वमानान्तं सूत्रमेकं निपात्य च || ९ || भ्रामयेत्तेन मानेन चन्द्रार्द्धञ्च यथा भवेत् | याम्ये तन्मारणे शस्तमुत्तराभिमुखं सदा || १० || (पद्मकुण्डम्) वृत्तकुण्डं समुद्धृत्य समभागेन साधकः | मध्याद् वृत्तत्रयं कुर्यादाद्यभागे तु कर्णिकाम् || ११ || केशराणि च तद्बाह्ये दलमध्यानि तद्बहिः | तद्बाह्येऽष्टदलाग्राणि कल्पयेद्देशिकोत्तमः || १२ || कर्णिकां त्र्यङ्गुलोच्छ्रायां संलिख्य निखनेत्ततः | अधोभागे केशराणि पद्मकुण्डं समीरितम् || १३ || (कुण्डखननक्रमः) कुण्डानां खननं वक्ष्ये यथातन्त्रानुसारतः | पञ्चदशाङ्गुलं खातं रमणीयन्तु कारयेत् || १४ || ________________________________________________________________ बहिर्बाह्यतः स्थितस्याष्टादशभागस्य चाभ्यन्तरे भ्रामयेदित्यर्थः | व्यक्तमाह तन्त्रसारधृतवशिष्ठसंहितायाम् चतुरस्रीकृतं क्षेत्रं विभज्याष्टादशांशतः | एकं भागं बहिर्न्यस्य भ्रामयेत्तेन वर्तुलम् || इति | (प्. २३४) (चतुरस्रादिकुण्डेषु मेखलानामपि चतुरस्रत्वादित्वम्) कुण्डानां यादृशं रूपं मेखलानाञ्च तादृशम् || १५ || (मेखलानिर्णयः) कण्ठमेकाङ्गुलं त्यक्त्वा मेखला रचयेत् सुधीः | एकहस्तस्य कुण्डस्य वर्द्धयेत् तत्क्रमेण तु | दशहस्तान्तमन्येषामर्द्धाङ्गुलं पृथक् पृथक् || १६ || (मेखलानामुत्सेधः) प्रधानमेखलोत्सेधमुक्तमत्र नवाङ्गुलम् | तद्बाह्य-मेखलोत्सेधं पञ्चाङ्गुलमिति स्मृतम् | तद्बाह्य-मेखलोत्सेधमङ्गुलद्वितयं भवेत् || १७ || (विस्तारः) वेदाग्निपक्षविस्ताराः कर्तव्या मेखलाः शुभाः || १८ || ________________________________________________________________ १५ | कुण्डानामिति | एवञ्च चतुरस्रकुण्डे चतुरस्रा, मेखलास्त्र्यस्रकुण्डे त्र्यस्रा, वृत्तकुण्डे वृत्ताकारा इत्येवंक्रमेण तत्र तत्र मेखलापरिपाटी निरूपणीयेति ध्येयम् | १६ | मेखलास्थानमाह कण्ठमिति | कण्ठस्तु परितः कुण्डमेखलयोरन्तर्वर्ती प्रदेशः | तथाच कण्ठत्वेन परिभाषितं कुण्डाद् बहिः परित एकैकाङ्गुलं प्रदेशं त्यक्त्वा मेखला विदधीतेत्यर्थः | इयमेकहस्तकुण्डे व्यवस्था, द्विहस्तादौ तु कण्ठस्यार्द्धार्द्धाङ्गुलवृद्धिः | १७ | पूर्वं कुण्डानां यादृशं रूपमित्यादिना मेखलानां कुण्डाकारत्वमुपपादितम् | इदानीं तासामुत्सेधमाह-प्रधानेति | मेखलास्तिस्रो भवन्ति, तत्र प्रथमाया औन्नत्यं नवाङ्गुलम्, द्वितीयायाः पञ्चाङ्गुलम्, तृतीयायाश्च द्व्यङ्गुलमिति फलितार्थः | १८ | मेखलानामुत्सेधमभिधाय विस्तारमाह-वेदाग्नीति | तथाच प्रथमा चतुरङ्गुलविस्तारा, द्वितीया त्र्यङ्गुलविस्तारा, तृतीया च द्व्यङ्गुलविस्तारेत्यर्थः | अत्रेदमवधेयम् पञ्चदशाङ्गुलं खातमित्यादिना खातस्य पञ्चदशाङ्गुलत्वम्, प्रधान- (प्. २३५) (खातकरणे कल्पान्तरम्) कर्तव्यमथवा खातं द्वादशाङ्गुलसम्मितम् || १९ || (तत्र मेखलापरिमाणभेदाः) द्वादशाष्टचतुर्भिश्च प्रमाणाङ्गुलिभिः शुभाः | उच्छ्रिता मेखलाः सर्वाश्चतुरङ्गुलविस्तृताः || २० || (कुण्डमेखलयोः क्रमान्तरम्) अथैकमेखलापक्षे गजान्तकदिगङ्गुलम् | खनेत् षडङ्गुलोत्सेधा मेखला वेदविस्तृता || २१ || _______________________________________________________________ मेखलाया उत्सेधस्य नवाङ्गुलत्वञ्चोपदिष्टम्, एवञ्च तत्र पञ्चदशाङ्गुलकुण्डखात- नवाङ्गुलमेखलोत्सेधयोर्मेलनेन परमार्थतः खातस्य चतुर्विंशत्यङ्गुलत्वमुपपन्नम् | तथाच- कुण्डस्य विस्तरंयावत्तावत् खन्यादधः समम् | इति वैदिकसर्वस्वधृतहयशीर्षपञ्चरात्रीयसौरकाण्डवचनेन यत् खातस्य कुण्डविस्तारसमपरिमाणत्वमुक्तम्, तत् प्रधानमेखलापरिमाणसमभिव्याहारेणेति | व्यक्तमाह वैदिकसर्वस्वधृतसिद्धन्तशेखरे खातं कुण्डप्रमाणं स्यादूर्द्ध्वमेखलया सह | इति | एवं परत्रापि | १९-२० | कुण्डखातमेखलयोः कल्पान्तरमाह कर्तव्यमिति | तथा चात्र कल्पे कुण्डस्य खातं द्वादशाङ्गुलपरिमाणं प्रधानमेखलापि द्वादशाङ्गुलपरिमाणा, अनयोः खातपरिमाणमेखलापरिमाणयोर्मेलनेन एकहस्तविस्तारकुण्डसमपरिमाणत्वमुपपन्नं खातस्येति ध्येयम् | कल्पेऽस्मिन् प्रधाना मेखला द्वादशाङ्गुलोत्सेधा, द्वितीयाष्टाङ्गुलोत्सेधा, तृतीया च चतुरङ्गुलोत्सेधा | विस्तारस्तु तिसृणामपि मेखलानां चतुरङ्गुल एव न तु पूर्ववद् विस्तारपरिमाणभेद इति फलितम् | व्यक्तमाह तत्रैव कर्तव्या प्रथमा रम्या चतुरङ्गुलमुच्छ्रिता | अष्टाङ्गुला द्वितिया च तृतीया द्वादशाङ्गुला | सर्वासामेव विस्तारं कुर्वीत चतुरङ्गुलम् || इति | २१ | एकमेखलककुण्डे खननादिप्रक्रियामाह अथेति | अत्र गजान्तकदिगङ्गुलम् अष्टादशाङ्गुलं खनेत् | मेखलाया उत्सेधः षडङ्गुलः विस्तारश्च चतुरङ्गुलः | (प्. २३६) (कुण्डनिर्माणे कल्पान्तरम्) अथवा सर्वकुण्डं हि खनेद्धस्तैकमानतः || २२ || एकहस्तस्य कुण्डस्य द्विहस्तादौ प्रचक्ष्यते यावत् कुण्डस्य विस्तारः खननं तावदीरितम् || २३ || (तत्र मेखला) मेखलाः पञ्च कार्या हि षट्पञ्चाब्धित्रिपक्षकैः | (तत्र विकल्पः) अथवा त्रितयी कार्या वेदाग्निनयनाङ्गुलैः || २४ || अथवा मेखलैका हि वेदाङ्गुलि समन्विता | उत्तमा मध्यमा न्यूना क्रमेण परिकीर्तिताः || २५ || (कुण्डपरिमाणभेदेन मेखलापरिमाणभेदाः) मुष्टिमात्रमित्ते कुण्डे द्व्येकार्द्धाङ्गुलसम्मिताः | अरत्रिमात्रकुण्डे तु त्रि-द्व्येकाङ्गुलसंयुताः || २६ || ________________________________________________________________ २२-२३ | कल्पान्तरमाह-अथवेति | एकेति क्रमोऽयमेकहस्तकुण्डस्येत्यर्थः | द्विहस्तेति द्विहस्तादौ क्रमः प्रचक्ष्यते | अथ कः स इत्यत आह यावदित्यादि | २४-२५ | अत्र मेखलायास्त्रिविधां परिपाटीमाह-मेखला इति | तत्र क्रमेण षट्-पञ्च- चतुस्त्रिद्व्यङ्गुलात्मिकाः पञ्चमेखला इत्येकः कल्पः | अथवेति क्रमेण चतुस्त्रिद्व्यङ्गुलास्तिस्र इत्यपरः | अथवेति चतुरङ्गुलपरिमाणैकेत्यन्यः | उत्तमेति | तत्र प्रथमः पञ्चमेखलापक्ष उत्तमः, द्वितीयस्त्रिमेखलापक्षो मध्यमः, तृतीय एकमेखलापक्षोऽधम इत्यर्थः | २६-२९ | अथ कुण्डपरिमाणभेदेन मेखलापरिमाणभेदान् दर्शयति मुष्टीत्यादिना सर्वतो बुधैरित्यन्तेन | मुष्टिमात्रमित इति | अत्र प्रधानमेखला द्व्यङ्गुला, द्वितीया एकाङ्गुला, तृतीयाऽर्द्धाङ्गुला | एवं परत्रापि | अरत्रिमात्र इति | त्रिद्व्येकाङ्गुलसम्मिताः (प्. २३७) एकहस्तमिते कुण्डे वेदाग्निनयनाङ्गुलाः | मेखला द्विकरे कुण्डे रस-वेदगुणाङ्गुलाः || २७ || चतुर्हस्ते त्वष्टतर्कवेदाङ्गुलसमन्विताः | दशाष्टाङ्गाङ्गुलैर्ज्ञेया रसहस्ते तु मेखलाः || २८ || अष्टहस्तमिते कुण्डे रविदिग्दन्तिभिः क्रमात् | दशहस्ते शक्रभानुदशाङ्गुलसमन्विताः | उत्सेधायामतो ज्ञेया मेखलाः सर्वतो बुधैः || २९ || (अथ योनिः) कुण्डस्य पश्चिमे भागे योनिं मध्ये सुलक्षणाम् | अश्वत्थपत्ररूपां वा त्रिकोणां वा विचक्षणः || ३० || षट्चतुर्द्व्यङ्गुलायामविस्तारोन्नतिशालिनीम् | एकाङ्गुलन्तु योन्यग्रं कुर्यादीषदधोमुखम् || ३१ || मुष्ट्यरत्न्येकहस्तानां कुण्डानां योनिरीरिता | _______________________________________________________________ ३|२|१ | एकेति वेदाग्निनयनाङ्गुलाः-४|३|२ | मेखलेति | रसवेदगुणाङ्गुलाः ६|४|३ | चतुरिति अष्टतर्कवेदाङ्गुलसमन्विताः-८|६|४ | रसहस्ते षड्ढस्ते | दशाष्टाङ्गाङ्गुलैः-१०|८|६ | अष्टेति | रविदिग्दन्तिभिः १२|१०|८ | दशहस्त इति | शक्रभानुदशाङ्गुल समन्विताः १४|१२|१०| इति | एतेन सर्वकुण्डस्य मध्यमपरिमाणे मेखलारचनमुपदर्शितमिति साम्प्रदायिकाः | ३० | मेखलां निरूप्य योनिं निरूपयति कुण्डस्येति | योनिरियं कुण्डस्य पश्चिममेखलोपरि कर्तव्या | तदुक्तं शारदायां तृतीयपटले होतुरग्रे योनिरासामुपर्यश्वत्थपत्रवत् | इति | आसां मेखलानाम् | ३१ | षडिति | कल्पेऽस्मिन् योनेर्दैर्घ्यं षडङ्गुलम्, विस्तारश्चतुरङ्गुलः, उन्नतिर्द्व्यङ्गुलेत्यर्थः | कल्पान्तरन्तु वक्ष्यते | (प्. २३८) (द्विहस्तादिकुण्डेषु विशेषः) एकैकाङ्गुलतो योनिं कुण्डेष्वन्येषु वर्द्धयेत् || ३२ || यवद्वयक्रमेणैव योन्यग्रमपि वर्द्धयेत् || ३३ || (योनिनिर्माणे क्रमान्तरम्) अथवान्यप्रकारेण योनिं कुर्याद्विचक्षणः | द्वादशाङ्गुलदीर्घान्तु तथाष्टाङ्गुलविस्तृताम् || ३४ || योनिं प्रकल्पयेन्मन्त्री तस्याग्रं द्व्यङ्गुलं भवेत् | दशहस्तान्तकं मानं पूर्ववद् वर्द्धयेत् क्रमात् || ३५ || (नालम्) योन्याः पश्चिमतो नालं सरन्ध्रं चतुरङ्गुलम् | त्रिद्व्येकाङ्गुलविस्तारं क्रमान्मूलाग्रमिष्यते || ३६ || ________________________________________________________________ ३४ | द्वादशेति विशेषानभिधानादत्राप्यौन्नत्यं द्व्यङ्गुलमिति बोध्यम् | स्फुटमाह राघवभट्टधृतसिद्धान्तशेखरे दीर्घार्कपर्वभिर्योनिर्विस्तारेणाष्टकाङ्गुला | उन्नतिर्द्व्यङ्गुलेनास्याः ........................................ || इति | प्रयोगसारेऽपि त्रिभागां मध्यतो योनिमायामे द्वादशङ्गुलाम् | द्वादशांशोच्छ्रितां कुर्यात् किञ्चित्कुम्भनिवेशिनीम् || इति | द्वादशांशोच्छ्रितां द्व्यङ्गुलोन्नतामित्यर्थः | अत्र निरुक्तयोनौ छिद्रस्य कर्तव्यत्वमाह शारदायां तृतीयपटले स्थलादारभ्य नालं स्याद् योन्या मध्यं सरन्ध्रकम् | इति | ३६ | नालमाह योन्या इति | मूलाग्रमिति मूलतोऽग्रं यावदित्यर्थः, क्रमात् त्रिद्व्येकाङ्गुलविस्तारमिष्यत इति सम्बन्धः | तथाच नालस्य मूलं त्र्यङ्गुलम्, मध्यं द्व्यङ्गुलमग्रमेकाङ्गुलमित्यर्थः | तदुक्तं राघवभट्टधृतप्रयोगसारे योन्याः पश्चिमतो नालमायामे चतुरङ्गुलम् | त्रिद्व्येकाङ्गुलविस्तारं क्रमान्न्यूनाग्रमिष्यते || नालस्य स्थानादिकं व्यक्तमाह वैदिकसर्वस्वटिप्पनीधृतनपोशविमर्षिण्याम् (प्. २३९) (नाभिः) कुण्डान्तर्नाभिमब्जाभं कुण्डरूपं क्षिपेच्च वा | मुष्ट्यरत्नेकहस्तानां नाभिरुत्सेधभावतः || ३७ || द्वित्रिवेदाङ्गुलोपेतः कुण्डेष्वन्येषु वर्द्धयेत् | यवद्वयक्रमेणैव नाभिं पृथगुदारधीः || ३८ || (योनिकुण्डे योनेरब्जकुण्डे च नाभेर्वर्जनीयत्वम्) योनिकुण्डे त्यजेद् योनिमब्जे नाभिं विवर्जयेत् || ३९ || (नाभिनिर्माणपरिपाटी) नाभिस्थानं त्रिधा कृत्वा मध्यभागे च कर्णिकाम् | पत्राणि विलिखेदष्टौ बहिरंशद्वये सुधीः || ४० || ______________________________________________________________ मेखलानां बहिःस्थानं स्थलमित्यभिधीयते | चतुरस्रं स्थलारब्धं नालं मध्ये सरन्ध्रकम् || स्थूलमूलन्तु सूक्ष्माग्रं तन्नालं स्यान्मनोहरम् | बाह्यस्थमेखलाबाह्यस्थलादारभ्य कारयेत् || इति | अत्र चतुरङ्गुलोत्सेधविस्तारां बाह्यमेखलासष्टन्दां वेदीं कृत्वा तदुपरि नालं स्थापयेदिति राघवभट्टः | द्वितीयमेखलोपरि परिधिस्थापनाय रन्ध्रनिर्माणमाह वैदिकसर्वस्वे योन्याः पश्चिमतो नालमायामेन षडङ्गुलम् | मेखलानालयोर्मध्ये परिधेः स्थापनाय च | रन्ध्रं कुर्यात्तदा विद्वान् द्वितीयमेखलोपरि || इति | ३७-३८ | कुण्डान्तरिति | षट्चतुर्द्व्यङ्गुलोपेतो नाभिः कर्तव्य इत्यर्थः | मुष्टिपरिमाणे द्व्यङ्गुलः, अरत्रिपरिमाणे त्र्यङ्गुलः, हस्तपरिमाणे चतुरङ्गुलो नाभेरुत्सेध इत्यर्थः | अन्येषु तु यवद्वयवृद्धिः | ३९ | योनिकुण्डे निरुक्तां योनिं पद्मकुण्डे च नाभिं न कुर्यादित्यर्थः | (प्. २४०) (होमसंख्याभेदेन कुण्डभेदः) मुष्टिमात्रं शतार्द्धे तु शते चारत्रिमात्रकम् | हस्तमात्रं सहस्रे तु द्विहस्तमयुते तथा || ४१ || (कुण्डाकारवृद्धिक्रमः) एकहस्तस्य कुण्डस्य कोणसूत्रप्रमाणतः | समन्ताद् वर्द्धयेत्तेन कुण्डं तत् स्याद्द्विहस्तकम् || ४२ || एवमेव विधानेन तत् सर्वं वर्द्धयेत् सुधीः || ४३ || (तत्र क्रमान्तरम्) अथ तोडलतन्त्रस्य मतमन्यत् प्रचक्ष्यते || ४४ || हस्तमात्रमिते कुण्डे समन्ताच्चतुरङ्गुलम् | वर्द्धयेत्तेन मानेन द्विहस्तञ्च प्रचक्ष्यते || ४५ || (लक्षादिहोमभेदे कुण्डपरिमाणगौरवम्) चतुर्हस्तं लक्षहोमे सड्ढस्तं दशलक्षके | अष्टहस्तं कोटिहोमे दशहस्तं तथैव च || ४६ || (तत्र कल्पान्तरम्) अथवा कारयेदेकहस्ते लक्षं तथा क्रमात् | लक्षाणां दशकं यावत्तावद्धस्तेन वर्द्धयेत् || ४७ || दशहस्तात् परं कुण्डं नास्ति सर्वागमेष्वपि || ४८ || (खातस्य यथोक्तपरिमाणवैषम्ये दोषः) खाताधिके भवेद्रोगी न्यूने याति धनक्षयम् | वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले || ४९ || (कुण्डस्य स्वेष्टदेवतास्वरूपत्वम्) कुण्डस्य रूपं जानीयात् परमं प्रकृतेर्वपुः || ५० || (प्. २४१) प्राच्यां शिरो भवेद् बाहू दक्षिणोत्तरयोः क्रमात् | उदरं कुण्डमित्युक्तं योनिः पादौ च पश्चिमे || ५१ || (कुण्डस्य चतुरस्रत्वादिभेदेन फलभेदाः) चतुरस्रं शान्तिलक्ष्मी पुष्टिवृद्धेस्तु कारणम् | योनिकुण्डं वाक्प्रदं स्यादाकृष्टिकरणं भगम् || ५२ || लक्ष्मीप्रदं वर्तुलञ्च चन्द्रार्द्धत्रितयं भवेत् | पद्माख्यं सर्वसम्पत्तेः कारणं पुष्टिदं भवेत् || ५३ || (वर्णभेदेन कुण्डभेदाः) चतुरस्रं ब्राह्मणानां राज्ञाञ्च वर्तुलं मतम् | वणिजामर्द्धचन्त्रञ्च त्र्यस्रन्तु शूद्रजन्मनाम् || ५४ || (चतुरस्रकुण्डं सर्ववर्णसाधारणमिति मतान्तरम्) आचार्याः कथयन्त्येके सर्वेषां चतुरस्रकम् || ५५ || (निरुक्तमेखलादिराहित्ये दोषः) मेखलारहिते शोको ह्यधिके वित्तसंक्षयः | भार्याविनाशनं प्रोक्तं कुण्डं योन्या विना कृतम् | अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्जितम् || ५६ || (कुण्डकरणासम्भवे स्थण्डिले होमविधानम्) नित्यं नैमित्तिकं होमं स्थण्डिले वा समाचरेत् || ५७ || ________________________________________________________________ ५३ | चन्द्रार्द्धत्रित्यमर्द्धचन्द्रकुण्डं त्र्यस्रकुण्डञ्चेत्यर्थः | ५७ | नित्यमिति | स्थण्डिले वा समाचरेत् कुण्डकरणासम्भव इत्यर्थः | स्थण्डिललक्षणमाह शारदायां तृतीयपटले (प्. २४२) (स्रुक्-स्रुवयोर्लक्षणम्) अथातः संप्रवक्ष्यामि स्रुक्स्रुवस्य च लक्षणम् || ५८ || श्रीपर्णीशिंशपाक्षीरिशाखिष्वेकतमं गुरुः | गृहीत्वा विभजेद्धस्तमात्रं षट्त्रिंशता पुनः || ५९ || विंशत्यंशैर्भवेद्दण्डो वेदिस्तैरष्टभिर्भवेत् | एकांशेन मितः कण्ठः सप्तभागमितं मुखम् || ६० || वेदीत्र्यंशेन विस्तारः कण्ठस्य परिकीर्तितः | मुखं कण्ठसमानं स्यान्मुखवर्त्मप्रकल्पयेत् | कनिष्ठाङ्गुलिमानेन सर्पिषो निर्गमाय च || ६१ || _______________________________________________________________ हस्तमात्रेण तत् कुर्याद् वालुकाभिः सुशोभनम् | अङ्गुलोत्सेधसंयुक्तं चतुरस्रं समन्ततः || इति | ५८ | एवं कुण्डलक्षणमभिधाय क्रमेण स्रुक्स्रुवयोर्लक्षणं वक्तुं प्रतिजानीते अथात इति | ५९-६० | षट्त्रिंशतेति स्रुग् बाहुमात्रा विज्ञेया कदलीपुष्पसन्निभा | इति वैदिकसर्वस्वधृतागमवचनेन स्रुचः प्रमाणं बाहुमात्रमित्युपदिष्टम् | एवञ्च बाहुमात्रप्रमाणं निरुक्तखादिराद्यन्यतमकाष्ठं षट्त्रिंशता भागैर्विभज्य तस्य विंशत्या भागैर्दण्डम्, अष्टभिर्भागैर्वेदिकाम्, भागेनैकेन कण्ठम्, सप्तभिर्भागैर्मुखं विदधीतेति | एवं कृते षट्त्रिंशतोऽशानामत्रान्तर्भुक्तिः स्यात् | ६१ | कण्ठादेर्विस्तारमाह वेदीत्र्यंशेनेति | निरुक्तवेदीतृतीयांशेनेत्यर्थः | कण्ठसमानमिति वेदिकातृतीयांशैकांशरूपम् | मुखेति | होतव्यस्य हविषो निर्गमाय कनिष्ठाङ्गुलिमानेन मुखवर्त्म हविर्निर्गमनपथं प्रकल्पयेत् | निरुक्ते मुखे हविर्निर्गमार्थं तादृशं छिद्रं कर्तव्यम्, येन तत्र कनिष्ठाङ्गुलिप्रवेशो भवतीत्यर्थः | छिद्रमिदं तप्तलोहशलाकया कर्तव्यम्, तदुक्तं राघवभट्टधृतमन्त्रमुक्तावल्याम् कण्ठाधः कारयेन्मार्गं विद्वानाज्यस्य निर्गमे | वेधञ्च मुखतः कुर्यात्तप्तलोहशलाकया || इति | (प्. २४३) वेदीमध्ये विधातव्या भागेनैकेन कर्णिका | विदधीत बहिस्तस्या एकांशेनाभितोऽवटम् || ६२ || तस्य खातं त्रिभिर्भागैर्वृत्तमर्द्धांशतो बहिः | अंशेनैकेन परितो दलानि परिकल्पयेत् | मेखला मुखवेद्योः स्यात् परितोऽर्द्धांशमानतः || ६३ || दण्डमूलाग्रयोः कुम्भौ गुणवेदाङ्गुलैः क्रमात् | गण्डी युगयमांशैः स्याद्दण्डस्यानाह ईरितः | षड्भिरंशैः पृष्ठभागो वेद्याः कूर्माकृतिर्भवेत् || ६४ || _______________________________________________________________ ६२-६३ | वेद्यां मेखलादिप्रक्रियां दर्शयति-वेदीमध्य इति | निरुक्तवेद्या मध्यप्रदेशे एकांशेन कर्णिकां तद्बहिरेकांशेन अभितः अवटं गर्तम्, तद्बहिस्त्रिभिरंशैः खातं, तद्बहिरर्द्धांशेन वृत्तं, तद्बहिरेकांशेन परितो दलानि, निरुक्तमुखवेद्योः परितः अर्द्धंशमानतो मेखलां रचयेदित्यर्थः | एवञ्च कर्णिका १, अवटं १, खातं ३, वृत्तं १/२ दलानि १, मेखला १/२ इत्यापतति | ६४ | दण्डेति | गुणवेदाङ्गुलैरिति | दण्डस्य मूले त्र्यङ्गुलपरिमितः कुम्भः अग्रे च चतुरङ्गुलः | गण्डीति | गण्डी कङ्कणाकारं वेष्टनम्, तत्परिमाणमाह युगयमांशैरिति | मूलाग्रयोरिति पूर्वोक्तमत्रानुकर्षणीयम् मूले चाग्रे च दण्डस्य गण्डी कङ्कणवद् भवेत् | इति राघवभट्टधृतसोमशम्भुवचनसंवादात् | तथाच दण्डस्य मूल एका गण्डी द्व्यंशा अग्रे चापरा तत्परिमाणा स्यादित्यर्थः | दण्डस्य विस्तारमाह-दण्डस्येति | षड्भिरंशैर्दण्डस्य आनाहो विस्तार ईरित इत्यर्थः | तदुक्तं राघवभट्टधृतमन्त्रमुक्तावल्याम् - षडङ्गुलपरीणाहो दण्डमध्य उदाहृतः | इति | (प्. २४४) हंसस्य वा हस्तिनो वा पोत्रिणो वा मुखं लिखेत् | मुखस्य पृष्ठभागेऽस्याः संप्रोक्तं लक्षणं स्रुचः || ६५ || (स्रुवलक्षणम्) चतुर्विंशतिभ्र्भागैः स्रुचश्च रचयेत् स्रुवम् | द्वाविंशत्या दण्डमानमंशैरेतस्य कीर्तितम् || ६६ || चतुर्भिरंशैरानाहः कर्षाज्यग्राहि तच्छिरः | अंशद्वयेन निखनेत् पङ्के मृगपदाकृति || ६७ || दण्डमूलाग्रयोः कुम्भौ कार्यौ कङ्कणभूषणौ | पूर्ववच्च स्रुवस्यैव लक्षणं समुदाहृतम् || ६८ || (तयोरभावे व्यवस्था) स्रुक्स्रुवाणामभावे तु प्रकारान्तरमुच्यते || ६९ || ______________________________________________________________ ६५ | हंसस्येति | अस्याः स्रुचो मुखस्य पृष्ठभागे लिखेदिति सम्बन्धः | पोत्रिणो वराहस्य | ६६ | एवं स्रचो लक्षणमभिधाय स्रुवलक्षणमह-चतुरिति | प्रागुक्तस्रुचः चतुर्विंशतिभागैः स्रुवं रचयेदित्यर्थः | द्वाविंशत्या त्र्यंशैर्दण्डमानमिति सम्बन्धः | ६७ | आनाहो विस्तारः | कर्षेति अंशद्वयेन कर्षाज्यग्राहि कर्षपरिमिताज्यग्रहणयोग्यं तच्छिरः निखनेदिति सम्भन्धः | कर्षपरिमाणमाह राघवभट्टः माषो दशगुञ्जः स्यात् षोडशमाषो निगद्यते कर्षः | इति | पङ्क इति | पङ्के मृगपदस्य मृगपदचिह्नस्य आकृतिरिव आकृतिर्यस्य तथाभूतं शिर इति सम्बन्धः | वैदिकसर्वस्वधृतागमे चतुष्कोणसमायुक्तो हस्तमात्रः स्रुवो भवेत् | यथाल्पपङ्के गोष्पादं रुचिरं दृश्यते सदा || इति | ६८ | पूर्ववच्चेति | एतत्कुम्भगण्डीरचनापरिपाटी पूर्ववत् स्रग्विहितकुम्भगण्दीक्रमेण कर्तव्येत्यर्थः | (प्. २४५) मध्यमाभ्यां पलाशस्य पत्राभ्यां हूयते हविः | अथवाश्वत्थपत्राभ्यां संक्षिप्ते होमकर्मणि || ७० || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ सप्तमः प्रकाशः || ७ || अष्टमः प्रकाशः (होमविधानम्) (होमविधिनिरुपणप्रतिज्ञा) अथ होमविधिं वक्ष्ये शक्तितन्त्रानुसारतः | (कुण्डस्य वीक्षणाद्यष्टादश संस्काराः) आदौ कुण्डस्य संस्कारानष्टादश च कारयेत् || १ || मूलेन वीक्षणं कुर्याच्छरेण प्रोक्षणं मतम् | तेनैव ताडनं दर्भैर्वर्मणाभ्युक्षणं मतम् || २ || खननं मृत्तिकोद्धारमस्त्रमन्त्रेण पूरणम् | हृदयेनास्त्रमन्त्रेण समीकरणमेव च || ३ || सेचनं कवचेनैव हेतिमन्त्रेण कुट्टनम् | मार्जनं वर्ममन्त्रेण ततः कुर्याद्विलेपनम् || ४ || _______________________________________________________________ १ | एवं सप्तमे कुण्डप्रकरणमभिधाय प्रकाशेऽस्मिन् होमविधानं निरूपयति अयेति | तत्र च यागे कुण्डानि संस्कुर्यात् संस्कारैरेभिरीरितैः | इत्यादिशारदातिलकपञ्चमपटलवचनेन कुण्डसंस्काराणामवश्यकर्तव्यत्वश्रवणात् प्रथमं तानेवाह-आदाविति | २ | मूलेनेति | मूलेन देयमन्त्रेण | शरेणास्त्रमन्त्रेण | तेनैव शरेणैव | ३ | खननमिति | मृत्तिकोद्धारः खातमृद उत्तोलनम् | पूरणं कुण्डेऽन्यमृदासेचनम् | अत्र अस्त्रमन्त्रेण खननं मृत्तिकोद्धारञ्च, तथा हृदयेन नम इत्यनेन पूरणमस्त्रमन्त्रेण समीकरणं कुर्यादिति सम्बन्धः | व्यक्तमाह शारदायां पञ्चमपटले (प्. २४७) सोमसूर्यानलानान्तु कलास्तेनैव कल्पयेत् | त्रिसूत्रीकरणञ्चैव हृन्मन्त्रेण प्रपूजयेत् || ५ || वज्रीकरणमस्त्रेण हृन्मन्त्रेण कुशैः शुभैः | चतुष्पथभागरूपं नयनेनाक्षपाटनम् || ६ || आवसथ्यं मध्यभागे प्राच्याञ्च पश्चिमे तथा | आहवनीयं ततोऽन्वाहार्यं दक्षिणदेशतः || ७ || गार्हपत्यञ्च मन्त्रज्ञो भावयेद् भागमित्यथ | चतुष्टयं वा मूलेन वीक्षणञ्च शरानुना || ८ || _____________________________________________________________ अस्त्रेण खननोद्धारौ हृन्मन्त्रेण प्रपूरणम् | समीकरणमस्त्रेण सेचनं वर्मणा मतम् || ४-५ | सेचनमिति | हेतिमन्त्रेणास्त्रमन्त्रेण | मार्जनं विलेपनम्, सोमसूर्यानलकलाकल्पनम्, त्रिसूत्रीकरणञ्चेति चत्वारः संस्कारा वर्ममन्त्रेण कर्तव्या इति फलितार्थः | त्रिसूत्रीकरणं सूत्रत्रयवेष्टनम् | ६ | वज्रीकरणमिति | अस्त्रेण वज्रीकरणं वज्रवद्दृढीकरणम् | हृन्मन्त्रेणेति शुभैः कुशैः चतुष्पथभागरूपं चतुर्दिक्षु मार्गचतुष्टयनिर्माणरूपं कर्म कुर्यादित्यर्थः | चतुष्पथं भागरूपम् इति पाठे तु भागो विभाग एव रूपं स्वरूपं यस्य तादृशं चतुष्पथं कुर्यान्न त्वन्यादृशचतुष्पथमित्यर्थः | नयनेनेति वौषट् इत्यनेन अक्षपाटनम् इन्द्रियोद्घाटनम् | एवञ्च वीक्षणम् १ | प्रोक्षणम् २ | ताडनम् ३ | अभ्युक्षणम् ४ | खननम् ५ | मृत्तिकोद्धरः ६ | पूरणम् ७ | समीकरणम् ८ | सेचनम् ९ | कुट्टनम् १० | मार्जनम् ११ | विलेपनम् १२ | सोमसूर्याग्निकलाकल्पनम् १३ | त्रिसूत्रीकरणम् १४ | प्रपूजनम् १५ | वज्रीकरणम् १६ | चतुष्पथविभागः १७ | अक्षपाटनम् १८ | इत्यष्टादश संस्काराः कुण्डस्य | (प्. २४८) प्रोक्षणं ताडनं दर्भैस्तेनोत्तानेन पाणिना | प्रोक्षणं कवचेनैव संस्काराश्च समीरिताः || ९ || (स्थण्डिले होमः) अथवा स्थण्डिले होमं कुर्यात् साधकसत्तमः | अङ्गुष्टमध्यमोत्सेधवालुकामयमण्डलम् || १० || चतुरस्रं हस्तमानं गोमयेन विलेपितम् | शोधनं कारयेत् स्थानं वीक्षणादिचतुष्टयैः || ११ || (प्रागग्ररेखात्रयम्) रेखात्रयं सुधीः कुर्यात् पश्चिमात् पूर्वदिग्गतम् | प्रादेशमात्रं विज्ञेयं मुकुन्देशेन्द्ररूपिणम् || १२ || ________________________________________________________________ ८ | निरुक्ताष्टादशसंस्काराशक्तौ संस्कारचतुष्टयरूपं कल्पान्तरमाह- चतुष्टयमिति | चतुष्टयं वा संस्काराणामिति शेषः | तच्चतुष्टयं विशेषयति मूलेनेति | तथाच मूलेन वीक्षणम् १ | शरानुना प्रोक्षणम् २ | तेनैव दर्भैस्ताडनम् ३ | वर्ममन्त्रेण प्रोक्षणम् ४ | प्रोक्षणम् अभ्युक्षणम् | तदुक्तं शारदायां पञ्चमपटले अथवा तानि संस्कुर्याच्चतुर्भिर्वीक्सणादिभिः | इति | व्यक्तमाह तन्त्रसारे वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् | तेनैव ताडनं दर्भैर्वर्मणाभ्युक्षणं मतम् || इति | ११ | वीक्षणादिचतुष्टयैः चतुष्टयं वेत्यादिना पूर्वमुक्तैरित्यर्थः | एवञ्च कुण्डेऽष्टादशसंस्कारकरणं प्रथमः कल्पः, तदसम्भवे तत्र वीक्षणादयश्चत्वारः संस्काराः | स्थण्डिले तु वीक्षणादिसंस्कारचतुष्टयमात्रम् | (प्. २४९) (उत्तराग्ररेखात्रयम्) हृदयेनैव मन्त्रेण दक्षिणादुत्तरावधि | रेखात्रयं तथा ब्रह्मवैवस्वतेन्दुरूपकम् || १३ || लेखनीं निक्षिपेत्तत्र तर्जन्यङ्गुष्ठयोगतः | रजस्तासां समुद्धृत्य प्रोक्षयेत् प्रणवेन तु || १४ || (योगपीठविरचनापरिपाटी) योगपीठञ्च सिन्दूरकर्पूरकुङ्कुमेन वा | धान्यपिष्टेन वा मध्ये चूर्णेन वा हरिद्रया || १५ || त्रिकोणञ्चैव षट्कोणं भूपुरं द्वारसंयुतम् | लिखित्वा बालया पुष्पं तन्मध्ये च विनिक्षिपेत् || १६ || ______________________________________________________________ १५-१६ | योगपीठनिर्माणपरिपाटीमाह-योगपीठञ्चेत्यादिना विनिक्षिपेदित्यन्तेन | अत्र त्रिकोणञ्चैव षट्कोणमेतावन्मात्राभिधानेऽपि प्रथमतस्त्रिकोणम्, तद्बाह्ये षट्कोणम्, तद्बहिर्वृत्तम्, ततोऽष्टदलकमलम्, ततश्चतुर्द्वारसंयुक्तं भूपुरं मूलोक्तं लेखनीयमित्येवं क्रमोऽवगन्तव्यः | अन्यथा अष्टमूर्तीस्त्वष्टपत्रे इति वक्ष्यमाणग्रन्थो नोपपद्यते तत्पूर्वं पत्रनिर्माणस्य लेशतोऽप्यनुल्लेखात् | तस्माद् यदत्र त्रिकोणञ्चैव षट्कोणमित्युक्तं तद् वह्नियन्त्रान्तर्गतयोगपीठनिर्णयाभिप्रायेण | परमार्थतस्तु निरुक्तषट्कोणात् परं वृत्तादीन्यपि कर्तव्यानि | व्यक्तमाह गन्धर्वतन्त्रे होमविधिप्रतिपादकैकत्रिंशपटले दक्षिणास्तिस्रो रेखा वै विलिख्य तदनन्तरम् | रेखाः स्युश्च वैवस्वतब्रह्मानन्तस्वरूपकाः || इत्यनन्तरम् - (प्. २५०) (पीठदेवतापूजा) उपर्युपरिभेदेन तत्र पीठं समर्चयेत् | मण्डूकं पूजयेद्रूद्रमाधारकूर्मशूकरान् || १७ || धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं पीठदिक्षु च | अ-पूर्वांस्तेषु कोणेषु पीठस्योपरि पूजयेत् || १८ || (योगपीठार्चनम्) पुनस्तारेण मन्त्रज्ञो योगपीठं यजेत्ततः || १९ || तारो माया च कामेशी कामेश्वरयुतेति च | योगपीठं ङेनमोऽन्तं पीठमन्त्रोऽयमीरितः || २० || (कामेश्वरीध्यानम्) मध्ये ऋतुमतीं देवीं मातरं विश्वमातरम् | कामेश्वरीं महाप्रौढां नीलेन्दीवरसन्निभाम् || २१ || ________________________________________________________________ त्रिकोणं मध्यतो देवि कृत्वा बाह्ये ततः परम् | षट्कोणं विधिना चैव कारयेदतिसुन्दरम् | अष्टपत्रञ्च तद्बाह्ये वृत्तेन कर्णिका शुभा || इत्यादिना | बालया ऐ/ क्ली/ सौः इति वक्ष्यमाणबालामन्त्रेण | १८ | अपूर्वानिति | पूर्वं धर्मं ज्ञानं वैराग्यमैश्वर्यमित्युपक्रान्तम् | अ- पूर्वानित्यनेन च अकारः पूर्वो येषां तथाभूतान् धर्मादीन् तेषु कोणेषु पूजयेदित्यर्थस्य संग्रहात् कोणेष्वधर्माज्ञानावैराग्यानैश्वर्याणां पूजनमुपदिष्टमित्यवधेयम् | १९ | तारेण प्रणवेन | २० | तार इति | तारः प्रणवः | माया ह्री/ | तथाच ओं ह्री/ कामेश्वरीकामेश्वरयुतयोगपीठाय नमः | इति पीठमन्त्र इत्यर्थः | (प्. २५१) कामेश्वरेण संयुक्तां ध्यात्वा पाद्यादिभिर्यजेत् | शक्तिबीजेन कामेशीं कामेशं साध्यमन्त्रतः || २२ || (अग्निचयनम्) श्रोत्रियागारजं वापि सूर्यकान्तोद्भवन्तु वा | अरणीसम्भवं वापि क्षिप्तं स्वर्णादिभाजने || २३ || ताम्रपात्रादिना मन्त्री पिहितन्तु समानयेत् | अथवाऽनीतमभितः स्थापयेत् कांस्यभाजने || २४ || तस्मात् समानयेत् किञ्चिद् वह्निबीजेन याजकः || २५ || (अग्निसंस्कारः) मूलेन वीक्षणं कार्यमस्त्रेण रक्षणं चरेत् | प्रोक्षयेत् कवचेनैव तथा-वगुण्ठनं चरेत् || २६ || (दिग्बन्धनादि) दशदिग्बन्धनं कृत्वा धेनुमुद्रां प्रदर्शयेत् || २७ || त्रिर्भ्राम्य कुण्डं परितो दक्षिणात्तरमुच्चरन् | कूर्चास्त्राभ्याञ्च नैरृत्यां क्रव्यादांशं परित्यजेत् || २८ || (अनन्तरकृत्यानि) पश्चात् प्रज्वालयेद् वह्निं ज्ञानाग्निं संक्रमयय च | ________________________________________________________________ २८ | दक्षिणादिति | स्वदक्षिणभागादग्निमुद्धृत्य कुण्डं परितस्त्रिः परिभ्राम्य इत्यर्थः | कूर्चेति | तारमुच्चरन् इति तारशब्देन मूलमन्त्रो बोध्यः | कूर्चं हू/, अस्त्रं फट् | ततश्च मूलमुच्चार्य हू/ फट् क्रव्यादेभ्यः स्वाहा इति क्रव्यादांशत्यागक्रमः | एवमेव तन्त्रसारकाराः | (प्. २५२) दीपाद्दिपान्तरं न्यायात् स्फुरन्तं सर्वतोमुखम् | श्वासमार्गेण मनुवित् कवचेन ततोऽर्चयेत् || २९ || भूमौ च जानुनी कृत्वा कूर्चबीजञ्च वह्नितः | चैतन्यं ङे नमोऽन्तं स्यादनेनोत्थापयेच्छुचिम् || ३० || (वह्निस्थापनम्) शिवबीजधिया तस्या योनौ वह्निं विनिक्षिपेत् | आत्मनोऽभिमुखं कृत्वा पूर्वोक्तमण्डलान्तरे || ३१ || (प्रज्वालनम्) आदौ व्याहृतिभिः पश्चाद् वह्निमन्त्रञ्च वर्तुलम् | चित्पिङ्गल हनद्वन्द्वं दहद्वन्द्वं पचद्विधा | सर्वज्ञाज्ञापय स्वाहा वह्निं प्रज्वालयेत् सुधीः || ३२ || (ज्वालिनी मुद्रा) मणिबन्धौ समौ कृत्वा करौ तु प्रसृताङ्गुली | मध्यमे मिलिते कृत्वा तन्मध्येऽङ्गुष्ठकौ क्षिपेत् | इमाञ्च ज्वालिनीं मुद्रां दर्शयेत् साधकोत्तमः || ३३ || _________________________________________________________________ ३२ | आदाविति | अत्र आदौ व्याहृतिभिः सार्द्ध वर्तुलमुच्चार्य पश्चाद् वह्निमन्त्रञ्च, अत्र चकाराद् वह्निमन्त्रस्यादौ वर्तुलञ्चेति लभ्यते | तथा च ओं भूर्भुवः स्वः ओं चित्पिङ्गल हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहा इति वह्निप्रज्वानमन्त्र इति पर्यवस्यति | वह्निप्रज्वालने विशेषमाह राघवभट्टधृतवायवीयसंहितायाम्- जुहुषुश्च हुताग्निश्च पाणिशूर्पस्रुवादिभिः | न कुर्यादग्निधमनं न कुर्याद् व्यजनादिना | मुखेनैव धमेदग्निं मुखादेष ह्यजायत || इति | (प्. २५३) (अग्नेरुपस्थानम्) अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् | सुवर्णवर्णममलं समिद्धं सर्वतो मुखम् || ३४ || (चैतन्ययोजनम्) उपस्थानं विधायेत्थं मनुना पावकं सुधीः | कामबीजं समुच्चार्य वह्निमूर्तिं समर्चयेत् || ३५ || बालामन्त्रं समुच्चार्य आं सोऽहमिति संलिखेत् | वह्निचैतन्यमुच्चार्य ङेन्तं हृन्मनुसंयुतम् | कामेश्वर्या गर्भदेशे वह्निमनेन भावयेत् || ३६ || (समित्प्रक्षेपः) प्रादेशमात्रां समिधं मूलाग्रघृतसंयुताम् | तूष्णीं वह्नौ समुत्क्षिप्य (अग्नेर्जिह्वासु देवतादीनां न्यासः) जिह्वायां देवता न्यसेत् || ३७ || देवताः पितरश्चैव गन्धर्वा यक्षपन्नगाः | पिशाचा रक्षसाश्चैव न्यस्तव्या एषु साधकैः | स्वलिङ्गगुदमूर्द्धास्य-नासानेत्राङ्गके क्रमात् || ३८ || ________________________________________________________________ ३५-३६ | कामबीजमिति | तथाच क्लीं वह्निमूर्तये नमः इति पूजनक्रमः | बालामन्त्रमिति | तथाच ऐ/ क्लि/ सौः आं सोऽहं वह्निचैतन्याय नमः इति कामेश्वरीगर्भे वह्निं चिन्तयेत् इत्यर्थः | ३७-३८ | तूष्णीमिति | समुत्क्षिप्य प्रादेशमात्रां समिधं तूष्णीमग्नौ हुत्वेत्यर्थः | जिह्वायाम् अग्नेर्हिरण्यादिसप्तजिह्वासु वक्ष्यमाणासु इत्यर्थः | देवता न्यसेत् | ता एव आह- (प्. २५४) (षडङ्गेषु देवतान्यासः) सहस्रार्च्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा | घूमव्यापो सप्तजिह्वो धनुर्द्धर इतीरितः | चतुर्थ्यन्ताः षडङ्गेषु योजयेत् क्रमशः सुधीः || ३९ || (अग्नेरष्टाङ्गेषु देवतान्यासः) अष्टमूर्तीर्न्यसेत् पश्चात् प्रणवाद्येन वै क्रमात् | अग्निना सह सर्वत्र मनुविज्जातवेदसम् || ४० || सप्तजिह्वं हव्यवाहमश्वोदरमपि न्यसेत् | वैश्वानरञ्च कौमारतेजसं तदनन्तरम् | विश्वमुखं देवमुखमेषु स्थानेषु विन्यसेत् || ४१ || मूर्ध्नि दक्षांशके चैव तथा पार्श्वे कटौ तथा | वामपायौ तस्य देशे पार्श्वांशे क्रमतो न्यसेत् || ४२ || ________________________________________________________________ देवता इत्यादिना | एष्विति स्वलिङ्गगुदमूर्द्धादिषु सप्तस्वङ्गेष्वित्यर्थः | एताश्च देवता एषु न्यसेदित्यर्थः | एवञ्च आदौ सप्त जिह्वा लिङ्गादिषु सप्तस्वङ्गेषु न्यस्य तासु जिह्वास्वधिदेवता न्यसेदिति सम्प्रदायः | ३९ | अग्नेरङ्गेषु देवतानां न्यासमाह सहस्रार्चिरित्यादिना | सहस्रार्चिराद्या धनुर्धरान्ताश्चतुर्थ्यन्ताः षडङ्गदेवताः षट्स्वङ्गेषु योजयेदित्यर्थः | एवञ्च ओं सहस्रार्च्चिषे हृदयाय नमः | ओं स्वस्तिपूर्णाय शिरसे स्वाहा | ओं उत्तिष्ठपुरुषाय शिखायै वषट् इत्येवं क्रमः पर्यवस्यति | ४०-४१ | अष्टमूर्तीरिति | अग्नेर्मूर्द्धादिष्वष्टाङ्गेषु प्रणवाद्येन अग्निना सह चतुर्थ्यन्तेनेत्यर्थः | जातवेद-आद्याश्चतुर्थ्यन्ता अष्टमूर्तीर्विन्यसेदिति सम्बन्धः | अयञ्च न्यासः प्रादक्षिण्येन कर्तव्यः | तदुक्तं शारदायां पञ्चमपटले (प्. २५५) (स्वदेहे वह्नेर्जिह्वानां न्यासः) विन्यसेदात्मनो देहे मन्त्रैर्जिह्वा हविर्भुजः | स्वलिङ्गगुदमूर्द्धास्यनासानेत्रेषु सर्वतः || ४३ || सादि-यान्ता वह्निवायुवामकर्णसमन्विताः | बिन्दुनादकलायुक्ता जिह्वामन्त्राः प्रकीर्तिताः || ४४ || _______________________________________________________________ मूर्तीरष्टौ तनौ न्यस्येद्देशिको जातवेदसः | मूर्द्धांसपार्श्वकट्यन्धुकटिपाअर्श्वांसके पुनः || प्रदक्षिणवशान्न्यस्येदुच्यन्ते ता यथाक्रमात् | जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः || अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः | कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः | ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्तयः || इति | नत्यन्ता नमोऽन्ताः | तथच -ओं अग्नये जातवेदसे नमः | इति मूर्ध्नि | ओं अग्नये सप्तजिह्वाय नमः | इति दक्षांसे | इत्येवं प्रयोगक्रमः | न्यासोऽयं वह्नेरष्टाङ्गभूतेषु निरुक्तयन्त्राष्टदलेषु कर्तव्यः | अष्टदलेषु अग्नये जातवेदसे इत्यादि-गन्धर्वतन्त्रैकत्रिंशत्तमपटलोक्तेरिति ध्येयम् | ४३-४४ | विन्यसेदिति | लिङ्गगुदमूर्द्धादिषूक्तेषु सप्तस्वङ्गेषु मन्त्रैर्वक्ष्यमाणैः सप्त जिह्वा न्यसेदिति सम्बन्धः | मन्त्रमाह-सादीति | सादि-यान्ताः विलोमेन सकारादि यकारान्ताः सप्त वर्णाः, ते च प्रत्येकं वह्निना रकारेण तथा वायुवामकर्णेन यकारयुक्तदीर्घोकारेण समन्विताः, तथा बिन्दुना नादकलया चन्द्रार्द्धेन च युक्ता इत्यर्थः | एवञ्च सरयू/ हिरण्यायै नमः इति लिङ्गे | षरयु/, कनकायै नमः इति पायौ | शरयु/ रक्तायै नमः इति मुर्ध्नि | वरयू/ कृष्णायै नमः इति वक्त्रे | इति प्रयोगक्रमः | अत्र विशेषानभिधानाद् वक्ष्यमाणसात्त्विकादिभेदभिन्नासु जिह्वास्वयमेव क्रम इति ध्येयम् | (प्. २५६) (जिह्वानां त्रैविध्यम्) जिह्वास्तास्त्रिविधाः प्रोक्ता गुणभेदेन कर्मसु || ४५ || (तत्र सात्त्विककर्मविहिताः) हिरण्या कपिला रक्ता कृष्णान्या सुप्रभा मता | बहुरूपातिरूपा च सात्त्विके यागकर्मणि || ४६ || (राजसकर्मविहिताः) पद्मरागा सुवर्णा च तथा च चन्द्रलोहिता | लोहिता च तथा श्वेता धूमिनी च करालिनी | रजोगुणसमुद्दिष्टा रसनाः काम्यकर्मसु || ४७ || (तामसकर्मविहिताः) विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा | लोहिन्या कनकाख्या च काली तामस्य ईरिताः | (अन्त्यानां क्रूरकर्ममात्रपरत्वम्) एताः सप्त प्रपूज्यन्ते क्रूरकर्मसु मन्त्रिभिः || ४८ || (जिह्वानां वर्णाः) स्वस्वनामसमाभाः स्युजिह्वाः कल्याणरेतसः || ४९ || (परिस्तरणम्) एवं विन्यस्तदेहः सन् परिस्तरणमाचरेत् | अर्घ्योदकेन चाभ्युक्ष्य मध्यस्थमेखलोपरि || ५० || _________________________________________________________________ ५०-५२ | अर्घ्योदकेनेति | अभिषेचनं वालाबीजेन | तदुक्तं तन्त्रसारे ततो मेखलानामुपरि बालया विशुद्धैस्तोयैः परिषिच्येति | मूलमाच्छादनमिति | (प्. २५७) उत्तराग्रं पूर्वदेशे पूर्वाग्रं दक्षिणे ततः | उत्तराग्रं पश्चिमे तु प्रागग्रमुत्तरे क्रमात् || ५१ || मूलमाच्छादनं कृत्वा त्रिवारन्तु परिस्तरेत् | अस्योपरि सिचेत् तोयैर्मूलमन्त्रेण साधकः || ५२ || (परिधिस्थापनम्) निक्षिपेद्दिक्षु परिधीन् प्राचीवर्जं गुरूत्तमः | प्रादक्षिण्येन सम्पूज्यास्तेषु ब्रह्मादिमूर्तयः || ५३ || ________________________________________________________________ आ सम्यक् छादनं यस्य तत् | तथा च मूलमाच्छादितं कृत्वा अग्रेणेति शेषः | परिस्तरणमिदं गर्भशून्यदर्भैः कर्तव्यम् | तदुक्तं शारदायां पञ्चमपटले दर्भैरगर्भैर्मध्यस्थमेखलायां परिस्तरेत् | इति | तन्त्रसारेऽपि मध्यमेखलायां गर्भशून्यैर्दर्भैरग्रेण मूलमाच्छादयन् त्रिस्त्रिः परिवेष्टयेदिति | ५३ | निक्षिपेदिति | परिधीन् परिवेष्टनानि | परिधिलक्षणमाह कात्यायनसंहितायां पञ्चदशखण्डे बाहुमात्राः परिधय ऋजवः सत्वचोऽव्रणाः | त्रयो भवन्ति शीर्णाग्रा एकेषान्तु चतुर्दिशम् || प्रागग्रावभितः पश्चादुदगग्रमथापरम् | न्यसेत् परिधिमन्यञ्चेदुदगग्रः स पूर्वतः || इति | वैदिकसर्वस्वधृतपञ्चरात्रे च ततः परिधयो देयाः सत्वचो ब्रह्मवृक्षजाः | बाहुमात्रप्रमाणेन विस्तारं द्वादशाङ्गुलम् || इति | वैदिकसर्वस्वधृत आपस्तम्बः-त्रयः परिधयः पलाशकाश्मर्यखदिरोडम्बरबिल्वरोहितकविकङ्कतानां ये वा यज्ञीया वृक्षा इत्यादि | एवञ्च दक्षिणोत्तरयोः पूर्वाग्रौ पश्चिमे उदगग्र इति त्रयः परिधयो भवन्ति | प्रागुक्तकात्यायनवचने न्यसेत् परिधिमन्यञ्चेदुदगग्रः स पूर्वत इत्यनेन चतुर्थपरिधिन्यासरूपं यत् कल्पान्तरमुक्तं तदेव व्यावर्तयति मूले प्राचीवर्जमित्यनेन | पूर्वतः परिधिर्न विधेय इत्यर्थः | (प्. २५८) (अग्नेर्ध्यानम्) ध्यायेद् वह्निं हेमवर्णं शक्तिस्वस्तिकधारिणम् | वरदाभयशोभाढ्यं सुवर्णवरभूषणम् || ५४ || शुक्लाम्बरपरीधानं पद्मोपरि च संस्थितम् | त्रिनेत्रमुज्ज्वलं ध्यायेदूर्द्ध्वमौलिं जटादिभिः || ५५ || (वह्न्यावाहनार्चनमन्त्रः) वैश्वानर ततो जातवेद पश्चादिहावह | लोहिताक्ष च सर्वान्ते कर्माण्यथ च साधय || ५६ || वह्निजायान्तमन्त्रेण वह्नेरावाहनं चरेत् | अनेनाग्निं समभ्यर्च्य (वह्निजिह्वासप्तकपूजनक्रमः) तन्मुखे रसनां यजेत् || ५७ || ईशादारभ्य षट्कोणे मध्ये च साधकोत्तमः | पूर्वोक्तमन्त्रयोगेण षडङ्गावरणं यजेत् || ५८ || अष्टमूर्तीस्त्वष्टपत्रे भूबिम्बे दिगधीश्वरान् | ________________________________________________________________ ५६-५८ | वह्नेरावाहनस्य मन्त्रमाह-वैश्वानरेति | एवञ्च वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्मणि साधय स्वाहेति मन्त्रः पर्यवस्यति | अनेनेति निरुक्तवैश्वानरेत्यादिमन्त्रेण | एवञ्च वह्नेरावाहनं पूजनञ्चेत्युभयमेवानेन मन्त्रेण विधेयमिति बोध्यम् | एवमग्नेरर्चनमभिधाय तन्मुखे जिह्वासप्तकपूजनमभिधत्ते- तन्मुख इत्यादिना | तथाच प्रागुक्तत्रिकोणबहिःषट्कोणे ईशानादिक्रमेण हिरण्याद्याः षट् मध्ये च सप्तमीं पूर्वोक्तमन्त्रयोगेन सरयू/ हिरण्यायै नम इत्यादिमन्त्रेण यजेदित्यर्थः | षडङ्गावरणं यजेदिति ओं सहस्रार्चिषे हृदयाय नम इति पूर्वोक्तक्रमेणेत्यर्थः | (प्. २५९) (पुनरग्नेर्ध्यानादेः कर्तव्यता) पुनर्वैश्वानरं ध्यात्वा पूजयेत् साधकोत्तमः || ५९ || (पात्रसंस्कारः) प्रोक्षयेदर्घ्यतोयेन पात्राणि शुद्धिहेतवे | संमुखानि ततः कृत्वा बालया चाभिमन्त्रयेत् | प्रणीताप्रोक्षणीयुग्मे जलपुष्पे विनिक्षिपेत् || ६० || स्रुवञ्चाधोमुखं कृत्वा त्रिः प्रताप्य च मन्त्रवित् | आदाय वामहस्तेन दूर्वया मार्जयेत् त्रिधा || ६१ || मूलादिवक्त्रपर्यन्तं दूर्वामग्नौ विनिक्षिपेत् | आत्मनो दक्षिणे भागे स्थापयेदास्तरे कुशे || ६२ || (आज्यसंस्कारः) आज्यस्थालीं पुरः कृत्वा शरेण क्षालनं चरेत् | पवित्रं तत्र संस्थाप्य कुर्यादीशमुखं सुधीः || ६३ || _________________________________________________________________ ५९ | अष्टमूर्तीरिति | अग्निना सह सर्वत्र मनुविज्जातवेदसम् इत्यादिनोक्ता अष्टमूर्तीरित्यर्थः | अस्य ओं अग्नये जातवेदसे नम इत्यादयः प्रयोगाः पूर्वमेवोपदर्शिताः | अत्र देवतान्तरपूजनमप्याह शारदायां पञ्चमपटले दलेषु पूजयेन्मूर्तीः शक्तिस्वस्तिकधारिणीः | दलाग्रे मातरः पूज्याः सासिताङ्गादिभैरवाः | लोकपालांस्ततो दिक्षु पूजयेदुक्तलक्षणान् || इति | ६१ | स्रुवञ्चेति चकारात् स्रुवञ्च | अधोमुखमिति ऊर्द्ध्वमुखमादाय तमधोमुखं कृत्वा प्रताप्येत्यर्थः | मूलादीति | मूलादग्रं यावत् त्रिधा मार्जयेत् | शारदायां पञ्चमपटले तु पश्चादादाय पाणिभ्यां स्रक्स्रुवौ तावधोमुखौ | त्रिः संप्रतापयेद् वह्नौ दर्भानादाय देशिकः | तदग्रमध्यमूलानि शोधयेत्तैर्यथाक्रमात् || (प्. २६०) घृतं तत्रैव संस्थाप्य वीक्षणादिविशोधनम् | कृत्वा चाङ्गारकं वायौ घृतमध्ये विनिक्षिपेत् || ६४ || इदन्तापनमित्युक्तं दर्भं प्रज्वाल्य निक्षिपेत् | हृदयेन च मन्त्रेण द्योतनं समुदीरितम् || ६५ || घृतादङ्गारदर्भांश्च गृहीत्वाग्नौ परिक्षिपेत् | अङ्गुष्ठानामिकाभ्यान्तु तत् पवित्रञ्च धारयेत् || ६६ || ततो व्यस्तक्रमेणैव तन्मध्येन घृतं क्षिपेत् | त्रिधा हृदयमन्त्रेण पवित्रं प्रोक्षयेत्ततः | तमग्नौ क्षेपयेदाज्यं बालया छाभिमन्त्रयेत् || ६७ || (धूपदीपार्पणम्) धूपं विस्तारयेत् सम्यक् कुण्डमण्डपपूरितम् | मेखलासु च सर्वासु दीपमाला नियोजयेत् || ६८ || (होमपूर्वकृत्यम्) सप्रादेशं दर्भयुग्मं ग्रन्थियुक्तं घृते क्षिपेत् || ६९ || शुक्लकृष्णपक्षयुगं (आज्ये नाडीत्रयचिन्तनम्) ध्यात्वा वामे च नाडिकाम् | इडां दक्षे पिङ्गलाञ्च सुषुम्णां मध्यभागतः || ७० || _________________________________________________________________ इत्यादिना क्रमेणाग्रमध्यमूलानां मार्जनं विहितम् | तट्टीकाकृता राघवभट्टेन दर्भमूलैस्तन्मूलम्, दर्भमध्यैस्तन्मध्यम्, दर्भाग्रैस्तदग्रमित्यादिना दर्भमूलमध्याग्रैः क्रमेण स्रुक् स्रुवयोर्मूलमध्याग्रमार्जनमुपदिष्टमिति दृश्यते | (प्. २६१) (अग्निनेत्रवक्त्रोद्घाटकहोमः) ध्यात्वा स्रुवेण दक्षात्तु भागादाज्यं हृदाणुना | जुहुयादग्नये स्वाहेत्यग्नेर्दक्षिणलोचने || ७१ || वामतस्तद्वदादाय वामे वह्निलोचने | जुहुयादथ सोमाय स्वाहेति हृदयाणुना || ७२ || मध्यादाज्यं समादाय वह्नेर्भालविलोचने | जुहुयादग्नीषोमाभ्यां स्वाहेति हृदयाणुना || ७३ || हृन्मन्त्रेण स्रुवेणाज्यं भागादादाय दक्षिणात् | जुहुयादग्नये स्विष्टिकृते स्वाहेति तन्मुखे || ७४ || हेतिं सम्पातयेद्भागे घृतस्याज्याहुतिक्रमात् | इत्यग्नेर्नेत्रवक्त्राणां कुर्यादुद्घाटनं गुरुः || ७५ || ________________________________________________________________ ६९-७५ | सप्रादेशमिति | प्रादेशमात्रं सग्रन्थिदर्भयुग्मं घृते क्षिपेदिति सम्बन्धः | शुक्लेति प्रागुक्तघृतभागयोरेकं शुक्लपक्षत्वेनापरं कृष्णपक्षत्वेन ध्यात्वेत्यर्थः | वाम इति | वामे चन्द्रनाडिकाम् इडाम् दक्षे पिङ्गलाम् अर्थात् सूर्यरूपाम्, मध्ये सुषुम्णामर्थात् चन्द्रसूर्याग्निरूपां ध्यात्वेति सम्बन्धः | हृदाणुनेति, नम इति हृन्मन्त्रेणेत्यर्थः | अत्र हृदाणुना दक्षिणाद् भागादाज्यमादाय अग्नये स्वाहेति जुहुयादिति सम्बन्धः | व्यक्तमुक्तं तन्त्रसारकृता नमः इति मन्त्रेण स्रवेण दक्षिणभागादाज्यमादाय अग्नेर्दक्षिणलोचने ओं अग्नये स्वाहेति जुहुयादिति | क्रमोऽयमुत्तरत्रापि | हेतिमिति हेतिराहुतिशेषः | तथाच यस्मात् भागादाज्यमादाय यो यो होमो विहितः, तस्मिन् भागे प्रागुक्ताज्याहुतिक्रमात् हेतिं प्रत्याहुतिं संपातयेदित्यर्थः | इत्यग्नेरिति | अनेनाग्नये स्वाहेत्याद्याहुतिचतुष्टयेन अग्नेर्नेत्राणां वक्रस्य च क्रमेणोद्घाटनं कुर्यादित्यर्थः | (प्. २६२) महाव्याहृतिहोमः) महाव्याहृतिहोमञ्च ताराद्येन चतुर्हुनेत् || ७६ || भूरग्नये पृथिव्यै च महते वह्निवल्लभा | भुवःपदाद् वायवे च अन्तरीक्षाय शब्दतः || ७७ || दिव्याय महते चैव वह्निजायावधिः स्मृतः | स्वरादित्यचन्द्रमसौ ङेन्तौ नक्षपदात्ततः || ७८ || त्रेभ्यः स्वाहापदान्ताच्च भूर्भुवःस्वःपदं पुनः | अग्न्यादित्यचन्द्रमसो ङेऽन्ता नक्षत्र इत्यपि | भ्यसन्तश्चैव दिग्भ्यश्च महते वह्निवल्लभा || ७९ || (ब्रह्मार्चनम्) ब्रह्माणं दक्षिणेऽभ्यर्च्य विधिवत् साधकोत्तमः || ८० || ________________________________________________________________ ७६-८० | अनन्तरकरणीयं महाव्याहृतिहोममाह-महेत्यादिना | ताराद्येन प्रणवाद्येन वक्ष्यमाणमन्त्रचतुष्टयेन चतुर्धा हुनेदिति सम्बन्धः | वक्ष्यमाणमन्त्रचतुष्टयात् पूर्वं प्रणवयोजनं कृत्वा तत्प्रणवयुक्तमन्त्रेण जुहुयादिति ज्ञेयम् | एवञ्च ओं भूरग्नये पृथिव्यै महते च स्वाहा १ | ओं भुवो वायवे अन्तरीक्षाय च दिव्याय महते च स्वाहा २ | ओं स्वरादित्याय चन्द्रमसे नक्षत्रेभ्यः स्वाहा ३ | ओं भूर्भुवः स्वरग्नये आदित्याय चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते च स्वाहा ४ | इति मन्त्रचतुष्टयं पर्यवस्यति | शाक्तानन्दतरङ्गिणीगन्धर्वतन्त्रादिषु मन्त्राणामेतेषामंशतः स्वरूपभेदो दृश्यते | अत्र तन्त्रसारकृता निरुक्तस्विष्टिकृद्धोमान्तरं सप्रणवव्याहृतिभिर्होममभिधाय तत्तत्कल्पोक्तहोमान्तरं ओं भूरग्नय इत्यादिमन्त्रैर्होम उक्तः | गन्धर्वतन्त्रे एकत्रिंशपटले तु गर्भाधानादिसंस्कारतः पूर्वं महाव्याहृतिहोमो नाभिहितः | परन्तु कल्पोक्तहोमानन्तरं ओं भूरग्नये इत्यादिभिर्होम उक्त इति क्रमभेदो दृश्यते | (प्. २६३) (अग्नेर्गर्भाधानादिसंस्काराः) गर्भाधानादिसंस्कारं वह्नेश्च कारयेत्ततः | इदमग्नेः करोम्येतद् गर्भाधानमतः परम् || ८१ || प्रणवं पूर्वमुच्चार्य शेषे वह्निवधूं वदेत् | हुत्वा सप्ताहुतीरेवं समिधः क्षेपणं तथा || ८२ || एवंक्रमात् पुंसवनं सीमन्तोन्नयनं ततः | जातकर्म समाप्याथ नालापनोदनाय च || ८३ || प्रादेशं पञ्चसमिधं मूलाग्रघृतसंयुतम् | ओं कामेश्वर-कामेश्वरीभ्यां स्वाहेति च निर्वपेत् || ८४ || वह्नेश्च पितरौ मन्त्री स्वाहया विनियोजयेत् | इष्टदेवस्य नाम्ना तु वह्नेर्नाम समाचरेत् || ८५ || उपनिष्क्रमणं पश्चादन्नप्राशनमीरितम् | चूडोपनयनं चैव समावर्तनमेव च || ८६ || विवाहञ्च शुभे कार्ये क्रूरकार्येषु मारणम् || ८७ || ________________________________________________________________ ८१ | अथाग्नेर्गर्भाधानादिसंस्कारानाह इदमित्यादिना | एवञ्च ओं इदमग्नेर्गर्भाधानं करोमि स्वाहा इति प्रयोगः पर्यवस्यति | मन्त्रेणानेन प्रत्येकं सप्ताहुतीर्दद्यात् | तन्त्रसारे तु सुन्दरीपक्षे ओं अग्नेर्गर्भाधानं कल्पयामि ऐ/ नमः इत्येकैकाहुतिं दद्यादिति प्रयोगक्रम उक्तः | ८३ | जातेति | नालापनोदनाय नाडीच्छेदाय | तदुक्तं राघवभट्टधृतवायवीयसंहितायाम् जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् | नालापनयनं कृत्वा ततः संशोध्य सूतकम् || इति | ८७ | विवाहञ्चेति | शुभे कार्ये विवाहान्ताः संस्काराः, क्रूरकार्येषु तु मारणान्ता इत्यर्थः | (प्. २६४) (जिह्वाङ्गदेवतादिहोमः) क्रमाज्जिह्वाऽन्गमूर्तीनां मन्त्रैर्होमं पृथक् चरेत् | वह्नेः षडङ्गमन्त्रेण षडाहुतिं समाचरेत् | न्यासक्रमेणाष्टमूर्तेर्होमं कुर्याद्विचक्षणः || ८८ || अथाऽदाय स्रुवेणाज्यं चतुः स्रुचि पिधाय ताम् | स्रुवेणोत्तिष्ठन्नेवाग्नौ देशिको यतमानसः | जुहुयादग्निमन्त्रेण वौषडन्तेन सम्पदे || ८९ || (गाणपत्यहोमः) महागणपतिमन्त्रेण हुनेत् पूर्वं दशाहुतीः | जुहुयाच्च चतुर्वारं समस्ते नैव तेन तु || ९० || तारादिषट्कबीजेन पूर्वपूर्वयुतेन च | भिन्नेनैव समस्तेन तन्मन्त्रश्च निगद्यते || ९१ || ________________________________________________________________ ८८ | अग्निजिह्वाङ्गमूर्तीनां होममाह-क्रमादिति | जिह्वाङ्गमूर्तीनां प्रागुक्तानाम् | आहुतिमेकैकाम् | तदुक्तं शारदायां पञ्चमपटले मन्त्रैर्जिह्वाङ्गमूर्तीनां क्रमाद् वह्नेर्यथाविधि | प्रत्येकं जुहुयादेकामाहुतिं मन्त्रवित्तमः || ८९ | अथेति | स्रुवेणाज्यमादाय चतुर्धा स्रुचि दत्त्वा तां स्रुचं स्रुवेण पिधाय यतमानसो देशिकः वौषडन्तेन वैश्वानरेत्याद्यग्निमन्त्रेण जुहुयादिति सम्बन्धः | ९०-९१ | महेति | पूर्वमादौ वक्ष्यमाणमहागणपतिमन्त्रेण व्यस्तेन दशधा एकैकाहुतिं ततः समस्तेन तु तेनाहुतिचतुष्टयं जुहुयादित्यर्थः | तत्र व्यस्तेन होममुपदिशति-तारादीत्यादिना | पूर्वपूर्वयुतेन तारादिषट्कबीजेनेत्यस्यायमर्थः प्रणवं श्रीमित्यादि मन्त्रोद्धारप्रतिपादकवक्ष्यमाणवचने प्रथमं प्रणवस्योक्तत्वात् प्रथमं ओं स्वाहेति स्वाहान्तेन प्रणवेन होमः, ततश्च ओं श्रीं स्वाहेति द्वितीयहोमे पूर्वोक्तप्रणवयुतेन श्रीबीजेन होमः, ततस्तृतीयहोमे ओं श्रीं ह्रीं स्वाहेति अत्रापि प्रणवश्रीयुतेन मायाबीजेनेति | एवमुत्तरत्रापि | (प्. २६५) (महागणपतिमन्त्रः) प्रणवं श्रीं महामायां स्मरं ग्लौमात्मकन्ततः | पञ्चान्तकं बिन्दुयुतं ङेन्तं गणपतिं ततः || ९२ || वरान्ते वरदञ्चैव सर्वान्ते जनमालिखेत् | मे वशमानय स्वाहा विंशत्यन्तगजान्तकः || ९३ || सामान्यं सर्वदेवीनां मुखमेतत् समीरितम् || ९४ || _________________________________________________________________ ९२-९४ | महागणपतिमन्त्रोद्धारक्रममाह-प्रणवमित्यादिना | तथाच ओं श्री/ ह्री/ क्ली/ ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा इति | विंशत्यन्तगजान्तकः विंशतिसंख्यान्ते गजान्तकः अष्टसंख्या यस्य तथाभूतः अष्टविंशत्यक्षरो महागणपतिमन्त्र इत्यर्थः | व्यक्तमाह मन्त्रकोषे श्रीशक्तिस्मरभूविघ्नबीजानि प्रथमं वदेत् | ङेऽन्तं गणपतिं पश्चाद् वरान्ते वरदं पदम् || उक्त्वा सर्वजनं मेऽन्ते वशमानय ठद्वयम् | अष्टाविंशत्यक्षरोऽयं ताराद्यो मनुरीरितः || ताराद्यः प्रणवाद्यः | मूलवचने ग्लौमान्तकन्तत इति पाठे तु आन्तकमित्यस्य आ अन्ते यस्य तथाभूतं पञ्चान्तकमित्यर्थे गाम् इति बीजं भवति | तत्पुस्तकपादटीकायामपि ओं श्री/ ह्री/ क्ली/ ग्लौ/ गां गणपतये इत्यादि मन्त्रोद्धारक्रमः प्रदर्शितः | परन्तु मन्त्रकोषतन्त्रसारगन्धर्वमहानिर्वाणादिषु गम् इत्याकारकबीजदर्शनात् आन्तकमिति पाठो न मूले निवेशितः | अत्रेदमवधेयम् पुर्वं महागणपतिमन्त्रेण हुवेत् पूर्वं दशाहुतीः इत्यादिना यो दशधा होम उक्तस्तस्यायं क्रमः - ओं स्वाहा १ | ओं श्रीं स्वाहा २ | ओं श्रीं ह्री/ स्वाहा ३ | ओं श्रीं ह्री/ क्ली/ स्वाहा ४ | ओं श्रीं ह्री/ क्ली/ ग्लौं स्वाहा ५ | ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वाहा ६ | ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये स्वाहा ७ | ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद स्वाहा ८ | ओं श्रीं ह्री/ क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं स्वाहा ९ | ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा १० | इति | एवं दशाहुतीर्हुत्वा समस्तेनाहुतिचतुष्टयं दद्यादित्येवोक्तम् चतुर्वारं समस्तेनैव तेन तु इत्यनेन | (प्. २६६) (वह्निमुखे मूलदेव्यर्चा) वह्निमुखे यन्त्रराजं रश्मिवृन्दसमन्वितम् | विभाव्यावाहयेद्देवीं श्रीमत्त्रिपुरसुन्दरीम् || ९५ || अर्चयेद् वह्निरूपां तां धूपदीपादिना सुधीः | (वह्निदेवतयोरैक्यसम्पादकहोमः) तन्मुखे मूलमन्त्रेण पञ्चविंशतिसंख्यया | आज्येन जुहुयान्मन्त्री वक्त्रैकीकरणं त्विदम् || ९६ || (नाडीसन्धानहोमः) वह्निदेवतयोरैक्यमात्मना सह भावयन् | मूलमन्त्रेण जुहुयादाज्येनैकादशाहुतीः || नाडीसन्धानमुद्दिष्टमेतदागमवेदिभिः || ९७ || (आवरणदेवताहोमः) तत आवृतिदेवार्थमेकैकामाहुतिं हुनेत् | (मूलदेवताहोमक्रमः) सङ्कल्पञ्च ततः कृत्वा काम्यहोमं समाचरेत् || ९८ || स्वाहान्तं मूलमुच्चार्य देवतायै त्विदं वदन् | जुहुयाज्ज्वलिते वह्नौ संख्याञ्च परितश्चरेत् || ९९ || (तान्त्रिकहोमाधिकारिनिर्णयः) द्विजानामधिकारोऽस्ति होमकर्मणि तान्त्रिके | (शूद्रे विशेषः) यदि कामी भवेच्चैव शूद्रोऽपि होमकर्मणि || १०० || वह्निजायां परित्यज्य हृदयान्तेन होमयेत् | (निरुक्तक्रमस्य प्रामाणिकतन्त्रसंवादित्वम्) वाराहीतन्त्रराजस्य मतमेतदुदीरितम् || १०१ || __________________________________________________________________ ९५ | वह्निमुख इति | यन्त्रराजं वक्ष्यमाणश्रीयन्त्रम् | ९६ | वक्त्रैकीकरणं वह्निमुखेन मूलदेव्या अभेदकल्पनम् | (प्. २६७) (जिह्वाभेदेन होमे फलभेदाः) ईशपूर्वाग्निजिह्वायां हवनं सिद्धिदायकम् | रक्षःस्थायां शान्तिकार्ये प्रतीच्यां स्तम्भकर्मणि | उच्चाटे वायुजिह्वायां मध्यस्थायान्तु मारणे || १०२ || (कामनाभेदेन यज्ञीयपात्रभेदाः) हेमरूप्यशिलामृत्स्नापात्रं शान्त्यादिषु स्मृतम् | विल्वाक्षशीग्रुघटितं मारणोच्चटनादिषु || १०३ || (होमे विहितं मुद्रात्रयम्) तिस्रो मुद्राः स्मृता होमे मृगी हंसी च कस्तुरी || १०४ || कस्तूरी करसंकोची हंसी युक्तकनिष्ठिका | मृगी कनिष्ठातर्जन्यौ त्यक्त्वा मुद्रात्रयं स्मृतम् || १०५ || (मुद्राणामासां विनियोगः) यज्ञे शान्तिककार्ये च मृगी हंसी प्रकीर्तिता || १०६ || अभिचारेषु सर्वेषु कस्तूरी परिकीर्तिता | (षट्कर्मसु होमे विशेषः) नमः स्वाहा वषड् वौषड् हुं फडन्ताश्च जातयः | शान्तौ वश्ये तथा स्तम्भे विद्वेषोच्चटमारणे || १०७ || ________________________________________________________________ १०३ | कामनाभेदेन यज्ञीयपात्रभेदानाह हेमेति | शान्त्यादिष्विति | शान्तौ हेममयम्, वशीकरणे रौप्यमयम्, स्तम्भने शिलामयम्, विद्वेषणे मृन्मयं पात्रम् | मारणोच्चटनादिषु विल्वाक्षशीग्रुघटितं पात्रं स्मृतमित्यर्थः | विल्वः प्रसिद्धः | अक्षः वयडा इति यस्य प्रसिद्धिः | शीग्रुः शोभाञ्जनः | एतदन्यतमकाष्ठनिर्मितं पात्रं मारणादिषु कर्तव्यमित्यर्थः | १०७ | नम इति | तथा च शान्तौ नमोऽन्ता मन्त्राः वशीकरणे वषडन्ताः, स्तम्भने वौषडन्ता इत्येवंक्रमेण प्रयोगाः कर्तव्या इत्यर्थः | (प्. २६८) (कुमारीपूजा) अथ संपूजयेन्मन्त्री कुमारीञ्च सुवासिनीम् | (श्रीविद्यापूजा) बालाबीजैर्यथान्यायं श्रीविद्यां पूजयेत् ततः || १०८ || (महाव्याहृतिहोमः पूर्णाहुतिश्च) देव्या व्याहृतिहोमञ्च कृत्वा पूर्णाहुतिं चरेत् | घृतेन स्रुचमापूर्य पुष्पमग्रे निधाय च || १०९ || सदर्भेण स्रुवेणैव उत्थायाऽच्छादनं चरेत् | अञ्जलिना गृहीत्वा तु मूलान्ते नयनं पठन् | यवरूपां हुनेद् धारां जयघोषपुरःसरैः || ११० || _______________________________________________________________ १०९-११० | देव्या इति महाव्याहृतिहोमः पूर्वमुक्तः | पूर्णाहुतिदानपरिपाटीमाह पूर्णेत्यादिना | घृतेनेत्यादि | तथा च स्रुवेण स्रुचं घृतेनापूर्य स्रुचोऽग्रे पुष्पं दत्त्वा उत्थाय सदर्भेण स्रुवेणाच्छादितां तां घृतपूर्णस्रुचमञ्जलिना गृहीत्वा वौषडन्तेन मूलमन्त्रेण यवरूपां यवसदृशपरीणाहां धारामग्नौ दद्यादिति | अत्र तन्त्रसारकारैः इतः पूर्वमित्यादिमन्त्रेण मूलमन्त्रेण च पूर्णाहुतिं दत्त्वा इत्यनेनात्मसमर्पणमन्त्रेण पूर्णाहुतिदानमभिहितम्, तत्प्रतिपादनानुकूलं प्रमाणन्तु नोपदर्शितम् | शाक्तानन्दतरङ्गिन्यामष्टादशोल्लासे अग्नेर्नामकरणं कृत्वा दद्यात् पूर्णाहुतिं प्रिये | ब्रह्मार्पणेन मनुना दद्यात् पूर्णाहुतिं पुनः || इत्यभिधानात् मूलेनेत्यादितन्त्रसारोक्तत्वाच्च मूलेन पूर्णाहुतिमेकां दत्त्वा पुनर्ब्रह्मार्पणेन मनुना पूर्णाहुतिं दद्यादिति प्रतीयतेऽन्यथा पुनःपदवैयर्थ्यं स्यात् | कौलावलीनिर्णये त्रयोदशोल्लासे तु स्रुचा पूर्णाहुतिं कृत्वा मूलमन्त्रेण देशिकः | उद्वास्य देवतां कुम्भे साङ्गावरणपूर्विकाम् || इत्यनेन केवलमूलमन्त्रेण पूर्णाहुतिदानमुक्तम् | प्रकृते तु यवरूपां हुनेद धारां तथा हुनेदष्टाहुतिं क्रमादिति पृथक् क्रियाद्वयोपादानात् क्वाप्यष्टाहुत्यात्मकपूर्णहोमानभि- (प्. २६९) (आत्मार्पणमन्त्रहोमः) आत्मार्पणेन मनुना हुनेदष्टाहुतिं क्रमात् || १११ || (आत्मसमर्पणमन्त्रः) प्रणवं पूर्वमुच्चार्य मूलमन्त्रमतः परम् | इतः पूर्वमिति प्रोच्य प्राणबुद्धीति चोच्चरेत् || ११२ || देहधर्माधिकारात्तु जाग्रत्-स्वप्नसुषुप्ति च | अवस्थासु मनसेति वाचा च कर्मणेति च || ११३ || हस्ताभ्यामथ पद्भ्यान्तु उदरेण च संस्मरेत् | शिङा यत् स्मृतमित्येतद् यदुक्तं यत् कृतन्तथा || ११४ || सर्वमित्यपि तद् ब्रह्मार्पणमस्त्वग्निवल्लभाम् | प्रणवञ्च मदीयं मां सकलं साध्यदेवताम् | ङेऽन्तां समर्पितं तारं तत् सदात्माऽर्पणे मनुः || ११५ || _________________________________________________________________ धानाच्च पूर्णाहुतिदानात् पृथगेवेदमात्मसमर्पणमन्त्रकरणकाष्टाहुतिप्रदानमिति प्रतीयते | एवञ्चात्र नानातन्त्रेषु मतभेदादर्शनात् स्वस्वगुरुसम्प्रदायानुसारेणैकतमः पक्षः समाश्रयणीय इति दिक् | ११२-११५ | आत्मसमर्पणमन्त्रस्वरूपं निरूपयति प्रणवमित्यादिना आत्मार्पणे मनुरित्यन्तेन | एवञ्च प्रथमं प्रणवस्ततो मूलं ततश्च इतः पूर्व प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं सर्वं तद् ब्रह्मार्पणमस्तु स्वाहा ओं मदीयं मां सकलं अमुकदैवतायै समर्पितं ओं तत् सदित्यात्मसमर्पणमन्त्रः पर्यवस्यति | अत्र गन्धर्वतन्त्रेऽष्टादशपटले विशेषः आत्मानञ्च क्रियाः सर्वा महामन्त्रेण पार्वति | ततो ब्रह्मस्वरूपिण्यै विशेषेण समर्पयेत् | (प्. २७०) (अग्नेरभ्युक्षणमर्चनञ्च) अभ्युक्ष्य पूजयेद् वह्निं गन्धपुष्पादिना सुधीः || ११६ || (पुनर्महाव्याहृतिहोमो जिह्वाहोमश्च) पुनर्व्याहृतिभिर्हुत्वा जिह्वादीनां विभावसोः | एकैकामाहुतिं हुत्वा तत्तन्मन्त्रेण देशिकः || ११७ || (प्रार्थनापूर्वकमग्नेर्विसर्जनम्) भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक | कर्मान्तरे च संप्राप्ते सन्निधिं कुरु सादरम् | अनेनाग्निञ्च संप्रार्थ्य क्षमस्वेति विसर्जयेत् || ११८ || अग्निमात्मनि संयोज्य दक्षिणान्तु प्रदापयेत् | नैमित्तिके च परिधीन् नित्ये नैव च संदहेत् || ११९ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ अष्टमः प्रकाशः || ८ || __________________________________________________________________ वारत्रयमितः पूर्वं प्राणबुद्धि ततः परम् | देहधर्माधिकारान्ते जाग्रत्स्वप्नसुषुप्तिषु || मनसा च ततो वाचा कर्मणा च ततः परम् | हस्ताभ्याञ्च ततः पद्भ्यामुदरेण ततः परम् || शिङा च यत् स्मृतं पश्चाद् यदुक्तं यत् कृतं भवेत् | मां मदीयं ततो देवि सकलञ्च ततः परम् || तथैव त्वयि शब्दान्ते ब्रह्मण्यर्पितमस्त्विति | स्वाहान्तो मनुरित्युक्तो मन्त्रः स्वात्मसमर्पणे || इति | ११९ | अग्निमिति | संयोज्य संहारमुद्रयेति शेषः | तदुक्तं तन्त्रसारे पूर्ववन्मेखलोपरि अद्भिः परिषिच्यात्मनि संहारमुद्रया पावकं योजयित्वेति | नैमित्तिक इति | नैमित्तिके कर्मणि परिधीन् पूर्वस्थापितान् दहेदग्नौ प्रक्षिप्येति शेषः | परन्तु नित्ये कर्मणि तान् न दहेदिति | तदुक्तं तन्त्रसारे परिधीन् सपरिस्तरानग्नौ क्षिपेत् | विशेषस्तु नैमित्तिके कर्मणि एतान् दहेत् नित्ये कर्मणि न दहेदिति | तन्त्रसारधृतशारदायाञ्च नैमित्तिके दहेन्मन्त्री नित्ये नैव दहेदिमान् | इति | नवमः प्रकाशः (द्रव्यभेदेन होमे फलभेदाः, होमद्रव्यपरिमाणभेदाः, अरिमन्त्रत्यागविधिश्च) (होम्द्रव्यनिरुपणप्रतिज्ञा) अथ प्रसङ्गाद् वक्ष्यामि होमद्रव्यस्य लक्षणम् || १ || (द्रव्यभेदेन होमे फलभेदाः) मालतीमल्लिकाजातीकुसुमैर्मधुमिश्रितैः | घृतसंपूर्णहवनाद् वागीशत्वं प्रजायते | मूढस्यापि च मूकस्य शिलारूपस्य नान्यथा || २ || करवीरजवापुष्पैः साज्यैर्होमैर्जगद् वशम् | योषितः सकला वश्या दासीभूता भवन्ति हि || ३ || मध्वक्तै रक्तवर्णैस्तु करवीरैः सगुग्गुलैः | हुत्वा लक्षं वशीकुर्याद् विंशतिं धरणीभुजाम् || ४ || मध्वक्तकरवीरैस्तु साङ्गं भूपं वशं नयेत् || ५ || सप्तरात्रन्तु साज्येन जुहुयाच्छशिना बुधः | पाटलैर्यूथिकाकुन्दैः शतपत्रैश्च जातिभिः || ६ || _______________________________________________________________ २ | पूर्वप्रकाशे होमप्रकरणं निरूप्य प्रकाशेऽस्मिन् प्रथमं होमोपकरणद्रव्यभेदान् तत्तद्द्रव्यकरणकहोमाधिगम्यतत्तत्फलभेदांश्चोपदिशति मालतित्यादिना | ५ | मध्वक्तेति | साङ्गम् अमात्यसुहृत्कोषादिराज्याङ्गसहितं भूपं राजानमित्यर्थः | ६ | शशिना कर्पूरेण | (प्. २७२) मालतीनवमल्लिभिर्मल्लिकापद्मकिंशुकैः | पूजनाद्धवनाद् वापि मिश्रितैरप्यमिश्रितैः | सर्वसौभाग्यमाप्नोति बुद्ध्या च वाक्पतिर्भवेत् || ७ || कमलैररुणैर्होमः सर्वसम्पत्तिदायकः | रक्तोत्पलैर्जगद् वश्यं राजानो वशगाः क्षणात् || ८ || नीलोत्पलैर्महादुष्टा वशमायान्ति नान्यथा | श्वेतोत्पलैः श्रियं वाचं लभते हवनाद् ध्रुवम् || ९ || कहारहवनान्मन्त्री सौभाग्यञ्च धनं हरेत् | वकुलस्य फलैः पुष्पैः सौभाग्यं जायते महत् || १० || कर्पूरं कुङ्कुमञ्चैव मिश्रं मृगमदेन हि | हवनान्मरणञ्चैव मन्त्रिणा विजितं भवेत् || ११ || चम्पकैः पाटलैर्होमाच्छ्रियं प्रोल्लसितां वराम् | प्राप्नोति मन्त्री महतीं स्तम्भयेज्जगतीमिमाम् || १२ || श्रीखण्डमगुरुं हुत्वा कर्पूरं गुग्गुलं तथा | भूपनागेन्द्रदेवानां पुरन्ध्रीर्वशमानयेत् || सर्वे लोका वशास्तस्य भवन्त्येव न संशयः || १३ || _________________________________________________________________ ७ | मिश्रितैरिति | मिश्रितैः पाटलादिनिरुक्तपुष्पैरेकीकृतैः | अमिश्रितैर्वा अन्यतमैर्वा इत्यर्थः | १२ | चम्पकैः पाटलैरिति मिश्रितैरित्यर्थः | अमिश्रितपाटलपुष्पेण होमस्य पूर्वमुक्तत्वात् | १३ | श्रीखण्डं चन्दनकाष्ठम् | (प्. २७३) लक्षहोमाल्लभेद्राज्यं दारिद्र्य-भयपीडितः | दुर्गोपसर्गशमनं पलत्रिमधुहोमतः || १४ || महापलेन नियतं रिपोः सैन्यं विनाशयेत् | खेचरो जायते रात्रौ कृत्वा होमं चतुष्पथे || १५ || रुधिराक्तेन च्छागस्य मांसेन निशि होमतः | मधुरत्रययुक्तेन गुरुणोक्तविधानतः | महाराष्ट्रं महादुर्गं समस्तं वशमानयेत् || १६ || पृथक् कृत्वा मधु क्षीरं घृतञ्च होमयेत् सुधीः | आयुर्धनमथाऽरोग्यं समृद्धिर्जायते नृणाम् || १७ || मधुना क्षीरयोगेण होमान्मृत्युं विनाशयेत् | दधिमाक्षिकयोगेण सौभाग्यं धनमाप्नुयात् || १८ || राजिकालवणाभ्यान्तु क्षोभयेज्जगतीमिमाम् | वशयेद्दुष्टलोकांश्च हवनान्नात्र संशयः || १९ || दध्नाऽष्टशतकं हुत्वाऽकालमृत्युं वशं नयेत् || २० || जुहुयात् क्षीरसंयुक्तं घृतमष्टशतं बुधः | मध्वाज्यगुग्गुलेनैव राजेन्द्रं वशमानयेत् || २१ || होमाद्दधिमधुक्षीरलाजाभिः साधकोत्तमः | रोगहन्ता लोकहन्ता मृत्युहन्ता भवेद् ध्रुवम् || २२ || ________________________________________________________________ १४ | त्रिमध्विति | त्रिमधुरमाह राघवभट्टधृतप्रयोगसारे पयो मधु घृतञ्चेति समं त्रिमधुरं स्मृतम् | इति | १९ | राजिका राजसर्षपः | राजिकापि च केदारे राजसर्षपरेखयोरिति मेदिनी | (प्. २७४) आरोग्यं घृतदुग्धाभ्यां हवनेन शताष्टकम् | तिलाज्यहोममात्रेण सर्वकर्माणि साधयेत् || २३ || सितां हुत्वा तु मन्त्रज्ञो रिपोः स्तम्भनमाचरेत् | गुग्गुलस्य च होमेन सर्वदुःखानि नाशयेत् || २४ || वैरिणो वशगाः शीघ्रं चन्दनस्यापि होमतः | रक्तचन्दनहोमेन वश्या हि पुरुषाः स्त्रियः || २५ || कर्पूरस्य च होमेन वाग्वश्यं जायते नृणाम् | कस्तूरीहवनान्मन्त्री सर्वे वश्या भवन्ति हि || २६ || तिलतण्डुलहोमेन सर्वशान्तिर्भवेद् गृहे | शर्करागुडहोमेन सर्वकार्याणि साधयेत् || २७ || घृतपायसहोमेन वशीकुर्यान्महाग्रहान् || २८ || पूर्णवदरहोमेन सितायुक्तेन मन्त्रिणः | त्रैलोक्यं वशमाप्नोति धान्यवृद्धिर्भवेत् किल || २९ || दशाङ्गधूपहोमेन सौभाग्यमतुलं भवेत् | पूर्णदाडिम्बहोमेन वशीकुर्यान्महाग्रहान् || ३० || सम्पूर्णवरहोमेन वशीकुर्यान्महीश्वरान् | मातुलुङ्गफलैर्होमात् क्षत्रिया वशगा ध्रुवम् || ३१ || ________________________________________________________________ २४ | सितां शर्कराम् | ३१ | वरहोमेन कुङ्कुमहोमेन | (प्. २७५) नागरङ्गफलैर्होमाद् वैश्या वश्या भवन्ति हि | कुष्माण्डफलहोमेन शूद्रा वश्या भवन्ति हि || ३२ || द्राक्षाफलैः सिद्धयोऽष्टौ लक्षहोमान्न संशयः || ३३ || कदलीफलहोमेन लक्षमात्रेण भूभृतः | वश्यास्तु दशसंख्याता भवन्त्येव न संशयः || ३४ || खर्जूरफलहोमेन लक्षमात्रेण भूभृतः | वश्या विंशतिसंख्याता भवन्त्येव न संशयः || ३५ || नारिकेलफलैर्होमात् समृद्धिर्जायतेऽचिरात् | लक्षमात्रेण मन्त्रज्ञो राजतुल्यो भवेद् ध्रुवम् || ३६ || पक्वाम्रफलहोमेन लक्षमात्रेण मन्त्रवित् | चतुःसमुद्रपर्यन्तां मेदिनीं वशमानयेत् || ३७ || जम्बूफलैः स्त्रियो वश्याः कुष्माण्डैर्दैत्यकन्यकाः | श्रीफलैरुत्तमां लक्ष्मीं पत्रैर्वा होमतो लभेत् | इक्षुदण्डैः सुखावाप्तिस्तद्वशा राजकन्यकाः || ३८ || (होमद्रव्यपरिमाणम्) अथ वक्ष्यामि द्रव्यस्य मानं हवनसिद्धिदम् | पुष्पं समग्रं जुहुयात् कमलेनापि पुष्कलम् || ३९ || कुसुम्भं वाणपुष्पञ्च यथेष्टं जुहुयात् सुधीः | शतसंख्यास्तिलाश्चैव राजिकाः शतसंख्यया || ४० || _______________________________________________________________ (प्. २७६) लाजा मुष्टिप्रमाणाः स्युर्घृतं कर्षमितं तथा | चुल्लुकार्द्धं तथा क्षीरमन्नं ग्रासमितं भवेत् || ४१ || स्थूलं फलञ्च कुष्माण्डं मातुलुङ्गं तथैव च | मनःप्रियैश्च खण्डैश्च फलैर्भवति निश्चयात् || ४२ || रम्भाफलं चतुःखण्डं लघु चेत् खण्डितं न हि | पनसैः फलगर्भस्थैश्चूतैर्मधुयुतैर्हुनेत् || ४३ || इक्षुखण्डं पुरास्थाने मनःसन्तोषकारणम् | द्राक्षाफलं समस्तं स्यान्नागरङ्गञ्च खर्जुरम् || ४४ || गुग्गुलं क्रमुकार्द्धञ्च कुङ्कुमञ्च तथा भवेत् | गुञ्जासमानं कर्पूरं कस्तूरी घुसृणं तथा || ४५ || अगुरुं चन्दनञ्चैव क्रमुकेण समं भवेत् | मनःप्रियाणि सर्वाणि फलानि हवनाय च || ४६ || मनःप्रियाहुतीः कृत्वा सर्वमन्यद्धुनेत् सुधीः | एतदाहुतिमानं स्यात् (तस्यैव प्रकारान्तरम्) प्रकारान्तरमुच्यते || ४७ || दधि प्रसृतिमानं स्यात् पृथुकाः शक्तवोऽपि च | भवन्ति कर्षमाणञ्च गुडं पलार्द्धमात्रकम् || ४८ || _________________________________________________________________ ४४ | पुरास्थाने पर्वदेशे | (प्. २७७) ग्रासार्द्धं चरुमानं स्यात् पत्रमेकमुदाहृतम् | मातुलुङ्गं चतुःखण्डं पनसं दशधा स्मृतम् || ४९ || अष्टधा नारिकेलानि खण्डितानि विदुर्बुधाः | त्रिधा खण्डं फलं वैल्वं कपित्थं खण्डितं द्विधा || ५० || फलान्यन्यानि खण्डानि समिधः स्युर्दशाङ्गुलाः | व्रीहयो मुष्टिमात्राः स्यू रक्तमाषा यवा अपि || ५१ || तण्डुलाः स्युस्तदर्धांशास्तिलाश्चुल्लुकसम्मित्ताः | तिन्तिडीबीजमानानि मरीचान्यपि विंशतिः || ५२ || (द्रव्यानुक्तौ विशेषः) अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते || ५३ || _______________________________________________________________ ५१ | समिध इति | दशाङ्गुलाः प्रादेशपरिमाणाः | समिधां लक्षणमाह कर्मप्रदीपेऽष्टखण्डे- नाङ्गुष्ठादधिका ग्राह्या समित् स्थूलतया क्वचित् | न निर्मुक्तत्वचा चैव न सकीटा न पाटिता || प्रादेशान्नाधिका नोना तथा चैव द्विशाखिका | न सपत्रा न निर्वीर्या होमेषु च विजानता || विशीर्णा विदला ह्रस्वा वक्रा स्थूला कृशा द्विधा | क्रिमिदष्टाश्च दीर्घाश्च वर्जनीयाः प्रयत्नतः || क्रिमिदष्टाश्च दीर्घाश्च वर्जनीयाः प्रयत्नतः || गृह्यासंग्रहे प्रथमप्रपाठके विशीर्णायुःक्षयं कुर्याद्विदला व्याधिसम्भवा | ह्रस्वा वाधिकरी प्रोक्ता दुर्भगत्वन्तु वक्रया || विघ्नानि कुरुते स्थूला कृशा च रिपुवर्द्धिनी | द्विधा नाशयते ह्यर्थं भार्याञ्च प्रियबान्धवान् || कीटदष्टाऽतिभयदा दीर्घा चैव सुतान् हरेत् | तस्मात् सर्वप्रयत्नेन वर्जनीयाश्च वर्जयेत् || इति | (प्. २७८) (वैरिमन्त्रपरित्यागक्रमः) अथारिमन्त्रत्यागस्य विधिः सम्यक् प्रचक्ष्यते || ५४ || शुचिः समाहितो भूत्वा प्रारभेत् प्रवरे दिने | अशेषदुःखनाशाय देशिकः प्रवरं विधिम् || ५५ || (घटस्थापनम्) तत्राऽदौ रम्यभवने कुम्भं दीक्षाविधिक्रमात् | मण्डले स्थापयेद् विद्वान् पूरयेत्तं जलैः शुभैः || ५६ || (तत्र सावरणसाध्यदेवतापूजा) विलोममन्त्रपाठेन तत्राऽवाह्य तु देवताम् | सकलीकृत्य संपूज्याऽवरणानि प्रपूजयेत् || ५७ || एवमावरणानीष्ट्वा मन्त्री मन्त्रस्य देवताम् | हुत्वा विलोममन्त्रेण सर्पिषा गोरपि द्विजः || ५८ || (दिक्पालवलिः) ततो यथावद्दुग्धान्नैर्देवताभ्यो वलिं हरेत् | विदिक्षु दिक्षु च तथा वक्ष्यमाणैर्मनुक्रमैः || ५९ || (तत्रेन्द्रस्य वलिमन्त्रः) ओं आयाहीन्द्र सुराधीश शतमन्यो शचीपते | नमस्तुभ्यं गृहाणेमं पुष्पधूपादिकं वलिम् (१) || ६० || (अग्नेः) ओं आयाहि तेजसां नाथ हव्यवाह वरप्रद | गृहाण पुष्पधूपादिवलिमेनं सुपूजितम् (२) || ६१ || _________________________________________________________________ ५४ | पूर्वं द्वितीयप्रकाशे वैरिमन्त्रा निरूपिताः | सम्प्रति तेषामनिष्टफलकानां विधिना परित्यागस्य क्रममाह-अथारिमन्त्रत्यागस्येत्यादिना | ५७ | सकलीकृत्य षडङ्गमन्त्रैरिति शेषः | (प्. २७९) (यमस्य) ओं प्रेतराज समायाहि भिन्नाञ्जनसमप्रभ | वलिं दत्तं गृहाणेमं सुप्रीतो वरदो भव (३) || ६२ || (निरृतेः) ओं नमस्ते रक्षसां नाथ नैर्-ऋते त्वमिहागतः | गृहाण वलिपूजादि मया भक्त्या निवेदितम् (४) || ६३ || (वरुणस्य) ओं एहि पश्चिमदिक्पाल लोकनाथ नमोऽस्तु ते | भक्त्या निवेदितां पूजां गृहीत्वा प्रीतिमाप्नुहि (५) || ६४ || (वायोः) ओं प्रभञ्जन प्राणपते त्वमेहि सपरिच्छदः | मया प्रयुक्तं विधिवद् गृहाण वलिमादरात् (६) || ६५ || (कुबेरचन्द्रयोः) ओं कुबेर-तारकाधीशावागच्छेतां सुरोत्तमौ | पुष्पधूपादिभिः प्रीतौ भवेतां वरदौ मम (७) || ६६ || (ईशानस्य) ओं ईश त्वमेहि भगवन् सर्वविद्यामय प्रभो | पूजितः पुष्पधूपाद्यैः प्रातो भव विभूतये (८) || ६७ || (ब्रह्मणः) ओं आयाहि सर्वदेवानां नाथ ब्रह्मन् समर्चनम् | गृहाण सर्वविघ्नान् मे निवर्तय नमोऽस्तु ते (९) || ६८ || (अनन्तस्य) ओं आगच्छ वरदाव्यक्त विष्णो विश्वस्य नायक | पूजितः परया भक्त्या भव त्वं सुखदो मम (१०) || ६९ || (प्. २८०) (साध्यदेवतापूजा) ततः सपरिवाराञ्च पूजयेन्मन्त्रदेवताम् | मन्त्रेण विपरीतेन पुष्प-धूपोपचारकैः || ७० || (प्रार्थनम्) ततस्तु प्रार्थयेद् विद्वान् पूजितां मन्त्रदेवताम् || ७१ || (तत्र मन्त्राः) आनुलोक्यमनालोक्य मया तरलबुद्धिना | तदुपात्तं पूजितञ्च प्रभो मन्त्रस्वरूपकम् | तेन मे मनसः क्षोभं विनिवर्तय सर्वदा || ७२ || पापं प्रतिहतञ्चास्तु भूयाच् श्रेयः सनातनम् | तनोतु मम कल्याणं पावनी भक्तिरेव ते || ७३ || (तदनन्तरकृत्यम्) इति संप्रार्थ्य मन्त्राणां वर्णं पत्रे विलोमतः | लिखित्वाऽमलकर्पूरचन्दनेन समर्चयेत् | कलसोपरि संस्थाप्य भक्त्या परमया पुनः || ७४ || तत् पत्रं मतिमान् पश्चाद् बद्ध्वा निजशिरस्यथ | स्नायात् पूजितकुम्भस्थतोयैर्मन्त्रमयैः शुभैः || ७५ || पुनश्चान्येन तोयेन कुम्भमापूर्य संयतः | तन्मध्ये मन्त्रपत्रञ्च निक्षिप्याथ प्रपूजयेत् || ७६ || तन्मध्ये निम्नगातीरे शुद्धे वाऽन्यजलाशये | निक्षिपेद्दश विप्रांश्च यथाशक्त्या प्रपूजयेत् || ७७ || ______________________________________________________________ ७० विपरीतेन विलोमेन | (प्. २८१) (निरुक्तानुष्ठानजं फलम्) एवंकृतविधानस्य रिपुमन्त्रोद्भवा रुजः | नश्यन्त्येव न सन्देहः क्रमाच्चित्तप्रसन्नता || ७८ || जायतेऽतीव सम्पन्नो वर्द्धते स्वकुलं क्रमात् | (विधेरस्य प्रामाणिकग्रन्थसंवादित्वम्) मालिनीविजयस्येति मतमेतदुदीरितम् || ७९ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ नवमः प्रकाशः || ९ || दशमः प्रकाशः आदौ पञ्चमी, तत एकाक्षरी, ततस्त्रिकूटचतुष्कूटमन्त्रभेदाः) (श्रीमत्त्रिपुरसुन्दरीविद्यानिरूपणप्रतिज्ञा) अथ वक्ष्यामि तां विद्यां संसारार्णवतारिणीम् | सर्वशास्त्रमयीं देवीं सर्वकारणरूपिणीम् || १ || उत्पत्तिस्थितिसंहारकारिणीं मुक्तिदायिनीम् | ब्रह्मविष्णुभवैर्वन्द्यां श्रीमत्त्रिपुरसुन्दरीम् || २ || तस्या मन्त्रं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् | (पञ्चमी विद्या) तत्रादौ पञ्चमी विद्या कथ्यते भुवि दुर्लभा || ३ || ______________________________________________________________ १-२ | एवं पूर्वपूर्वप्रकाशैः साङ्गं दीक्षाक्रमं विस्तरत उपपाद्य श्रीमत्त्रिपुरसुन्दरीविद्यास्वरूपनिरूपणाय प्रतिजानीते अथेति | अस्याः स्वरूपमाह- संसारार्णवतारिणीमित्यादिना श्रीमत्त्रिपुरसुन्दरीमित्यन्तेन | श्रीमत्त्रिपुरसुन्दरीमिति | त्रिपुराशब्दनिर्वचनमाह गन्धर्वतन्त्रे द्वितीयपटले त्रीन् यस्मात् पुरतो दद्यादृर्गा(?) सा परमेश्वरी | त्रिपुरेति समाख्याता सौन्दर्यातिशयात्तथा || इति | त्रिपुरामहोपनिषद्भाष्यधृतकालिकापुराणेऽपि त्रिकोणमण्डलं चास्या भूपुरञ्च त्रिरेखकम् | मन्त्रोऽपि त्र्यक्षरः प्रोक्तस्तथा रूपत्रयं पुनः || त्रिविधा कुण्डलीशक्तिस्त्रिदेवानाञ्च सृष्टये | सर्वं त्रयं त्रयं यस्मात् त्र्यक्षरी त्रिपुरा मता || इति | ३-४ | तस्या इति | त्रिपुरसुन्दर्याः | त्रिपुराया वहवो भेदाः क्रमेण प्रदर्शयिष्यन्ते | (प्. २८३) दुर्लभा सा महाविद्या पञ्चकूटात्मिका परा | नित्या च मुक्तिदा शुद्धा सुखदा दुःखनाशिनी || ४ || (पाञ्चभौतिकस्य जगतः पञ्चकुटात्मकत्वम्) देवीपञ्चात्मकं सर्वं जगदेतच्चराचरम् | पृथिव्यापस्तथा तेजो वायुराकाशसम्भवम् || ५ || (पृथिव्यादीनां तत्तद्देवताशक्तित्वम्) पृथिवी ब्राह्मणी शक्तिर्जलं नारायणी तथा | तेजो रुद्रस्य रुद्राणी वायुरीशस्य चेश्वरी || ६ || माहेश्वरी तथाऽकाशं शक्तिर्माहेश्वरस्य च | पञ्चदेवात्मकं पञ्च पञ्चमी-पञ्चशक्तयः || ७ || (निरुक्तकूटपञ्चकात्मकशक्तिपञ्चकनिरूपणम्) आद्या कामेश्वरी ज्ञेया तथा वज्रेश्वरी शुभा | तृतीया भगमाला च तुर्या त्रिपुरसुन्दरी || ८ || नित्या च पञ्चमी शक्तिः परंब्रह्मस्वरूपिणी || ९ || (पञ्चम्याः स्वरूपम्) परमानन्दरूपं यज्जगतां कारणं महत् | तस्माद्देव्याश्च तद्रूपमुदयास्तविवर्जितम् || १० || _______________________________________________________________ तत्र प्रथमं पञ्चमीं व्याचष्टे तत्रादावित्यादिना | पञ्चकूटात्मिकेति | वाग्भवकूटं कामराजकूटत्रयं शक्तिकूटञ्चेति तदात्मिकेत्यर्थः | ६-७ | पृथिवी ब्राह्मणी शक्तिरित्यादिना यत् पृथिव्यादीनां ब्रह्मादिशक्तित्वमुपपादितम्, तस्य फलितमाह-पञ्चेति | पञ्चदेवात्मकं प्रागभिहितब्रह्मादिपञ्चदेवात्मकं पञ्च पृथिव्यादयः पञ्चम्याः पञ्चशक्तय इति ज्ञेयमित्यर्थः | एतेन पञ्चभूतात्मकमातृकावर्णानां मन्त्रघटकता व्याख्याता | विशेषस्तु योगिनीहृदये द्वितीयपटलेऽनुसन्धेयः | १० | उदयास्तविवर्जितं ध्वंसप्रागभावातीतम् | (प्. २८४) स्थूलत्वे स्थूलरूपा सा सूक्ष्मत्वे सूक्ष्मरूपिणी | स्थूलसूक्ष्मविभेदेन परंब्रह्मस्वरूपिणी || ११ || (शिवादभिन्नेयं शक्तिः) योऽसौ विश्वेश्वरो देवो विश्वं व्याप्य व्यवस्थितः | सैव विश्वेश्वरी देवी व्यापकत्वेन संस्थिता || १२ || सा एव पञ्चमी विद्या पञ्चकूटात्मिका परा | (निरुक्तपञ्चमीप्रसादादेव शिवादीनामिश्वरत्वादि) शम्भुना चिन्त्यते सा तु तत्प्रसादाच्छिवो विभुः || १३ || जगतामीश्वरत्वञ्च लब्धं तदनुकम्पया | ब्रह्मत्वं ब्रह्मणा प्राप्तं विष्णुत्वं विष्णुना स्वयम् || १४ || ________________________________________________________________ ११ | देव्या रूपत्रयमाह स्थूलत्व इति | अत्रेदमवधेयम् स्थूलसूक्ष्मपरभेदेन देवताया रूपत्रयमागमेषु दृश्यते | तत्र ध्यानप्रतिपादितं विलक्षणशिरःकरचरणादिविशिष्टं रूपं स्थूलम्, मन्त्रात्मकं रूपं सूक्ष्मम्, पररूपन्तु देशकालादिभिरनवच्छिन्नमन्तर्यागरूपोपासनागम्यमिति | तदुक्तं तन्त्रराजे चतुर्थपटले स्थूलं समस्तया नाम्ना सूक्ष्मं मन्त्रतनुं तथा | पररूपं त्वर्पणेन विदितं पूजनं शिवे || इति | व्यक्तमाह त्रिपुरोपनिषद्भाष्ये तत्रभवता भास्कररायेण देवतायाश्च त्रीणि रूपाणि स्थूलं सूक्ष्मं परञ्चेति | तत्राद्यं तत्तद्ध्यानश्लोकोक्तम्, द्वितीयं तत्तन्मूलमन्त्रात्मकम्, तृतीयन्तूपासनात्मकम् | देवतायास्त्रैविध्यादुपास्तिरपि त्रिविधा बहिर्यागजपान्तर्यागभेदादिति | एवञ्च स्थूलत्व इत्यादिग्रन्थस्यायमर्थः | उपासनायाः स्थूलत्वे ध्यानप्रतिपादितमूर्तिपूजायामित्यर्थः, सा देवता स्थूलरूपा, सूक्ष्मत्वे मन्त्रजपरूपायां सूक्ष्मोपासनायां सा सूक्ष्मरूपा, अन्तर्यागरूपपरोपासनायान्तु स्थूलसूक्ष्मविभेदेन प्रोक्तस्थूलसूक्ष्मभेदराहित्येन सा देवता परंब्रह्मस्वरूपिणीत्यर्थः | (प्. २८५) सुरासुरमुनीन्द्राणां महत्त्वं तत्प्रसादतः || १५ || (एतदुपासनयैव विश्वामित्रस्य सृष्ट्यादिकर्तृत्वम्) विश्वामित्रे पुरा प्रोक्ता शिवेन दुर्लभा परा | सोऽपि चाभूत् स्वयं कर्ता शिवतुल्यो महामुनिः || १६ || सृष्टिसंहारकारी च प्रभुरेकोऽभवत् स्वयम् | (अस्या ब्रह्मविद्यास्वरूपत्वम्) अतिगुह्यतमा विद्या ब्रह्मविद्यैव केवला || १७ || (एतद्विद्योपासनाधिकारिनिर्णयः) सर्वदानन्दहृदयोऽद्वैतानन्दपरायणः | गुरुभक्तो जिताक्षश्च पञ्चमीं समुपासयेत् || १८ || (अस्याः प्रकर्षः) सर्वतीर्थमयी विद्या सर्वमन्त्रमयी परा | सर्वदेवमयी शुद्धा सर्वशक्तिमयी शुभा || १९ || (पञ्चमीविद्याविदः प्रकर्षः) पृथिव्यां मानवः श्रेष्ठो यदि जानाति पञ्चमीम् || २० || यो जानाति महाविद्यां पञ्चकूटात्मिकां पराम् | स भवेत् खेचरो नित्यमभ्यासान्नात्र संशयः || २१ || सदाम्नायविशुद्धात्मा योगी भोगपरायणः | सर्वथा लभते मुक्तिं यदि जानाति पञ्चमीम् || स पूज्यः सर्वलोकेषु स देवो न तु मानुषः || २२ || (प्. २८६) समयाचारसम्पन्नो भूतशुद्धिं इचिन्तयेत् | कल्पनाशुद्धभावेन सर्वसिद्धिं लभेत्तु सः || २३ || सदानन्दमयो भूत्वा पञ्चमीं यो विचिन्तयेत् | पञ्चतत्त्वपरिज्ञानादमरत्वं लभेन्नरः | कारणानन्दरूपेण पञ्चमीं समुपासयेत् || २४ || (पञ्चतत्त्वस्य ब्रह्मादिरूपत्वम्) पञ्च तत्त्वात्मकं पञ्च ब्रह्माद्याः पञ्च देवताः | तथैव शक्तयः पञ्च पञ्चतत्त्वेन पञ्चमी | पञ्च कूटप्रकारेण त्रिकूटा वाग्भवादितः || २५ || (अथ पञ्चमी, तत्र वाग्भवकूटम्) स्मरो योनिर्माया क्षितिरथ कलालाञ्छितशिरो- मधादेवो वह्निर्विरचिततनुः शून्यघटितः | इदं गुह्यं बीजं सकलकविताकारणपरं नरो लक्षं जप्त्वा सुरगुरुसमानः स भवति || २६ || ________________________________________________________________ २६ | तत्र प्रथमं पञ्चमी त्रिपुरा श्रीः स्यादिति योगिनीहृदयद्वितीयपटलोक्तायाः पञ्चम्याः श्रीविद्यायाः कूटपञ्चकघटितपञ्चविंशत्यक्षरमन्त्रमभिदधानः प्रथमं वाग्भवकूटं निर्वक्ति-स्मर इत्यादिना | स्मरः ककारः योनिरेकारः, माया ईकारः, क्षितिर्लकारः एतेन क ए ई ल इति प्राप्तम् | अथेति, एतद्बीजचतुष्टयानन्तरमित्यर्थः | कलया ईकारेण लाञ्छितं शिरो यस्य तथाभूतो महादेवो हकारः, वह्नी रकारः, तथा शून्यघटितः शून्येन बिन्दुना घटितः युक्त इत्यर्थः | विरचिततनुरिति एभिरीकारहकाररकारबिन्दुभिर्विरचिता तनुर्यस्य तथाभूतः | एतेन ह्रीं इति लब्धम् | एवञ्च क ए ई ल ह्रीं इति प्रथमं वाग्भवकूटमिति फलितम् | व्यक्तमाह तन्त्रसारे कामं विष्णुयुतं देवि शक्तिर्मायेन्द्र एव च | महामाया ततः पश्चाद् वाग्भवं बीजमुद्धरेत् || इति | स्पष्टमन्यत् | (प्. २८७) एतद् वाग्भवबीजमेवमुदितं (कामराजकूटत्रयम्) वक्ष्यामि शेषं परं शम्भुः सोमरवी मही भगवतीबीजं क्रमेणोच्चरेत् | कन्दर्पारिरवीशशक्रमुदितं बीजं भवान्याः परं कामं शम्भुसमीरणेन्द्रगिरिजाबीजं क्रमेणोद्धरेत् || २७ || ________________________________________________________________ २७ | एवं वाग्भवकूटमभिधाय कूटत्रयात्मकं कामराजं वक्तुमुपक्रमते एतदित्यादिना | एतदिति पूर्ववचनेन वाग्भवकूटमुदितमिति सम्बन्धः | शेषमिति कामराजकूटं वक्ष्यामीत्यर्थः | तत्र कामराजस्य कूटत्रयघटितस्य प्रथमं कूटं निर्वक्ति-शम्भुरित्यादिना | शम्भुर्हकारः, सोमः (चन्द्रबीजं) सकारः, रविः ककारः, मही (पृथ्वीबीजम्) लकारः, भगवती (मायाबीजम्) ह्रीम् | एवञ्च ह स क ल ह्रीमिति कामराजस्य प्रथमं कूटम् | व्यक्तमाह तन्त्रसारे वियच्चन्द्रस्ततः पश्चात् क-लौ नकुलि वह्नि च | मायास्वरेण संयुक्तं नादबिन्दुकलान्वितम् | प्रथमं कामराजस्य कूटं परमदुर्लभम् || इति | द्वितीयं कूटमाह कन्दर्पेति | कन्दर्पारिः (शिवः) हकारः, रविः ककारः, ईशो हकारः, शक्रो लकारः, परमिति अतः परं भवान्या बीजं ह्रीमिति | एवञ्च ह क ह ल ह्रीमिति द्वितीयं कूटमिति फलितम् | व्यक्तमाह तन्त्रसारे वियद्विष्णुयुतं कामो हंसः शक्रस्ततः परम् | महामाया ततः पश्चात् स्वप्नावतीति कथ्यते || इति | इदं कामराजद्वितीयकूटमेव स्वप्नावती विद्येत्येतदपि तन्त्रसारवचनादस्मादवगन्तव्यम् | स्वयमप्यग्रे वक्ष्यते | तृतीयं कूटमाह काम इत्यादिना | कामः ककारः, शम्भु हकारः, समीरणो यकारः, इन्द्रो लकारः, गिरिजाबीजं ह्रीम् | एवञ्च क ह य ल ह्रीमिति तृतीयं कूटमिति फलितम् | व्यक्तमाह तन्त्रसारे (प्. २८८) (एतत्कूटत्रयजपफलम्) एतद्बीजवरं त्रिकूटघटितं श्रीकामराजाभिधं जप्त्वा देवमुनीन्द्रवृन्दसकलो लोकत्रये राजते | (शक्तिकूटम्) वक्ष्येऽन्यत् परमं समस्तजगतामेकाधिपं कामदं शम्भुं मन्मथशक्रसोमसहितं देवीं क्रमेणोद्धरेत् || २८ || (अस्याः प्रकर्षः) एषा श्रीत्रिपुरा परा हितकरी विद्यार्थसिद्धोदया रक्ते मानसपङ्कजे विशतु मे कामासनाधिष्ठिते | __________________________________________________________________ मादनं शिवबीजञ्च वायुबीजं ततः परम् | इन्द्रबीजं ततः पश्चान्महामायां समुद्धरेत् || इति | इदं तृतीयं कामराजकूटमेव मधुमती विद्येति अग्रे वक्ष्यते | २८ | एतत्कूटत्रयघटितकामराजजपफलमाह-एतदित्यादि | एवं कूटचतुष्टयमभिधाय पञ्चमं श्क्तिकूटमाह-वक्ष्येऽन्यदित्यादिना | शम्भुः हकारः मन्मथः ककारः, शक्रो लकारः सोमः (चन्द्रबीजं) सकारः, देवी (मायाबीजं) ह्रीम् | एवञ्च ह क ल स ह्रीमिति पञ्चमं कूटमिति | व्यक्तमाह तन्त्रसारे शिवबीजं ततः काममिन्द्रं देवीं नियोजयेत् | महामायां ततः पश्चाच्छक्तिकूटं समुद्धरेत् || इति | अत्रेदमवधेयम् पञ्चविंशत्यक्षरात्मकोऽयं मन्त्रः पञ्चकूटात्मकः | अत्र कूटशब्दः समूहार्थकः वैशेषिकादीनां कारणकूटादिशब्दवत् | तथा च प्रथमं निरुक्तपञ्चाक्षरात्मकं वाग्भवकूटम्, द्वितीयं निरुक्तपञ्चदशाक्षरात्मकं कामराजकूटम्, तृतीयं निरुक्तपञ्चाक्षरात्मकं शक्तिकूटमिति समष्ट्या चैतेषां मन्त्रोऽयं पञ्चविंशत्यक्षरो भवति | तदुक्तं तन्त्रसारधृतकुलोड्डिशे गन्धर्वतन्त्रे तृतीयपटले च वाग्भवं प्रथमं कूटं शक्तिकूटञ्च पञ्चमम् | मध्यकूटत्रयं देवि कामराजं मनोहरम् || इति | साधकानां सुखबोधाय रेखापातेन कूटानामेतेषां संस्थानं प्रदर्श्यते (प्. २८९) ब्रह्मानन्तपुरारिमौलिमुकुटप्रोद्दाममुक्तावली- राजश्रीचरणारविन्दयुगला पूर्णेन्दुशुद्धानना || २९ || विद्याचूडामणिः प्रोक्ता सर्वपक्षेषु दुर्लभा | पञ्चकूटात्मिका विद्या पञ्चपञ्चाक्षरी भवेत् || ३० || (कामराजकूटे विशेषः) कूटभेदेन वक्ष्यामि कामराजं सुदुर्लभम् | ज्ञात्वा यत् साधयेन्नित्यमसाध्यमपि भूतले || ३१ || सौभाग्यं प्रथमं कूटं महामाङ्गल्यदायकम् | त्रिकूटं पदरूपेण कामराजं महत्पदम् | एवं कूटत्रयेणापि विद्या सौभाग्यरूपिणी || ३२ || _______________________________________________________________ (पञ्चविंशत्यक्षरी प्रथमा पञ्चमी) वाग्भवकूटम् कामराज कूटम् शक्तिकूटम् १ २ ३ ४ ५ क ह ह क ह ए स क ह क ई क ह य ल ल ल ल ल स ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं स्वप्नावती मधुमती ३१-३२ | पूर्वं यत् कामराजकूटत्रयमुक्तं तत्र प्रकारान्तरमाह- सौभाग्यमित्यादिना | सौभाग्याया इदं सौभाग्यं शाक्तलोपामुद्राया वक्ष्यमाणायाः प्रथमं कूटमित्यर्थः | रेखान्यासेनायं मन्त्रः प्रदर्श्यते एतेन ह स क ल ह्रीमिति कामराजस्य प्रथमं कूटम् | त्रिकूटमिति | अत्र त्रिशब्दस्तृतीयार्थकः | तथाच वाग्भवकूटमपेक्ष्य तृतीय- (प्. २९०) एषा तु पञ्चकूटेन नित्यं कूटत्रये स्थिता | दुर्लभा सर्वलोकेषु सर्वसौभाग्यसुन्दरी || ३३ || (कामराजमध्यमकूटजपफलम्) एतस्या एव विद्याया मध्यम्कूटस्य मध्यमम् | जप्त्वाऽनन्दमयो भूत्वा सर्वकाममुपालभेत् || ३४ || एषा स्वप्नावतीनाम्नी विद्या त्रैलोक्यदुर्लभा | आकर्षणकरी विद्या चित्ताह्लादनकारिणी || ३५ || (मधुमती) स्वप्नावत्या अन्तकूटं मधुमताति कथ्यते | महाभोगकरी विद्या महासिद्धिप्रदायिनी || ३६ || पञ्चकूटात्मिका विद्या पञ्चतत्त्वेन पञ्चमी | (निरुक्तपञ्चम्याराधनफलम्) यस्या आराधनं कृत्वा किं न सिध्यति भूतले || ३७ || ________________________________________________________________ (प्रकारान्तरम्) वाग्भव-कूटम् कामराजकूटम् शक्तिकूटम् क ह ह क स ए स स ह क ई क क य ल ल ल ह ल ह्रीं ह्रीं ल ह्रीं ह्रीं ह्रीं कूटपदरूपेण महत्पदं कामराजं प्रयुञ्जीतेत्यर्थः | महत्पदमित्यनेन कूटस्यास्य षडक्षरत्वं सूचितम् | तेन ह स क ह ल ह्रीमिति तृतीयकूटम् | एवञ्चास्य षडक्षरघटितत्वात् पञ्चमं शक्तिकूटं कामराजविद्यावत् स क ल ह्रीमिति चतुरक्षरम् | प्रथमं कूटं चतुर्थकूटञ्च पूर्ववत् | इत्यपरो भेदः | (प्. २९१) प्रवेशः परकायस्य कामरूपधरो भवेत् | अञ्जनं गुटिकादिश्च या या विद्या सुदुर्लभा || ३८ || विदिता जायते तस्य साधकः खेचरो भवेत् | अणिमासिद्धयः सन्ति वश्या भवन्ति देवताः || ३९ || सिंहव्याघ्रादयो ये ये नागयक्षाः पतत्त्रिणः | दूरादेव पलायन्ते दर्शनात् साधकस्य च || ४० || शिवतुल्यो भवेन्मन्त्री नित्यं तदनुकम्पया | जीवन्मुक्तः साधकेन्द्रः कर्ता हर्ता भवेद्दिवि || ४१ || त्रैलोक्यदुर्लभा विद्या सर्वपक्षेषु पञ्चमी | एकाक्षरेण कथितं ब्रह्मविद्यैव केवलम् || ४२ || या शक्तिः सर्वभूतेषु जगच्चैतन्यरूपिणी | सा देवी पञ्चमी विद्या सर्वाधारस्वरूपिणी || ४३ || तस्या भेदाश्च बहवस्तेजांसि च गुणास्तथा | नान्यत् परतरं किञ्चिद् विद्यते भुवनत्रये || ४४ || पुंसां रूपं स्त्रिया रूपं यच्चान्यद्रूपमुच्यते | सर्वं तत् परमं रूपं तस्या एव न संशयः || ४५ || (कालविशेषेण जपे फलविशेषः) महाभूतदिने नक्तं श्मशाने यदि साधकः | सहस्रैकप्रमाणेन किं न सिध्यति भूतले || ४६ || यो जपेत् पञ्चमीं विद्यां परां त्रैलोक्यदुर्लभाम् | योगात्मा स भवेन्मुक्तो नानाभोगेन केवलम् || ४७ || (प्. २९२) अभ्यासादब्दमात्रेण सुसिद्धः साधको भवेत् | (अस्या रहस्यत्वम्) यस्मै कस्मै न दातव्या विद्या परमदुर्लभा || ४८ || (सच्छिष्याय प्रतिपाद्यत्वम्) कुलीनाय विशुद्धाय गुरुदेवपराय च | दातव्या पञ्चमी विद्या पुत्राय प्राणदाय च || ४९ || (मन्त्रान्तरं तत्र शक्तिकूटे विशेषः) अथान्यत् संप्रवक्ष्यामि शक्तिकूटं महाशुभम् | परमानन्दनिर्वाहं कुलोड्डीशे प्रकाशितम् || ५० || प्राणजीवं समुद्धृत्य कामबीजं समुद्धरेत् | तदधः शक्रबीजन्तु योजयेद् भुवनेश्वरीम् || ५१ || (अत्र वाग्भव-कमराजकूटव्यवस्था) वाग्भवं पूर्वमुदितं कामराजं त्रयात्मकम् | एषा विद्या महाविद्या धर्मकामार्थमोक्षदा || ५२ || ________________________________________________________________ ५०-५२ | अथेदानीं कुलोड्डीशमतानुसारेण शक्तिबीजमाह-अथान्यदिति | प्रागुक्तायाः पञ्चकूटात्मिकायाः पञ्चमकूटं शक्तिकूटमिति पूर्वमुपदर्शितम्, इदानीं तस्यैव शक्तिकूटस्य प्रस्थानान्तरमनेन प्रदर्श्यते | एवञ्च शक्तिकूटस्य द्वैविध्येन मन्त्रस्यापि द्वैविध्यमवगन्तव्यम् | तमेव शक्तिकूटस्य भेदमाह-प्राणेत्यादिना | प्राणो हकारः, जीवःसकारः, कामबीजं ककारः इन्द्रबीजं लकारः, भुवनेश्वरी ह्री/ | एवञ्च ह स क ल ह्री/ इति द्वितीयं शक्तिकूटम् | (प्. २९३) (मतान्तरम्) अपरञ्च प्रवक्ष्यामि कुलामृतमतं परम् || ५३ || (तत्र कामराजकूटे विशेषः) एतस्यामेव विद्यायां मधुमत्यास्तु मध्यमम् | त्यक्त्वा समीरणं जीवं योजयेत् साधकोत्तमः | एषा गुह्या परा ज्ञेया पुरुषार्थफलप्रदा || ५४ || (मन्त्रान्तरम्) अथापरं शक्तिकूटं वक्ष्यामि सर्वदुर्लभम् | सारात् सारतरं कूटं श्रीक्रमे तु प्रकाशितम् || ५५ || _________________________________________________________________ अनेन द्वितीयशक्तिकूटेन मन्त्रस्य पञ्चकूटत्वसम्पादनपरिपाटीमाह वाग्भवमित्यादिना | तथा चात्रापि पूर्ववत् प्रथमं वाग्भवकूटम्, ततः कामराजकूटत्रयम्, ततो निरुक्तशक्तिकूटमिति पञ्चकूटात्मकत्वमस्य मन्त्रस्य सिद्धम् | तच्छक्तिकूटभेदभिन्नेयं द्वितीया पञ्चमी विद्येत्यवधेयम् | तदेतद्रखापातेन प्रदर्श्यते (प्रकारान्तरम्) वाग्भव-कूटम् कामराज-कूटम् शक्तिकूटम् क ह ह क ह ए स क ह स ई क ह य क ल ल ल ल ल ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं स्वप्नावती मधुमती अत्र वाग्भवकूटं कामराजकूटत्रयञ्च पूर्ववत् | शक्तिकूटं पूर्वतो भिन्नरूपम्, एवञ्च शक्तिकूटभेदेनैवास्याः पूर्वतो भेद इत्यवधेयम् | ५३-५५ | अन्यादृशीं पञ्चमीं कुलामृतानुसारेण निरूपयति अपरञ्चेत्यादिना | एतस्यामिति | एतस्यां पञ्चकूटात्मिकायां विद्यायां मधुमत्याः कामराजतृतीयकूटस्येत्यर्थः, मध्यमं क ह य ल ह्रीमित्यक्षरपञ्चकानां मध्यभूतं समीरणं वायुबीजं यकारं त्यक्त्वा तत्र जीवं सकारं योजयेदित्यर्थः | तेन क ह स ल ह्रीमिति पर्यवस्यति | एवञ्च शक्तिकूटद्वैविध्येन द्विविधायाः पञ्चम्याः कामराजतृतीयकूटमध्यभूतयकारस्थाने सकारयोजनात् पुनर्द्वैविध्येन समष्ट्या चातुर्विध्यं सिद्धम् | यथा ५५-५७ | पञ्चकूटात्मकमन्त्रघटकं शक्तिकूटमन्यादृशं श्रीक्रमसंवादेनाह- अथेति | (प्. २९४) (तत्र शक्तिकूटे विशेषः) द्विजराजस्ततः प्राणो मादनं तदनन्तरम् | इन्द्रबीजं शिवः पश्चान्मृगात्मा तदनन्तरम् || ५६ || वामनेत्रेन्दुनादेन बिन्दुना परिमण्डितम् | (वाग्भवकामराजकूटव्यवस्था) वाग्भवं पूर्वमुदितं कामराजं त्रिकूटकम् || ५७ || _________________________________________________________________ वाग्भव् अ-कूटम् कामराजकूटम् शक्ति कूटम् वाग्भव् अकूटम् कामराजकूटम् शक्ति कूटम् क ह ह क ह म ह ह क ह ए स क ह क ए स क ह स ई क ह स ल ई क ह स क ल ल ल ल स ल ल ल ल ल ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं द्विजराज इति | द्विजराजः सकारः, प्राणो हकारः, मादनं ककारः, इन्द्रबीजं लकारः, एतेन स ह क ल इत्यक्षरचतुष्टयं प्राप्तम् | पश्चात् शिवो हकारः, मृतात्मा रकारः वामनेत्रेण दीर्घेणेकारेण इन्दुनादेन अर्द्धचन्द्राकारेण तदुपरि स्थितेन बिन्दुना च परिमण्डितः एतेन ह्रीमिति लब्धम् | एवञ्च कल्पेऽस्मिन् स ह क ल ह्रीमिति शक्तिकूटम् | तदुक्तं तन्त्रसारे वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह ह क स ए स क ह ह ई क ह य क ल ल ल ल ल ह्रीं ह्रीं ह्रीं ह्रीं ह्री/ जीवप्राणौ महेशानि मादनं तदनन्तरम् | इन्द्रबीजं ततः पश्चाद् भुवनेशी तु पञ्चमम् || इति वा शक्तिकूटमिति | वाग्भवमिति | निरुक्तशक्तिकूटात् प्राक् पूर्ववद् वाग्भवकूटं कामराजकूटत्रयञ्च योजयेदित्यर्थः | एतदेव रेखापातेन प्रदर्श्यते (प्. २९५) एवं श्रीपञ्चमी विद्या पञ्चपञ्चाक्षरी भवेत् | सर्वेषां दुर्लभा विद्या महामोक्षप्रदायिनी | अतियत्नेन गोप्तव्या मातृमैथुनवत् सदा || ५८ || (एकाक्षरमन्त्रनिरूपणप्रतिज्ञा) अथ वक्ष्यामि तां विद्यां तुर्यां त्रिपुरसुन्दरीम् | प्रभुत्वं शम्भुना प्राप्तं यस्या ध्यानप्रसादतः || ५९ || (एकाक्षरमन्त्रः) कामेशीमादिहीनां तदनु परिगतं शान्तिदस्योर्द्ध्वषष्ठं सूक्ष्मान्तान्तादियुक्तं शिरसि शशिकलाबिन्दुना लाञ्छितञ्च | एतच्छ्रीमन्त्रराजं सकल-लिपिमयं गुह्यगुह्यातिगुह्यं साक्षाद् ब्रह्मस्वरूपं हरिहरमुनिभिः सेवितं सर्वसारम् || ६० || (अस्य प्रशस्तिरप्रकाश्यत्वञ्च) सेयं श्रीब्रह्मविद्या त्रिभुवनजननी सर्वकर्मोदया या सर्वेषां जीवभूता सकलगुणमयी देवेदेवैकवन्द्या | ________________________________________________________________ ५८ | पञ्चम्या एतेष्वेवान्तर्गता अपरे भेदाः एकादशे शाक्तपञ्चमीविद्यानिरूपणावसरे स्फुटं प्रदर्शयिष्यन्ते | ५९ | तुर्यां तुरीयचैतन्यस्वरूपाम् | ६० | अथ श्रीमत्त्रिपुरसुन्दर्या एकाक्षरमन्त्रमाह-कामेशीमिति | कामेशीं कामेशीतिपदमित्यर्थः आदिहीनाम् आकारादियावद्वर्णरहिताम् एतेन क् इति प्राप्तम् | शान्तिदस्येति | शान्तिदः शिवो हकार इत्यर्थः, तस्य ऊर्द्ध्वषष्ठं विलोमतः षष्ठवर्णं लकारं एतेन क्ल इति प्राप्तम् | ततश्च सूक्ंआन्तान्तादियुक्तं सूक्ष्मं ह्रस्वेकारः, तस्यान्तो दीर्घेकारः तस्यान्त उकारस्तस्यादिदीर्घेकारस्तद्युक्तम् एवञ्च सूक्ष्मान्तान्तादियुक्तमित्यस्य दीर्घेकारयुक्तमित्यर्थः | एतेन क्ली इति प्राप्तम् | शिरसि शिरःप्रदेशे शशिकलया अर्द्धचन्द्रेण बिन्दुना च लाञ्छितं बीजं लिखेदित्यर्थः | एतेन क्ली/ इत्येकाक्षरो मन्त्र इति पर्यवस्यति | (एकाक्षरो मन्त्रः) क्ली (प्. २९६) सर्वाम्नायैः प्रपूज्या सकलहितकरी सर्वमन्त्रैकसारा गोप्या सर्वैः प्रयत्नादभिमतफलदा नैव वाच्या परस्मिन् || ६१ || यस्मै कस्मै न वक्तव्यं मन्त्रराजं सुदुर्लभम् | मातृमैथुनवन्नित्यं गोपयेत् साधकोत्तमः || ६२ || अतिगुह्यतरं मन्त्रं सर्वशास्त्रेषु गोपितम् | (अस्य प्रामाणिकतन्त्रसंवादित्वम्) श्रीक्रमे च महातन्त्रे शिवेन परिकीर्तितम् || ६३ || (स्वरूपम्) सिद्धिदा निर्मला शान्ता त्रैलोक्यवशकारिणी | केवला चित्कला नित्या नित्यानन्दस्वरूपिणी || ६४ || (पुनरस्य सर्वथा रहस्यत्वाभिधानम्) अप्रकाश्या महाविद्या गोपनीया प्रयत्नतः || ६५ || विद्यया सह मर्तव्यो यदीच्छेदात्मनो हितम् | वरं पुत्रं धनं राज्यं देयं नेयं कदाचन || ६६ || (अस्य मन्त्रस्य सच्छिष्याय प्रतिपादनं तत्क्रमश्च) यदि जन्मसहस्रेण शिष्येण सेवितो गुरुः | तदा ज्ञात्वा कुलीनाय शिष्याय प्राणदाय च || ६७ || सिन्दूररजसा वापि कुङ्कुमेन विलेपिते | लिखित्वा दर्शयेद् भूमौ न च कर्णे प्रकाशयेत् || ६८ || ________________________________________________________________ ६१ | सर्वाम्नायैरिति | पूर्वादिसकलाम्नायैरित्यर्थः | अन्ये मन्त्रभेदा आम्नायभेदभिन्नाः | अयन्तु सर्वाम्नायप्रतिपादित इत्यस्य विशेष इति ध्येयम् | परस्मिन्निति परशिष्ये | परशिष्याय विद्येयं न वाच्येत्यर्थः | ६६ | नेयमिति | इयं विद्या कदाचन न देयेत्यर्थः | (प्. २९८) प्रकाशात् सिद्धिहानिः स्यात् क्रुद्धा भवति सुन्दरी | (एतन्मन्त्रप्रतिपादनानन्तरं गुरोः कर्तव्यम्) ततः स्वात्मविशुद्ध्यर्थं लक्षमेकं जपेद् गुरुः || ६९ || (एतन्मन्त्रदीक्षितस्य विद्यान्तराराधनप्रतिषेधः) अस्याऽराधनमाचर्य नान्यस्याऽराधनं चरेत् | अन्यसंस्मरणाद्दुःखं योगिनीशापमालभेत् || ७० || अपमृत्युर्भवेत्तस्य मृते तु नरकं व्रजेत् | (एतन्मन्त्राराधनफलम्) किमधिकम् परं साध्यमस्याः सर्वत्र यद् भवेत् || ७१ || अस्याराधनमात्रेण सर्वसिद्धिं लभेद् यतः | अनया सदृशं ज्ञानं सर्वतन्त्रेषु दुर्लभम् || ७२ || (अस्याः कूटत्रयविभागः) आद्यन्तु वाग्भवं बीजं द्वितीयं कामराजकम् | तृतीयं शक्तिकूटं स्यात्त्र्यक्षरी त्रिपुरा परा || ७३ || दुर्लभो मन्त्रराजस्तु प्रोक्तो बीजत्रयात्मकः | (अस्या अनन्यसाधारण्यम्) अनया सदृशी विद्या नास्ति लोकत्रये यतः || ७४ || (अस्य मन्त्रस्य देवता) अनन्तसुन्दरीनाम्नी भुक्तिमुक्तिप्रदायिनी | ______________________________________________________________ ७३ | एकाक्षरस्याप्यस्य मन्त्रस्य त्रिकूटात्मकत्वमुपपादयति आद्यन्त्वित्यादिना | तथा च, क् इति वाग्भवकूटम्, ल् इति कामराजकूटम्, ई/ इति शक्तिकूटमित्यनया रीत्या त्रिकूटत्वमस्य मन्त्रस्य सिद्धम् | (प्. २९८) (अस्याः पञ्चदशाक्षरादिसर्वविद्यात्मकत्वम्) एषा पञ्चदशी देवी सौभाग्यैषा च पञ्चमी || ७५ || एषा स्वप्नावती चैव एषा मधुमती तथा | एषा तत्त्वपरा ज्ञेया सप्तविंशाक्षरी तथा || ७६ || (मन्त्रार्थः) सूर्याख्यः परमज्योतिर्मांसात्मा पाकशासनः | कामकला तुरीया च शक्तिस्तु सार्द्धमातृका || ७७ || नादे दीप्तिस्त्रयो देवा बिन्द्रुब्रह्मस्वरूपधृक् | (अस्या ब्रह्मविद्यास्वरूपत्वम्) एकाक्षरेण कथिता ब्रह्मविद्यैव केवला || ७८ || या शक्तिः सर्वभूतेषु जगच्चैतन्यकारिणी | ज्योतीरूपेण सा देवी परंतेजःस्वरूपिणी || ७९ || रक्तश्वेतहरिद्वर्णकृष्णनिलाभ्ररोचिषः | वर्णानि विविधान्येव तस्या भेदानि तत्त्वतः || ८० || तस्या भेदान्यनेकानि तेजांसि च गुणानि च || ८१ || स्थूलसूक्ष्माविभेदेन परंब्रह्मस्वरूपिणी | सैव विश्वेश्वरी देवी स्वतः कैवल्यदायिनी || ८२ || _________________________________________________________________ ७५ | अनन्तेति | अस्य मन्त्रस्यानन्तसुन्दरी देवतेत्यर्थः | अस्या विद्यायाः सर्वविद्यात्मकत्वमाह एषा पञ्चदशीत्यादिना | ७७-७८ | एतन्मन्त्रार्थमाह सूर्याख्य इति | सूर्याख्यः ककारः परमज्योतिःस्वरूपः | मांसात्मा लकारः पाकशासनो वह्निस्वरूपः कामकलेति सार्द्धमातृकातूरीयाशक्तिरीकारः कामकलास्वरूपेत्यर्थः | ८०-८१ | अत्र भेदानि गुणानि इति पुंलिङ्गप्रयोग आर्षः | (प्. २९९) (एतन्मन्त्राक्षररहितानां विद्यानां सिद्धिप्रतिबन्धकत्वम्) या या विद्याः समुद्दिष्टा एतदक्षरवर्जिताः | सामान्याः सिद्धिरहिता ज्ञातव्या देशिकोत्तमैः || ८३ || (अस्याः स्वरूपम्) एवमेषा समुत्पन्ना महात्रिपुरसुन्दरी || ८४ || अस्या देव्याश्च यद्रूपमुदयास्तविवर्जितम् | तस्या रूपञ्च तज् ज्ञेयं जगद् व्याप्य विजृम्भते || ८५ || (एकादशाक्षरी विद्या) स्मरः शक्रो माया रविहरसुरेन्द्राः परशिवा शिवाद्यं ब्रह्मेन्द्रस्मरहरलताबीजमपरम् | इमं मन्त्रं गुह्यं सकलकविताकारणपरं नरो जप्त्वा सिद्धः प्रभवति महामोक्षपदवीम् || ८६ || ____________________________________________________________ ८६ | अथ कूटत्रयातिम्कामेकादशाक्षरीं विद्यामभिदधानः प्रथमं वाग्भवकूटमाह-स्मरः शक्रो मायेति पदत्रयेण | स्मरः ककारः शक्रो लकारः, माया ह्रीं | एवञ्च क ल ह्रीमित्याद्यं वाग्भवकूटम् | व्यक्तमाह तन्त्रसारे मादनं गोत्रभित् सान्तो रेफवामाक्षिचन्द्रवान् | नादबिन्दुसमायुक्तः कथितः परमेश्वरि || इति | ततो द्वितीयं कामराजकूटमाह-रवीत्यादिना परशिवेत्यन्तेन | रविः ककारः हरो हकारः, सुरेन्द्रो लकारः परशिवा ह्री/ | एवञ्च क ह ल ह्रीमिति द्वितीयमस्याः कामराजकूटम् | व्यक्तमाह तन्त्रसारे ब्रह्मा च गगनं शक्रो नकुलीशोऽनलस्तथा | मायाबिन्दुसनादेन कामराजं समुद्धरेत् || इति | तृतीयं शक्तिकूटमाह-शिवाद्यमित्यादिना बीजमपरमित्यन्तेन | शिवाद्यमिति | (प्. ३००) एषा विद्या महाविद्या कथितैकादशाक्षरी | (एतन्मन्त्रजपफलम्) अरिहा सिद्धिदा नित्या त्रैलोक्ये चातिदुर्लभा || ८७ || (अस्य रहस्यत्वम्) न देया यस्य कस्यापि गोपनीया प्रयत्नतः | दत्ते च सिद्धिहानिः स्यात् क्रुद्धा भवति सुन्दरी || ८८ || (अनुगताय ज्यष्ठपुत्राय देयत्वम्) मनुर्विमृष्य दातव्यो ज्येष्ठपुत्राय धीमते || ८९ || (तदन्यत्राप्रकाश्यत्वम्) सर्वदा गोपयेदेवं निर्वीर्यः स्यात् प्रकाशतः | तेन वीर्यवती विद्या भार्या कुलबधूरिव || ९० || (एतन्मन्त्रग्रहणफलम्) एतस्याः श्रुतिमात्रेण किं न सिध्यति भूतले | (अस्य कीलितत्वादिसर्वदोषमुक्तत्वम्) शुद्धा सर्वत्र विज्ञेया सर्वदोषविवर्जिता || ९१ || _______________________________________________________________ शिवो हकारस्तदाद्यं सकारः, ब्रह्मा ककारः, इन्द्रो लकारः, स्मरहरेति स्मरहरः शिवस्तस्य लता शक्तिस्तद्रूपं बीजं ह्रीमिति मायाबीजमित्यर्थः | एवञ्च स क ल ह्रीमिति तृतीयमस्याः शक्तिकूटम् | तदुक्तं तन्त्रसारे (एकादशाक्षरी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क क स ह क ल ल ल ह्रीं ह्रीं ह्रीं शक्तिर्मादनशक्रश्च हरो वह्निश्च मायया | नादबिन्दुसमाक्रान्तः कथितः कामदो मनुः || इति | तथा एषा विद्या महेशानि कथितैकादशाक्षरी || इति | एतत्कूटत्रयसमष्टिरूपो मन्त्रो रेखा पातेन स्फुटं प्रदर्श्यते (प्. ३०१) (चतुर्विंशत्यक्षरी विद्या) विद्यान्तरं प्रवक्ष्यामि चतुर्वर्गप्रदायकम् | (तत्र वाग्भवकूटम्) वाग्भवं गगनं हाद्यमुष्मा भौतिकबिन्दुमान् || ९२ || ज्योत्स्ना माया मादनेन्द्रमहामायासमन्वितम् | एतत्तु वाग्भवं कूटं सर्वपक्षेषु शोभनम् || ९३ || (कामराजकूटम्) कामबीजं शिवश्चन्द्रो ब्रह्मा शक्रः सुरेश्वरी | शुक्रात्मा भास्करोऽनन्तो देवराजः शिवस्तथा || ९४ || (शक्तिकूटम्) शक्त्यक्षरं शिवात्मानं भृगुर्वह्नियुतस्ततः | मनुसर्गौ ततः शक्तिर्भानुरिन्द्रो महेश्वरी || ९५ || _______________________________________________________________ ९२-९५ | अथ कूटत्रयात्मिकां चतुर्विंशत्यक्षरीं विद्यामाह-विद्यान्तरमित्यादिना | तत्र प्रथमं वाग्भवकूटमाह-वाग्भवेति | वाग्भवं ऐ/ गगनं हकारः, हाद्यं हकारस्याद्यं सकारः, उष्मा रकारः, स च भौतिकबिन्दुमान् भौतिक ऐकारः बिन्दुर्नादबिन्दुः ताभ्यां युक्त इत्यर्थः | एतेन ऐ/ ह स रै/ इति प्राप्तम् | टिपिअन्यान्तु ऐ/ ह स् रै/ इति दृश्यते | ततश्च ज्योत्स्ना एकारः, माया ईकारः, मादनं ककारः, इन्द्रो लकारः, महामाया च ह्रीमिति | एवञ्च ऐ/ ह स रै/ ए ई क ल ह्रीमिति आद्यमस्या वाग्भवकूटम् एत्येवाह-एतत्तु वाग्भवं कूटमित्यनेन | ततः कामराजकूटमाह कामबीजमित्यादिना | कामबीजं क्लीं, शिवो हकारः, चन्द्रः सकारः, ब्रह्मा ककारः, शक्रो लकारः, सुरेश्वरी ह्रीमिति | एवञ्च क्लीं ह स क ल ह्रीमिति द्वितीयमस्याः कामराजकूटमिति पर्यवस्यति | ततः शक्तिकूटमाह-शुक्रात्मेति | शुक्रात्मा सकारः, भास्करः ककारः अनन्त (प्. ३०२) (एतन्मन्त्रप्रकर्षः) सृष्टिरूपा महाविद्या सारभूता महोदया | कथिता दुर्लभा विद्या परमानन्दरूपिणी || (अस्याः प्रामाणिकतन्त्रसंवादित्वम्) मन्त्रनिर्णयतन्त्रे च शिवेन परिकीर्तिता || ९६ || (अष्टादशाक्षरी विद्या) अथान्तरं प्रवक्ष्यामि सारात् सारतरं महत् | (तत्र वाग्भवकूटम्) वाग्भवं विजया माया ब्रह्मा शक्रश्च पार्वती || ९७ || ______________________________________________________________ (सप्तविंशत्यक्षरी) वाग्भवकूटम् कामराजकूटम् शऽऽक्तिकूटम् ऐ/ क्लीं स ह क स ह आ रै/ ल ए स ह ई सौः क क ह ल ल स्रौः ह्रीं ह्रीं स क ल ह्रीं आकारः, देवराजो लकारः, शिवो हकारः, शक्त्यक्षरं सौः इति | एतैः स क आ ल ह सौः इत्यन्तं प्राप्तम् | ततश्च शिवात्मा हकारः, भृगुः सकारः, स च वह्निना रकारेण युतः तथा मनुरौकारः, सर्गो विसर्गः एतेन हस्रौः इति प्राप्तम् | ततश्च शिवः सकारः, भानुः ककारः, शक्रो लकारः, महेश्वरी ह्रीं एतैश्च स क ल ह्रीमिति प्राप्तम् | एवञ्च समष्ट्या स क आ ल ह सौः हस्रौः स क ल ह्रीमिति तृतीयमस्याः शक्तिकूटमिति पर्यवस्यति वह्नियुगन्ततः इति पाठे तु ह स र रौः इति मन्त्रः स्यात् | कूटत्रयविभाजकरेखापातेन समष्टिभूतोऽयं मन्त्रः प्रदर्श्यते ९७-९९ | अथाष्टादशाक्षरीं विद्यामाह अथान्तरमित्यादिना | तत्र प्रथमं वाग्भवकूटमाह वाग्भवमित्यादिना पार्वतीत्यन्तेन | वाग्भवः ऐ/, विजया एकारः, माया ईकारः, ब्रह्मा ककारः, शक्रो लकारः, पार्वती ह्रीमिति | एवञ्च ऐ/ ए ई क ल ह्रीमिति (प्. ३०३) (कामराजकूटम्) मन्मथं शिवशक्ती च मदनो हर इन्द्रकः | महामाया (शक्तिकूटम्) ततो हाद्यं मनुसर्गविभूषितम् || ९८ || भृगुः प्रजापतिः शक्रो महामाया ततः परा | अष्टादशाक्षरी विद्या महात्रिपुरसुन्दरी || ९९ || (विंशत्यक्षरी विद्या) सर्वान्ते हंससंयुक्ता तदा विंशाक्षरी भवेत् || १०० || ______________________________________________________________ वाग्भवकूटम् | द्वितीयं कामराजकूटमाह मान्मथमित्यादिना महामायेत्यन्तेन | अत्र मान्मथं क्लीमिति, शिवो हकारः, शक्तिः सकारः, मादनः ककारः, हरो हकारः, इन्द्रो लकारः, माहामाया ह्रीमिति | एवञ्च क्लीं ह स क ह ल ह्रीमिति कामराजकूटम् | तृतीयं शक्तिकूटमाह-तत इत्यादिना ततः परेत्यन्तेन | हाद्यं सकारः तच्च मनुसर्गविभूषितं मनुना चतुर्दशस्वरेणौकारेण सर्गेण विसर्गेण च विभूषितम् | अनेन सौः इति प्राप्तम् | भृगुरित्यादि | भृगुः सकारः, प्रजापतिः ककारः, शक्रो लकारः, महामाया ह्रीमिति | एवञ्च सौः स क ल ह्रीम्ति शक्तिकूटम् | इयं महात्रिपुरसुन्दरी | अत्र तत इएत्येतत्पदद्वयं कूटविभाजकमित्यवगन्तव्यम् | रेखापातेनास्या अष्टदशाक्षरविद्यायाः कूटत्रयविभागः प्रदर्श्यते वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ऐ/ क्लीं सौः ए ह स ई स क क क ल ल ह ह्रीं ह्रीं ल ह्रीं १०० | विंशत्यक्षरीं विद्यामाह-सर्वान्त इति | येयमष्टादशाक्षरी विद्या प्रदर्शिता सा यदि सर्वान्ते तृतीयकूटस्यान्तभाग इत्यर्थः हंससंयुक्ता हंस इत्यक्षरद्वयेन संयुक्ता स्यात् तदा विंशाक्षरी विंशत्यक्षरी विद्या भवेदित्यर्थः | सा यथा (प्. ३०४) (एकविंशत्यक्षरी (उन्मनी विद्या) तत्र वाग्भवकूटम्) आकाशं पाशबीजन्तु त्रिकोणं बिन्दुमालिनी | भास्करो गोत्रभिन्माया (कामराजकूटम्) मनुना सर्गवान् भृगुः || १०१ || वाग्भवञ्च शिवः शक्तिर्ब्रह्मा शम्भुः शचीपतिः | भुवनेशी (शक्तीकूटम्) कामबीजं लक्ष्मीर्भृगुः प्रजापतिः || १०२ || पुरन्दरो महामाया चैकविंशाक्षरी शुभा | (एतन्मन्त्रदेवतानिर्णयः फलञ्च) विद्यैषा चोन्मनीनाम्नी वाञ्छितार्थप्रदायिनी || नारीणां मोहिनी देवी जगत्कारणरूपिणी || १०३ || ______________________________________________________________ (विंशत्यक्षरी (त्रिकूटा)) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ऐ/ क्लीं सौः ए ह स ई स क क क ल ल ह ह्रीं ह्रीं ल हं ह्रीं सः १०१-१०३ | एकविंशत्यक्षरीमुन्मनीनाम्नीं विद्यामाह-आकाशमित्यादिना | इयमपि कूटत्रयात्मिका | तत्र प्रथमं वाग्भवकूटमाह-आकाशमित्यादिना मायेत्यन्तेन | आकाशं हकारः, पाशबीजं आं, त्रिकोणम् एकारः बिन्दुमालिनी ईकारः, भास्करः (प्. ३०५) (पञ्चविंशत्यक्षरी विद्या, तत्र वाग्भवकूटम्) मायां पाशसमायुक्तां महामायां ततः पठेत् | भगो माया ततो ब्रह्मा शक्रस्तु भुवनेश्वरी || १०४ || वाग्भवं वाग्भवञ्चेदं (कामराजकूटम्) शिखाकवचमालिखेत् | भुवनेश्या महेशश्च शक्तिर्ब्रह्मेश इन्द्रकः || १०५ || महामायाक्षरद्वन्द्वं कामराजमिदं महत् | (शक्तिकूटम्) भुवनेश्या नेत्रमस्त्रं शक्तिर्मादन एव च || १०६ || वज्रधृक् च महामाया कमलाबीजमुत्तमम् | (एतन्मन्त्रप्रकर्षः) एषा परापि विज्ञेया तत्त्वरूपा महेश्वरी || १०७ || _____________________________________________________________ ककारः, गोत्रभित् लकारः, माया ह्रीं | एवञ्च ह आं ए ई क ल ह्रीमिति प्रथमकूटम् | द्वितीयं कामराजकूटमाह-मनुनेत्यादिना भुवनेशीत्यन्तेन | मनुना औकारेण सर्गवान् विसर्गयुक्तो भृगुः सकारः अनेन सौः इति प्राप्तम् | वाग्भवमित्यादि, वाग्भवं ऐं, शिवो हकारः, शक्तिः सकारः, ब्रह्मा ककारः, शम्भुर्हकारः, शचीपतिर्लकारः, भुवनेशी ह्रीं | एवञ्च सौः ऐ/ ह स क ह ल ह्रीमिति द्वितीयं कूटम् | तृतीयं शक्तिकूटमाह- कामबीजमित्यादिना | कामबीजं क्लीं, लक्ष्मीः श्रीं, भृगुः सकारः, प्रजापतिः ककारः, पुरन्दरो लकारः, महामाया ह्रीं | एवञ्च क्लीं श्रीं स क ल ह्रीमिति तृतीयकूटम् | तन्निरुक्तकूटत्रयसमष्टिपरिनिष्पन्ना विद्येयं प्रदर्श्यते (एकविंशत्यक्षरी (उन्मनीनाम) विद्या) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह सौः क्लीं आं ऐ/ श्रीं ए ह स ई स क क क ल ल ह ह्रीं ल ह्रीं ह्रीं १०४-१०७ | अथ पञ्चविंशत्यक्षरं त्रिकूटात्मकं विद्यान्तरमभिदधानः प्रथमं वाग्भवकूटमाह-मायामिति | मायाबीजं ह्रीं, पाशबीजं आं, महामाया ह्रीं, भग एकारः (प्. ३०६) दुर्लभा त्रिषु लोकेषु सर्वकामार्थदायिनी | नास्ति विद्या समा चास्या बलवीर्यसमन्विता || १०८ || (पञ्चविंशत्यक्षरं विद्यान्तरम्, तत्र वाग्भवकूटम्) अमृतं वदनञ्चैव बाला शक्तिर्भगः परा | कामेन्द्रौ च महामाया वाग्भवं कूटमुत्तमम् || १०९ || (कामराजकूटम्) बालाबीजत्रयं शम्भुश्चन्द्रब्रह्मेशभूपराः | कामराजमिदं प्रोक्तं (शक्तिकूटम्) शक्तिकूटं शृणुष्व तत् || ११० || ______________________________________________________________ माया ईकारः, ब्रह्मा ककारः, शक्रो लकारः, भुवनेश्वरी ह्रीं, वाग्भवं ऐ/ | वाग्भवञ्चेदमिति इदं वाग्भवकूटमित्यर्थः | एवञ्च ह्रीं आं ह्रीं ए ई क ल ह्रीं ऐ/ इति वाग्भवकूटम् | द्वितीयं कामराजकूटमाह-शिखेत्यादिना | भुवनेश्याः शिखाकवचमालिखेदिति सम्बन्धः | ततश्च शिखा ह्रं, कवचं ह्रैं महेशो हकारः, शक्तिः सकारः, ब्रह्मा ककारः, ईशो हकारः, इन्द्रो लकारः, महामायाक्षरद्वन्द्वं ह्रीं ह्रीमिति | एवञ्च हू/ ह्रै/ ह स क ह ल ह्रीं ह्रीमिति कामराजकूटम् | (पञ्चविंशत्यक्षरा (त्रिकूटा)) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह्रीं हू/ ह्रौ/ आं ह्रै/ ह्रः ह्रीं ह स ए स क ई क ल क ह ह्रीं ल ल श्रीं ह्रीं ह्रीं ऐ/ ह्रीं १०९-१११ | अथ पञ्चविंशत्यक्षरं मन्त्रान्तरमभिदधानः प्रथमं वाग्भवकूटमाह (प्. ३०७) वाग्भवं शम्भुवनिता रमाबीजं ततः परम् | शक्तिः कामः सहस्राक्षो महामाया ततः परम् || १११ || (एतन्मन्त्रप्रकर्षः) तत्त्वरूपा महामाया भुक्तिमुक्तिप्रदायिनी | सवीर्या सिद्धिदा नित्या विद्या सर्वार्थसिद्धिदा || ११२ || (सप्तविंशत्यक्षरी विद्या, तत्र वाग्भवकूटम्) वाग्बीजममृता पाशं बाला-तृतीयबीजकम् | भैरवं बिन्दुमाली च ब्रह्मा शक्रः सुरेश्वरी || ११३ || _____________________________________________________________ अमृतमित्यादिना महामायेत्यन्तेन | अमृतं सकारः, वदनं आं बाला सौः, शक्तिः सकारः, भग एकारः, परा ईकारः, कामः ककारः, इन्द्रो लकारः, महामाया ह्रीं | एवञ्च स आं सौः स ए ई क ल ह्रीमिति वाग्भवकूटम् | कामराजकूटमाह बालेत्यादिना परा इत्यन्तेन | बालाबीजत्रयं ऐ/ क्लीं सौः शम्भुर्हकारः, चन्द्रः सकारः, ब्रह्मा ककारः, ईशो हकारः, भूः पृथ्वीबीजं लकारः, परा ह्रीं मायाबीजम् | एवञ्च ऐ/ क्लीं सौः ह स क ह ल ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-वाग्भवमित्यादि महामाया ततः परमित्यन्तेन | वाग्भवं ऐ/ शम्भुवनिता ह्रीं, रमाबीजं श्रीं, शक्तिः सकारः, कामः ककारः, सहस्राक्षो लकारः, महामाया ह्रीमिति एवञ्च ऐ/ ह्रीं श्रीं स क ल ह्रीमिति शक्तिकूटं पर्यवस्यति | तदेवं कूटत्रयसमष्टिरूपो मन्त्रो रेखापातेन स्फुटं प्रदर्श्यते वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् स ऐ/ ऐ/ आं क्लीं ह्रीं सौः सौः श्रीं स ह स ए स क ई क ल क ह ह्रीं ल ल ह्रिं ह्रीं ११३-११६ | अथ सप्तविंशत्यक्षरीं त्रिकूटामभिधास्यन् प्रथमं वाग्भवकूटमाह वाग्बीजमित्यादिना | वाग्बीजं ऐ/, अमृता अकारः, पाशः आं | बालेति बालामन्त्रः (प्. ३०८) वाग्भवं कथितं कूटं (कामराजकूटम्) कामराजमथोच्यते | महामाया वाग्भवञ्च मान्मथं सर्गवान् भृगुः || ११४ || मनुस्वरेण संयुक्तो वियच्छक्तिश्च भास्करः | शिवः शक्रो महामाया (शक्तिकूटम्) शक्तिकूटं लिखेत्ततः || ११५ || लक्ष्मीबीजं पाशबीजं मायामङ्कुशमेव च | भृगुर्ब्रह्मा सहस्राक्षो महामाया तदन्तरम् || ११६ || _______________________________________________________________ ऐ/ क्लीं सौः इति | तस्य तृतीयं बीजमित्यनेन सौः इति प्राप्तम् | भैरव एकारः, बिन्दुमाली ईकारः, ब्रह्मा ककारः, शक्रो लकारः, सुरेश्वरी ह्रीं | एवञ्च ऐ/ अ आं सौः ए ई क ल ह्रीमिति वाग्भवकूटम् | कामराजकूटमाह महामायेत्यादिना शिवः शक्रो महामायेत्यन्तेन | महामाया ह्रीं, वाग्भवः ऐ/, मान्मथं क्लीं | सर्गवान् विसर्गयुक्तो भृगुः सकारः, स च मनुस्वरेण औकारेण संयुक्तः | अनेन सौरिति प्राप्तम् | वियद् आकाशबीजं हकारः, शक्तिः सकारः, भास्करः ककारः, शिवो हकारः, शक्रो लकारः, महामाया ह्रीं | एवञ्च ह्रीं ऐ/ क्लीं सौः ह स क ह ल ह्रीमीति कामराजकूटम् | तृतीयं शक्तिकूटं वक्तुमुपक्रमते-शक्तिकूटमित्यादिना | लक्ष्मीबीजमित्यादि | लक्ष्मीबीजं श्रीं, पाशबीजं आं, माया ह्रीं अङ्कुशं क्रो/, भृगुः सकारः, ब्रह्मा ककारः, सहस्राक्षो लकारः, महामाया ह्रीमिति | एवञ्च श्रीं आं ह्रीं क्रो/ स क ल ह्रीमिति शक्तिकूटम् | एतत्त्रिकूटघटितसप्तविंशत्यक्षरविद्याप्रस्थानं यथा (सप्तविंशत्यक्षरी) वाग्भव कूटम् कामराज छटम् शक्ति कूटम् ऐ/ ह्रीं श्रीं अ ऐ/ आं आं क्लीं ह्रीं सौः सौः क्रो/ ए ह स ई स क क क ल ल ह ह्रीं ह्रीं ल ह्रीं (प्. ३०९) (एतन्मन्त्रप्रकर्षः) सप्तविंशाक्षरी विद्या महात्रिपुरसुन्दरी || ११७ || त्रैलोक्यं हन्ति यो नित्यं पिबेद् वा सिन्धुसागरम् | रमते सकलां नारीं जप्त्वा याति सुरालयम् || ११८ || विद्यास्मरणमात्रेण सर्वपापं प्रणाशयेत् | मनोः स्मरणमात्रेण व्रजेद्भगवतः पदम् || ११९ || जपमात्रेण मन्त्रज्ञः शिवसायुज्यतां व्रजेत् | एषा विद्या प्रयत्नेन गुप्ता ग्रन्थेषु कोटिषु || १२० || देव्याः प्राणोऽस्ति विद्यायां सत्यं सत्यं न चान्यथा | भाषिता शङ्करेणैव सालङ्कारा महोदया || १२१ || गोपनीया प्रयत्नेन न देया यस्य कस्यचित् || १२२ || (द्वात्रिंशदक्षरी विद्या तत्र वाग्भवकूटम्) नकुलीशो भृगुर्ब्रह्मा शक्रश्च भुवनेश्वरी | हरो भृगुर्दिवानाथो वज्रधृग् भुवनेश्वरी || १२३ || एतत्तु वाग्भवं कूटं (कामराजकूटम्) कामराजं शृणुष्व च | कामबीजद्वयञ्चैव वाग्भवं च हुमात्मकम् || १२४ || शक्तिबीजं विसर्गस्तु शिवः शक्तिस्ततः परम् | _______________________________________________________________ १२३-१२६ | अथ त्रिकूटां द्वात्रिंशदक्षरविद्यामभिधत्ते | तत्र प्रथमं वाग्भवकूटमाह-नकुलीश इति | नकुलीशो हकारः, भृगुः सकारः, ब्रह्मा ककारः, शक्रो लकारः, भुवनेश्वरी ह्रीं, हरो हकारः, भृगुः सकारः, दिवानाथ्ः ककारः, वज्रधृग् लकारः, भुवनेश्वरी ह्रीमिति | एवञ्च ह स क ल ह्रीं ह स क ल ह्रीं इति वाग्भव (प्. ३१०) कामं गगनशक्ती च ततोऽपि भुवनेश्वरी | कामराजमिदं पुण्यं (शक्तिकूटम्) शक्तिकूटमथोच्यते || १२५ || ह्रां ह्रीं क्लीं चैव हू/कारं स्त्रींकारं सकलं ततः | महामाया ततः पश्चाद्धंसबीजं तदन्तिके || १२६ || द्वात्रिंशद्वर्णमुद्दिष्टा कामाख्या वरदा शुभा | (द्वात्रिंशदक्षरी विद्या, तत्र वाग्भवकूटम्) बालाबीजत्रयञ्चैव झिण्टीशो बिन्दुमालिनी || १२७ || कामेन्द्रौ च महामाया (कामराजप्रथमकूटम्) श्रीं ह्रीं क्लीञ्च ततः परम् | पाशः शक्तिर्मादनञ्च शून्येन्द्रौ भुवनेश्वरी || १२८ || _______________________________________________________________ कूटमिति पर्यवस्यति | कामराजकूटमाह् कामबीजमित्यादिना | कामबीजद्वयं क्लीं क्लीं वाग्भवः ऐ/, हुमात्मकं हु/, शक्तिबीजं सकारः, ततो विसर्गः, शिवो हकारः, शक्तिः सकारः, कामः ककारः, गगनं हकारः, शक्रो लकारः, भुवनेश्वरी ह्रीं | एवञ्च क्लीं क्लीं ऐ/ हुं सः ह स क ह ल ह्रीमिति कामराजकूटम् | तृतीयं शक्तिकूटमाह - ह्रां ह्रीमित्यादिना | एवञ्च ह्रां ह्रिं क्लीं हुं स्त्रीं स क ल, महामाया ह्रीं, हंसः इति शक्तिकूटम् | द्वात्रिंशदक्षरीयं विद्या रेखापातेन स्फुटं प्रदर्श्यते - (द्वात्रिंशदक्षरी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह क्लीं ह्रीं स क्लीं ह्रीं क ऐ/ क्लीं ल हु/ हु/ ह्रीं सः स्त्रीं ह ह स स स क क क ल ल ह ह्रीं ह्रीं ल हं ह्रीं सः १२७-१३० | द्वात्रिंशदक्षरं मन्त्रान्तरमाह बालेत्यादिना | बालाबीजत्रयं ऐं क्लीं सौः (प्. ३११) (कामराजद्वितीयकूटम्) शिवः शक्तिश्च वाग्बीजं शिवः शक्तिस्ततः परम् | मदनेन्द्रौ ततः पश्चाद् भुवनेशी ततः परम् || कामराजमिदं पुण्यं कथितं सर्वदुर्लभम् || १२९ || (शक्तिकूटम्) जीवः प्राणस्तु शक्त्यर्णं शक्तिर्मादन इन्द्रकः | महाविद्येश्वरी पश्चाद् विद्या संहारिणी भवेत् || १३० || (एतन्मन्त्रप्रकर्षः) दैत्यानां बलशान्त्यर्थं भाषिता परमाक्षरैः | एषा सा सुन्दरी विद्या शत्रूणां प्राणनाशिनी || १३१ || _______________________________________________________________ झिण्टीश एकारः, बिन्दुमालिनी ईकारः, कामः ककारः इन्द्रो लकारः, महामाया ह्रीं | एवञ्च ऐ/ क्लीं सौः ए ई क ल ह्रीमिति प्रथमं वाग्भवकूटम् | कामराजकूटद्वयमाह श्रीमित्यादिना | अत्र प्रथमं श्रीं ह्रीं क्लीं ततः पाशः पाशबीजम् आं आकारः, शक्तिः सकारः, मादनं ककारः, शून्यो हकारः इन्द्रो लकारः, भुवनेश्वरी ह्रीं | एवञ्च श्रीं ह्रीं क्लीं आं स क ह ल ह्रीमिति कामराजप्रथमकूटम् | द्वितीयं कामराजकूटमाह शिव इत्यादिना | शिवो हकारः, शक्तिः सकारः, वागबीजं ऐ/, शिवो हकारः, शक्तिः सकारः, मदनः ककारः, इन्द्रो लकारः, भुवनेशी ह्रीम्ति | एवञ्च ह स ऐ/ ह स क ल ह्रीमिति द्वितीयं कूटमित्युक्तं भवति | कामराजकूटमिदं कूटद्वयात्मकम् | B-पुस्तकपादटीकायान्तु द्वितीयशक्तिकूटे ककारात् परं लकारात् पूर्वं हकारो दृश्यते, स तु निरुक्तप्रमाणाप्राप्तत्वादस्माभिर्न मन्त्रे निवेशितः | (द्वात्रिंशदक्षरी चतुष्कूटा) वाग्भव कूटम् कामराज कूटम् शक्ति कूटम् ऐ/ श्रीं ह स क्लीं ह्रीं स ह सौः क्लीं ऐ/ सौः ए आं ह स ई स स क क क क ल ल ह ल ह्रीं ह्रीं ल ह्रीं ह्रीं शक्तिकूटमाह-जीव इत्यादिना | जीवः सकारः, प्राणो हकारः, शक्त्यर्णः सौः, शक्तिः सकारः, मादन ककारः, इन्द्रो लकारः, महाविद्येश्वरी ह्रीं | एवञ्च स ह सौः स क ल ह्रीमिति शक्तिकूटमिति पर्यवस्यति | कूटविभागपूर्वकमेतत् समष्टिरूपो मन्त्रः प्रदर्श्यते (प्. ३१२) सर्वेषां दुर्लभा विद्या ब्रह्मविष्णुशिवार्चिता | स्थितिरूपा महाविद्या साधकाय वरप्रदा || १३२ || न चास्याः सदृशी काचित् त्रिषु लोकेषु विद्यते || १३३ || (ऊनत्रिंश्दक्षरी मृत्युञ्जयाख्या विद्या, तत्र वाग्भवकूटम्) वाग्भवं प्रथमं चैव शिवः शक्तिस्ततः परा | वह्निबीजं ततः पश्चाद् भौतिकेन समन्वितम् || १३४ || भगो माया मादनेन्द्रमहामायाविभूषितम् | एतत्तु वाग्भवं कूटं सर्वपक्षेषु दुर्लभम् || १३५ || (कामराजकूटम्) क्लींकारं गगनं चन्द्रो मादनेन्द्रेण मायया | प्राणौ मदनशून्यौ च देवराजः सुरेश्वरी || १३६ || कामराजमिदं प्रोक्तं (शक्तिकूटम्) शक्तिकूटमथोच्यते | सौःकारं शिवशक्ती च वह्निबीजं मनुस्वरम् || १३७ || सर्गचन्द्रं नादयुक्तं शक्तिब्रह्मेन्द्रमायया || १३८ || ________________________________________________________________ १३४-१३८ | अथ मन्त्रान्तरमभिदधानः प्रथमं तस्य वाग्भवकूटमाह वाग्भवं प्रथममित्यादिना | वाग्भवः ऐ/, शिवो हकारः, पराशक्तिः सकारः, ततो भौतिकेन ऐ/कारेण समन्वितं वह्निबीजं रै/, भग एकारः, माया ईकारः, मादनः ककारः, इन्द्रो लकारः, महामाया ह्रीमिति | एवञ्च ऐ/ ह स रै/ ए ई क ल ह्रीमिति वाग्भवकूटम् | B-पुस्तकपादटिप्पन्यान्तु ईकारककारयोर्मध्ये सकारोऽधिको दृश्यते | परन्तु भगो मायामादनेन्द्रेत्यादिप्रमाणेन सकारस्यालाभात् स नास्माभिर्मन्त्रे निवेशित इति ध्येयम् | कामराजकूटमाह क्लींकारमित्यादिना | क्लीं, गगनं हकारः, चन्द्रः सकारः, मादनः ककारः, इन्द्रो लकारः, माया ह्रीं इति कामराजप्रथमकूटम् | द्वितीयं कामराजकूटमाह प्राणाविति | अत्र प्राणश्च प्राणश्च प्राणावित्येकशेषः | तत्र प्रथमप्राण (प्. ३१३) सृष्टिरूपा महाविद्या सारभूता महोदया || १३९ || (सप्तत्रिंशदक्षरी विद्या, तत्र वाग्भवकूटम्) अमृता पाशबीजन्तु शक्त्यन्तं वाग्भवो भृगुः | शिवात्मा तत्परो वह्निर्भौतिकेनेन्दुना युतः || १४० || झिण्टीशो वामनेत्रन्तु कामेन्द्रौ भुवनेश्वरी | एतत्तु वाग्भवं कूटं कथितं सर्वदुर्लभम् || १४१ || (एतत्कूटजपप्रशस्तिः) एतज्जप्त्वा महाबीजं किं न सिध्यति भूतले || १४२ || मूको भवति वागीशो वाक्पतिर्जायते ध्रुवम् | वागीशं स्पर्द्धते वाक्यैः सर्वज्ञस्तु प्रजायते || १४३ || _____________________________________________________________ शब्देन हकारो द्वितीयप्राणशब्देन च सकारो लभ्येते | ततश्च प्राणावित्यनेन ह स इति प्राप्तम् | मदनः ककारः, शून्यो हकारः, देवराजो लकारः, सुरेश्वरी ह्रीं | एवञ्च ह स क ह ल ह्रीमिति द्वितीयकूटम् | अत्र B-पुस्तकपादटिप्पन्यां कृते मन्त्रोद्धारे लकारात् पूर्वं हकारो नास्ति, तत्तु निरुक्तप्रमाणविरुद्धम् | अत्र निरुक्तकूटद्वयात्मकं कामराजकूटमित्यवधेयम् | शक्तिकूटमाह सौःकारमित्यादिना | सौः शिवो हकारः, शक्तिः सकारः | वह्निबीजमिति वह्निबीजं रकारः, मनुस्वर औकारः, सर्गो विसर्गः, ततो बिन्दुनादौ एतेन रौ/ः इति प्राप्तम् | शक्तिः सकारः, ब्रह्मा ककारः, इन्द्रो लकारः, माया ह्रीं | एवञ्च सौः ह स रौ/ः स क ल ह्रीमिति शक्तिकूटमिति पर्यवस्यति | (B-टिप्पन्यान्तु सौः ह स क ल रौं इत्यादि) | (ऊनत्रिंशदक्षरी विद्या) वाग्भव कूटम् कामराज कूटम् शक्ति कूटम् १ २ ऐ/ क्लीं ह सौः ह ह स ह स स क स रै/ क ह रौ/ः ए ल ल स ई ह्रीं ह्रीं क क ल ल ह्रीं ह्रीं १४०-१५० | सप्तत्रिंशदक्षरं त्रिकूटघटितं मन्त्रान्तरमभिदधानः प्रथमं वाग् (प्. ३१४) (कामराजकूटम्) कामकूटं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् | वाग्भवं मान्मथं बीजं सौःकारं बिन्दुमालिनी || १४४ || नादबिन्दुकलायुक्ता शक्तिः शिवस्ततः परम् | ब्रह्मा शक्रश्च वह्निश्च मायार्द्धेन्दुसमन्वितः || १४५ || शिवः शक्तिर्दिवानाथो हरेन्द्रौ भुवनेश्वरी || (एतत्कूटजपप्रशस्तिः) एतत्कूटस्य माहात्म्यं शतकोटिसुविस्तरम् || १४६ || एतत्कूटवरं मन्त्री यो जानाति स साधकः | हेलया त्रिदिवं प्राप्य मोदते शम्भुना सह || १४७ || रात्रियोगेन च शतं सहस्रं यदि वा जपेत् | वाञ्छितं लभते कामं सत्यमेव न संशयः || १४८ || (शक्तिकूटम् एतत्कूटजपप्रशस्तिश्च) मनुस्वरः सबिन्दुश्च शक्तिः शिवस्ततः परम् | बालायाः शक्तिकूटञ्च शक्तिस्तु कमलासनः || १४९ || गोत्रभिद् भुवनेशानी हंसबीजं ततः पठेत् | शक्तिकूटमिदं पुण्यं पुरुषार्थप्रवर्तकम् || १५० || मृत्युञ्जयाख्या विद्येयं सप्तत्रिंशाक्षरी परा | _______________________________________________________________ भवकूटमाह अमृतेत्यादिना | अत्र अमृता अकारः, पाशबीजम् आं | शक्त्यन्तमिति | शक्तिः सकारः तद्युक्तोऽन्तश्चतुर्दशस्वर औकारस्तेन सौः इति प्राप्तम् | वाग्भव ऐं भृगुः सकारः शिवात्मा हकारः तत्परस्तस्माद्धकारात् परो वह्नी- (प्. ३१५) (एतत्त्रिकूटात्मकमन्त्रप्रशस्तिः) पृथिव्यां दुर्लभा विद्या चतुर्वर्गप्रदायिनी | न देया कस्यचित् स्थाने सुगोप्या दुर्लभा परा || १५१ || ________________________________________________________________ रकारः, स च भौतिकेन ऐकारेण बिन्दुना च युक्तस्तेन रैं इति प्राप्तम् | झिण्टीश एकारः, वामनेत्रम् ईकारः, कामः ककारः, इन्द्रो लकारः, भुवनेश्वरी ह्रीं | एवञ्च अ आं सौः ऐ/ स ह रैं ए ई क ल ह्रीमिति वाग्भवकूटम् | एतद्वाग्भवकूटजपफलमाह एतदित्यादिना | अथ कामराजकूटमाह कामकूटं प्रवक्ष्यामीत्यादिना | वाग्भवबीजं ऐ/, मन्मथबीजं क्लीं, ततः सौः, ततो नादबिन्दुकलायुक्ता बिन्दुमालिनी ईं, शक्तिः सकारः, शिवो हकारः, ब्रह्मा ककारः, शक्रो लकारः, वह्नी रकारः, स च मायया ईकारेण अर्द्धचन्द्रेण च समन्वितः तेन री/ इति प्राप्तम् | ततः शिवो हकारः, शक्तिः सकारः, दिवानाथः ककारः, हरो हकारः, इन्द्रो लकारः, भुवनेश्वरी ह्रीं | एवञ्च ऐ/ क्लीं सौः ईं स ह क ल री/ ह स क ह ल ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-मनुस्वर इत्यादिना | सबिन्दुर्मनुस्वर औं इति | शक्तिः सकारः, शिवो हकारः, बालायाः शक्तिकूटं सौः, शक्तिः सकारः, कमलासनो ब्रह्मा ककारः, गोत्रभिदिन्द्रबीजं लकारः, भुवनेशानी ह्रीं, हंसबीजं हंसः इति | एवञ्च औ/ स ह सौः स क ल ह्रीं हंसः इति शक्तिकूटमित्येवं पर्यवस्यति | शिवः शक्तिरिति पाठे तु ह स सौरित्यादिमन्त्रो भवतीति ज्ञेयम् | तदेतेषां समष्टिरूपो मन्त्रो रेखान्यासेन प्रदर्श्यते (सप्तत्रिंशदक्षरी मृत्युञ्जयाख्या विद्या) वाग्भव कूटम् कामराज कूटम् शक्ति कूटम् अ ऐ/ औ/ आं क्लीं स सौः सौः ह ऐ/ ई/ सौः स स स ह ह क रै/ क ल ए ल ह्रीं ई री/ हं क ह सः ल स ह्रीं क ह ल ह्रीं (प्. ३१६) (पञ्चदशाक्षरी विद्या, तत्र वाग्भवकूटम्) शिवो मदनशक्रौ च शक्तिस्तु भुवनेश्वरी | (कामरजकूटम्) ब्रह्मा शिवेन्द्रौ शक्तिश्च महामाया ततः परा || १५२ || (शक्तिकूटम्) मादनेन्द्रौ शक्तिशिवौ महामाया तदन्तिके | एषा पञ्चदशी भाषा साक्षात् त्रिपुरसुन्दरी || १५३ || (एतन्मन्त्रप्रकर्षः) सर्वज्ञानमयी देवी चतुर्वर्गप्रदायिनी | एवमेषा महाविद्या महात्रिपुरसुन्दरी || १५४ || (अस्य प्रामाणिकतन्त्रसंवादित्वम्) बृहच्छीक्रमतन्त्रस्य मतमेतदुदीरितम् || १५५ || _________________________________________________________________ १५२-१५३ | अथ पञ्चदशाक्षरं मन्त्रान्तरमाह-शिव इत्यादिना | शिवो हकारः, मदनः ककारः, शक्रो लकारः, शक्तिः सकारः, भुवनेश्वरी ह्रीं | एवञ्च ह क ल स ह्रीमिति वाग्भवकूटम् | कामराजकूटमाह-ब्रह्मेत्यादिना | ब्रह्मा ककारः शिवो हकारः, इन्द्रो लकारः, शक्तिः सकारः, महामाया ह्रीं | एवञ्च क ह ल स ह्रीमिति कामराजकूटम् | शक्तिकूटमाह मादनेत्यादिना | मादनः ककारः, इन्द्रो लकारः, शक्तिः सकारः, शिवो हकारः, महामाया ह्री/ | एवञ्च क ल स ह ह्रीमिति शक्तिकूटम् | एतेषां समष्टिरूपो मन्त्रो यथा- वाग्भव कूटम् कामराज कूटम् शक्ति कूटम् ह क क क ह ल ल ल स स स ह ह्रीं ह्रीं ह्रीं (प्. ३१७) (अथ शाम्भवकामराजविद्यानिरूपणप्रतिज्ञा) अथ विद्यां प्रवक्ष्यामि कामदेवेन सेविताम् | यस्या आराधनेनैव कामः सर्वाङ्गसुन्दरः || १५६ || (एतद्विद्याप्रकर्षः) विद्यानामुत्तमा विद्या सर्वतीर्थमयी परा | सर्वशास्त्रमयी विद्या सर्वसौभाग्यसुन्दरी || १५७ || (तस्या द्वैविध्यम्) शाक्तशाम्भवभेदेन कथयामि सुदुर्लभाम् || १५८ || (तत्र शाम्भवकामराजविद्या पञ्चदशाक्षरी) कन्दर्पो विष्णुयुक्तोऽधरमुखसहितो दक्षकर्णोर्द्ध्ववर्णो भूमायावर्णयुक्तस्तदनुकुलपरः शम्भुपूर्वः स्मरश्च | कन्दर्पारिः सुरेन्द्रस्त्रिभुवनजननी चाथ सोमः कलार्णौ दत्त्वा मायां तदन्ते भजति सुरगणो मन्त्रमेनं प्रसिद्धम् || १५९ || ________________________________________________________________ १५९ | कन्दर्प इति | विष्णुरकारस्तद्युक्तः कन्दर्पः क् इति वर्णः | अत्र व्यञ्जनवर्णस्य स्वातन्त्र्येणोच्चारणासामर्थ्याद् विष्णुयुक्त इत्युक्तम् | अन्यत्राप्येवमेव | अधरेति अधरस्य ऐकारस्य मुखमेकारस्तत्सहित इत्यर्थः, एतेन क ए इति वर्णद्वयं प्राप्तम् | दक्षेति, दक्षकर्ण उकारस्तस्य ऊर्द्ध्ववर्ण ईकारः, भूमिबीजं लकारः, मायाबीजं ह्री/ | एवञ्च मन्त्रस्यास्य क ए ई ल ह्रीमिति वाग्भवकूटम् | अस्य कूटभेदांस्त्वग्रे स्वयमेव वक्ष्यति | तदनु द्वितीये कामराजकूटे प्रथमं कुलपरः शिवो हकारः, शम्भुपूर्वः शम्भुः शिवबीजं हकारस्तत्पूर्वः सकारः, स्मरः ककारः, कन्दर्पारिर्हकारः, सुरेन्द्रो लकारः, त्रिभुवनजननी ह्रीं | एवञ्च ह स क ह ल ह्रीमिति कामराजकूटम् | ततः शक्तिकूटमभिधत्ते-अथेति | अत्राथशब्दः कूटभेदसूचकः | सोमश्चन्द्रबीजं सकारः, कलार्णौ क ल इति वर्णद्वयम्, तदन्ते तेषां त्रयाणां वर्णानामन्ते मायां ह्रीमिति मायाबीजं दत्त्वा सुरगणो भजतीति सम्बन्धः | एतेन स क ल ह्रीमिति शक्तिकूटमिति पर्यवस्यति | अत्र सुर-गणो भजतीत्युक्त्या सुराणामुपासनीयत्वं मर्त्त्यानामनुपासनीयत्वञ्चास्य सूचितम् | (प्. ३१८) (तत्र कूटत्रयविभागपरिपाटी) आद्यन्तु वाग्भवं कूटं पञ्चवर्णात्मकं शुभम् | ऋतुवर्णात्मकं कूटं कामराजन्तु मध्यमम् || १६० || चतुरक्षररूपन्तु शक्तिकूटं तदन्तिमे | एवं कूटात्मिका देवी त्र्यक्षरी त्रिपुरेश्वरी || १६१ || (अस्या विद्यायाः कीलितत्वम्) वामकेशी शाम्भवी सा पूर्वाम्नायैः प्रकीर्तिता | ज्ञेया सा कीलिता विद्या सिद्धिदा न हि भूतले || १६२ || (अत्र प्राचीनेतिवृत्तम्) एतत्कारणवृत्तान्तं कथयामि समासतः || १६३ || ब्राह्मणो मूर्ख एको हि महादुःखि महीतले | आसीच्च नगरे नित्यं भिक्षार्थी विचरेद्द्विजः || १६४ || कदाचिदेकः सन्न्यासी तं ददर्श द्विजं कृशम् | जलाभिलाषिणं विप्रं निजगाद सरस्तटे || १६५ || कस्मादिह समायातः को वा त्वं कथय ध्रुवम् | विलोक्य सहसा विप्रो नत्वा तं दण्डधारिणम् || १६६ || _____________________________________________________________ (शाम्भवकामराजविद्या पञ्चदशाक्षरी) (कीलिता) वाग्भव कूटम् कामराज कूटम् शक्ति कूटम् क ह स ए स क ई क ल ल ह ह्रीं ह्रीं ल ह्रीं १६०-६१ | अस्य कूटभेदान् दर्शयति आद्यन्त्वित्यादिना | प्रथमं पञ्चवर्णात्मकं वाग्भवकूटम्, द्वितीयं षड्वर्णात्मकं कामराजकूटम् | तृतीयं वर्णचतुष्टयात्मकं शक्तिकूटम् | कूटत्रयविभागपुरःसरमस्य स्वरूपं रेखापातेन प्रदर्श्यते (प्. ३१९) ब्राह्मणोऽहं दुःखभागी कमलाकरसंज्ञकः | दत्त्वाशीर्वादं सन्न्यासी भूयो ब्राह्मणमब्रवीत् || १६७ || तवैव दुःखनाशार्थं हितोपायं शृणु द्विज | मन्त्रैकं कथयामि त्वां स्नानं कुरु विधानतः || १६८ || विधिवत् स्नानमाचर्य जलादुत्थाय तत्क्षणात् | पद्मपत्रे जलं कृत्वा पद्मपुष्पेण चार्चय || १६९ || यथा ज्ञानविधानेन गुरुणा कथितो मनुः || १७० || यताहारेण भो विप्र पुरश्चरणमेव हि | कर्तव्यं पुण्यतीर्थेषु पर्वतेषु नदीषु वा || १७१ || विभूतिर्भविता गुर्वी वाणी तव मुखे सदा | भूपतिर्भूतले भूत्वा चान्ते स्वर्गं गमिष्यसि || १७२ || आज्ञाप्य शिष्यमिति यद्धर्मात्मा मन्त्रविद् गुरुः | तपःस्थाने ततो गत्वा पुनस्तद्धर्ममाचरेत् || १७३ || गुरोर्वचनमाकर्ण्य शिष्यः स कमलाकरः | एकचित्तः सदा भूयो जपेन्मन्त्रं विधानतः || १७४ || लक्षसंख्यमुक्तस्थाने यतिर्भूत्वा द्विजोत्तमः | अनेककालपर्यन्तं न लब्ध्वा वाञ्छितं फलम् || १७५ || अनाहारो मुक्तनिद्रो जपेन्मन्त्रं सुविस्तरम् | न दृष्ट्वा कार्यसम्पत्तिं महादुःखी बभूव सः || १७६ || तपो व्यर्थं वृथा विद्या मन्त्रतन्त्रमकारणम् | एतत् कष्टं समासाद्य वदन् विप्रो विषादवान् || १७७ || (प्. ३२०) न माता न पिता चैव न भ्राता न च बान्धवाः | सारथिर्नास्ति मेऽरण्ये महादुःखेऽप्युपस्थिते || १७८ || निर्दयो मे विधाता च निर्दयो मे सनातनः | निर्दयः पार्वतानाथो निर्दया करुणामयी || १७९ || धर्मकर्म तिरस्कृत्य मन्त्रतन्त्रं विशेषतः | स दिदृक्षुर्विधातारं गहनं वनमाविशत् || १८० || जन्तवो बहवस्तत्र विशालव्यालसङ्कुलाः | यक्षराक्षसकुष्माण्ड-डाकिनीगणसंवृताः || १८१ || उत्तमं भयमासाद्य क्लेशतापेन तापितः | बलहीनो वटुर्भूत्वाभर्त्सयत् कमलासनम् || १८२ || इत्थमेवंविधे काले भर्त्सिते कमलासने | वटुना दुःखितेनापि सरस्तेनावलोकितम् || १८३ || नानापुष्पसमाकीर्णं हंसषट्पदशोभितम् | नानावृक्षतटाक्रान्तं नानापक्षिविभूषितम् || १८४ || क्रन्दन् भूमौ वटुः शेते सरस्तीरे विषादवान् | ब्रह्मोद्देशे तनुंत्यक्त्वा क्षिप्रं यामि यमालयम् || १८५ || सरःकमलसंस्थोऽपि लज्जया चतुराननः | ब्राह्मणं रूपमास्थाय गतवान् विप्रसन्निधौ || १८६ || शयनस्थं द्विजं क्लिष्टं तमुवाच पितामहः | कस्त्वं कथं वने चास्मिन् हेतुना केन वागतः || १८७ || (प्. ३२१) श्रुत्वा तद्वचनं विप्रो विस्मितश्चाभवत्तदा | कुतः कमागतः को वा मनुष्यो वाथ दानवः || १८८ || किञ्चिन्न भाषते वाक्यं ब्राह्मणं पृष्टवान् पुनः | अव्यक्तचक्षुषा विप्रः प्रत्युत्तरं ददाति सः || १८९ || त्वमेव कः समायातः कस्मादिह वदस्व तत् | द्विजस्य वचनं श्रुत्वा ब्रह्मा वाक्यमभाषतः || १९० || ब्राह्मणोऽहं तपस्वी च निवसाम्यत्र कानने | जलं फलं समादाय तस्तप्तो ह्यतन्द्रितः | अनेककालपर्यन्तं नरसङ्गविवर्जितः || १९१ || कथं त्वमीदृशो रूपं कथ्यतां तद्द्विजोत्तम | त्वां विलोक्य विशेषेण मदीयं दह्यते वपुः || १९२ || एतद्दुःखमभिप्राप्य कथमत्रापि तिष्ठसि || १९३ || ब्राह्मण उवाच विधातुर्दर्शनार्थाय आगतोऽस्मि वनान्तिके | तदुद्देशे वधं कृत्वा यास्यामि धर्मशाश्वतम् || १९४ || ब्रह्मोवाच वृथाऽशा क्रियते विप्र या न स्यात् पृथिवीतले || १९५ || कैलासशिखरे रम्ये ब्रह्मविष्णुमहेश्वराः | तिष्ठन्ति सर्वदा देवाः कदाचित् स्वर्गशासने || १९६ || कथं भवेद्दर्शन्ं वा त्वया सार्द्धं हविर्भुजः | इदं शरीरमादाय गच्छ त्वं निजवेश्मनि || १९७ || (प्. ३२२) तपस्विनं प्रणम्याथ विप्रो वचनमब्रवीत् | गच्छ गच्छ महाभाग तूर्णमेव निजालयम् || १९८ || मत्कर्मफलयोगेन यदर्थमुपकल्पितम् | तद्भोक्तव्यं मया साक्षात् किमेतद्वचनेन वै || १९९ || दर्शनं ब्रह्मणा सार्द्धं भवेद् यद्यचिरान्मम | निवृत्तिर्मे तदा ज्ञेया अन्यथा निधनं किल || २०० || निष्ठुरं वचनं श्रुत्वा ब्राह्मणस्य प्रजापतिः | प्रपलायय गतस्तस्माद् यत्न देवो महेश्वरः || २०१ || प्रणिपातसहस्रेण देवदेवं प्रणम्य च | पुनः परमया भक्त्या निजगाद पितामहः || २०२ || किं करोमि जगन्नाथ कुत्र गच्छामि साम्प्रतम् | ब्राह्मणस्य वधेनैव विनाशो मे भविष्यति || २०३ || ज्ञात्वा तु सर्वं वृत्तान्तं सर्वज्ञः परमेश्वरः | प्रत्युवाच विधातारं किं वधं ब्रूहि मे ध्रुवम् || २०४ || ब्रह्मणा सर्ववृत्तान्तं कथितं शङ्करस्य च | केनोपायेन देवेश तद्वधो न भवेन्मयि || २०५ || तूष्णीं भूयो महेशोऽपि सहसा सरसीं प्रति | जगामाव्यक्तरूपेण ब्राह्मणस्य च सन्निधौ || २०६ || कमलाकरमाहूयावदत्तत्र पिणाकधृक् | कथं त्यजसि देहं त्वं कान्तमत्यन्तसुन्दरम् || २०७ || (प्. ३२३) आत्मघाती भवेद् यस्तु क्रुद्धात्मा धरणीतले | मत्तः शृणु विशेषं त्वमुत्कटं नरकं व्रजेत् || २०८ || नोच्यते वटुना तेन ज्ञानहीनेन दुःखिना | विचिन्त्यैतन्महादेव उपविश्य पुनर्वदन् || २०९ || दुर्मोहस्त्वं दुराचारो मुक्तहार्द्दोऽप्रियंवदः | मां विलोक्य महारण्ये न ददास्युत्तरं कथम् || २१० || इत्येतद् वचनं श्रुत्वा तथोमेशं ददर्श सः | देवदेवं जगन्नाथं तपस्विरूपधारिणम् || २११ || नत्वा विनम्रभावेन स्वीयदुःखं न्यवेदयत् | अखिलं सर्ववृत्तान्तं कथितं तद्द्विजेन तु || २१२ || ज्ञात्वा श्रुत्वा महेशोऽपि द्विजस्य मनुलक्षणम् | सदयः पार्वतीनाथो ब्राह्मणाय वचोऽब्रवीत् || २१३ || गृहीतदुष्टमन्त्रेण हन्यते सिद्धिरुत्तमा || २१४ || प्रत्युवाच द्विजस्तत्र कथं जानासि लक्षणम् | समस्तं ब्रूहि भगवन् शृणोमि त्वत्प्रसादतः || २१५ || ईश्वर उवाच | तवाभिप्रायमासाद्य सर्वं ज्ञातं मया द्विज | यदि त्वं प्रियमाकाङ्क्षी विप्रोऽसि परमार्थतः || २१६ || तदा मत्तो मनुं गृह्ण भुक्तिमुक्तिप्रदायकम् || २१७ || कथिता देवदेवेन विद्या परमदुर्लभा | ब्राह्मणाय सुसिद्धा सा सर्वाभीष्टप्रदायिनी || २१८ || (प्. ३२४) एवमुक्तो विभुस्तस्य अन्तर्धानोऽभवच्च सः || २१९ || लक्षमेकं मनुं जप्त्वा व्रती चैव द्विजोत्तमः | लभेताभीष्टसिद्धन्तु सत्यमेव सुनिश्चितम् || २२० || शुद्धमन्त्रप्रभावेण प्रत्यक्षा चण्डिकाभवत् | वरं गृहाण विप्र त्वं मनसा वाञ्छितं यथा || २२१ || दृष्ट्वा तां चण्डिकां देवीं नमस्कुर्याद्द्विजोत्तमः | इह विप्रपतिर्भूत्वा परे यामि विभोस्तनौ | वरेणातःपरेणापि फलं किं मे भविष्यति || २२२ || एकं भो न वरं लेभे परं ब्रह्मसमागमम् | अधुना भूपतिर्भूत्वा राज्यसौख्यमवप्स्यसि || २२३ || अतः परं मनुं जप्त्वा शचीपतिर्भविष्यसि || २२४ || वरं लब्ध्वा महाभागो ब्राह्मणः कमलाकरः | चण्डिकायाः प्रसादेन सहसा स नृपोऽभवत् || २२५ || लभते वाञ्छितां सिद्धिं मन्त्रात् कार्यं न सिध्यति || २२६ || अतोऽपि विधिनानेन यो जपेत् कीलितं मनुम् | कल्पकोटिशतेनापि सिद्धिस्तस्य न जायते || २२७ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ दशमः प्रकाशः || १० || _______________________________________________________________ २२३ | एकमिति | एकं परंब्रह्मसमागमं वरं कोऽपि न लेभे अतोऽलं ते तत्प्रार्थनया | तत् किं मया लभ्यमित्यत आह अधुनेत्यादि | २२६ | मन्त्रादिति कीलितमन्त्रादित्यर्थः | ########### END OF FILE #######